| YouTube Channel

रोपणचूर्णं (ropaNacUrNaM)

 
शब्दकल्पद्रुमः
Sanskrit
रोपणचूर्णं,
क्ली,
(रोपणस्य चूर्णम् ।) नयनाञ्जन-विशेषः यथा, भावप्रकाशे ।अथ रोपणचूर्णम् ।“शिलायां रसकं पिष्ट्वा सम्यगाप्लाव्य वारिणा ।गृह्णीयात् तज्जलं सर्व्वं त्यजेच्चूर्णमधोगतम्
शुष्कं तच्च जलं सर्व्वं पर्पटीसन्निभं भवेत् ।विचूर्ण्य भावयेत् सम्यक् त्रिवेलं त्रिफलारसैः
कर्पूरस्य रजस्तत्र दशमांशेन निक्षिपेत् ।अञ्जयेन्नयनं तेन सर्व्वदोषोपशान्तये
समस्तनेत्ररोगघ्नं चूर्णमेतन्न संशयः