रोधयिता-त्री (rodhayitA-trI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“रुधिर् आवरणे”@} 2 ‘आवरणम् = व्याप्तिः।’ इति क्षीरस्वामी।
‘रुन्धे रुणध्यावरणे, कामेऽनावनुरुध्यते।।’ 3 इति देवः।
रोधकः-धिका, रोधकः-धिका, रुरुत्सकः-त्सिका, रोरुधकः-धिका
रोद्धा-रोद्ध्री, रोधयिता-त्री, रुरुत्सिता-त्री, रोरुधिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि रौधादिकभिन्दतिवत् 4 ज्ञेयानि।
5 अङ्गरोधी-उपरोधी, 6 प्रतिरोधी, 7 अनुरोधी, 8 व्रजे उपरुध्य-व्रजोपरोधं, 9 कारोपरोधम् वा गाः-पाययति, 10 रोधनः, 11 मार्गरुत् 12 -द्-रुधौ-रुधः, 13 विरोधी, 14 15 गां व्रजमवरुन्धन्, 16 रुधिरम्, 17 रोधः, इतीमान्यस्माद् भवन्तीति विशेषः।
01 (१४२४)
02 (७-रुधादिः-१४३८। सक। अनि। उभ।)
03 (श्लो। १२१)
04 (११६०)
05 [[२। अङ्गानि रुणद्धीति अङ्गरोधी। ग्रह्यादिषु (३-१-१३४) कर्मण्यणोऽपवादो णिनिप्रत्ययः। एवम् उपरुणद्धीति उपरोधी इत्यत्रापि ग्रह्यादित्वादेव णिनिः।]]
06 [[३। ‘भविष्यति गम्यादयः’ (३-३-३) इत्यत्र गणे पाठात् भविष्यत्काले औणादिको णिनिरत्र।]]
07 [[४। ‘सम्पृचानुरुध--’ (३-२-१४२) इत्यादिना ताच्छीलिको घिनुण्प्रत्ययः।]]
08 [[५। ‘सप्तम्यां चोपपीडरुधकर्षः’ (३-४-४९) इति सप्तम्यन्ते तृतीयान्ते चोपपदे उपपूर्वकादस्मात् णमुल्। ‘तृतीयाप्रभृतीनि--’ (२-२-२१) इति समासविकल्पः।]]
09 [[B। ‘तं शूरसूनुं सह जाययोग्रः कारोपरोधं निगलैरसेष्ट।।’ वा। वि। २। ४०।]]
10 [[६। नन्द्यादिषु पाठपरिकल्पनादत्र कर्तरि ल्युप्रत्ययः।]]
11 [[७। मार्गं रुणद्धीति मार्गरुध्, ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्।]]
12 [[C। ‘निरुध्यमाना यदुभिः कथञ्चित् मुहुर्यदुच्चिक्षुपुरग्रपादान्। ध्रुवं गुरून् मार्गरुधः करीन्द्रानुल्लङ्ध्य गन्तुं तुरगास्तदीषुः।।’ शि। व। ३-२९।]]
13 [[८। विशेषेण रुणद्धीति विरोधी, ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
14 [पृष्ठम्११३२+ २४]
15 [[१। अयं द्विकर्मकः। तेन, अत्र ‘अकथितं च’ (१-४-५१) इति कर्मसंज्ञायां द्वितीया।।]]
16 [[२। ‘इषिमदिमुदि--’ (द। उ। ८ २६) इत्यादिना किरच्प्रत्यये रूपमेवम्। रुधिरम् = रक्तम्।]]
17 [[३। ‘असुन्’ (द। उ। ९-४९) इत्यसुन्प्रत्यये रूपम्। रोधः = जलप्रवाहः। सकारान्तः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
