| YouTube Channel

रोधकः-धिका (rodhakaH-dhikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रुधिर् आवरणे”@} 2 ‘आवरणम् = व्याप्तिः।’ इति क्षीरस्वामी।
‘रुन्धे रुणध्यावरणे, कामेऽनावनुरुध्यते।।’ 3 इति देवः।
रोधकः-धिका, रोधकः-धिका, रुरुत्सकः-त्सिका, रोरुधकः-धिका
रोद्धा-रोद्ध्री, रोधयिता-त्री, रुरुत्सिता-त्री, रोरुधिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि रौधादिकभिन्दतिवत् 4 ज्ञेयानि।
5 अङ्गरोधी-उपरोधी, 6 प्रतिरोधी, 7 अनुरोधी, 8 व्रजे उपरुध्य-व्रजोपरोधं, 9 कारोपरोधम् वा गाः-पाययति, 10 रोधनः, 11 मार्गरुत् 12 -द्-रुधौ-रुधः, 13 विरोधी, 14 15 गां व्रजमवरुन्धन्, 16 रुधिरम्, 17 रोधः, इतीमान्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४२४)
02
=>
(७-रुधादिः-१४३८। सक। अनि। उभ।)
03
=>
(श्लो। १२१)
04
=>
(११६०)
05
=>
[[२। अङ्गानि रुणद्धीति अङ्गरोधी। ग्रह्यादिषु (३-१-१३४) कर्मण्यणोऽपवादो णिनिप्रत्ययः। एवम् उपरुणद्धीति उपरोधी इत्यत्रापि ग्रह्यादित्वादेव णिनिः।]]
06
=>
[[३। ‘भविष्यति गम्यादयः’ (३-३-३) इत्यत्र गणे पाठात् भविष्यत्काले औणादिको णिनिरत्र।]]
07
=>
[[४। ‘सम्पृचानुरुध--’ (३-२-१४२) इत्यादिना ताच्छीलिको घिनुण्प्रत्ययः।]]
08
=>
[[५। ‘सप्तम्यां चोपपीडरुधकर्षः’ (३-४-४९) इति सप्तम्यन्ते तृतीयान्ते चोपपदे उपपूर्वकादस्मात् णमुल्। ‘तृतीयाप्रभृतीनि--’ (२-२-२१) इति समासविकल्पः।]]
09
=>
[[B। ‘तं शूरसूनुं सह जाययोग्रः कारोपरोधं निगलैरसेष्ट।।’ वा। वि। २। ४०।]]
10
=>
[[६। नन्द्यादिषु पाठपरिकल्पनादत्र कर्तरि ल्युप्रत्ययः।]]
11
=>
[[७। मार्गं रुणद्धीति मार्गरुध्, ‘क्विप् च’ (३-२-७६) इति कर्मण्युपपदे क्विप्।]]
12
=>
[[C। ‘निरुध्यमाना यदुभिः कथञ्चित् मुहुर्यदुच्चिक्षुपुरग्रपादान्। ध्रुवं गुरून् मार्गरुधः करीन्द्रानुल्लङ्ध्य गन्तुं तुरगास्तदीषुः।।’ शि। व। ३-२९।]]
13
=>
[[८। विशेषेण रुणद्धीति विरोधी, ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
14
=>
[पृष्ठम्११३२+ २४]
15
=>
[[१। अयं द्विकर्मकः। तेन, अत्र ‘अकथितं च’ (१-४-५१) इति कर्मसंज्ञायां द्वितीया।।]]
16
=>
[[२। ‘इषिमदिमुदि--’ (द। उ। २६) इत्यादिना किरच्प्रत्यये रूपमेवम्। रुधिरम् = रक्तम्।]]
17
=>
[[३। ‘असुन्’ (द। उ। ९-४९) इत्यसुन्प्रत्यये रूपम्। रोधः = जलप्रवाहः। सकारान्तः।]]