| YouTube Channel

रोदिता-त्री (roditA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रुदिर् अश्रुविमोचने”@} 2 3 रोदकः-दिका, रोदकः-दिका, 4 रुरुदिषकः-षिका, रोरुदकः-दिका
रोदिता-त्री, रोदयिता-त्री, रुरुदिषिता-त्री, रोरुदिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकतोहतिवत् 5 ज्ञेयानि।
रुदित्वा, 6 रोदसी, 7 रोरुद्यमानः, रोरुदा 8, 9 रुद्रः-रुद्राणी, रुद्रा, 10 अलं रुदित्वा, अलं रोदनेन, 11 रुरुदिषा, इतीमान्यस्माद्भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४२२)
02
=>
(२-अदादिः-१०६७। अक। सेट्। पर।)
03
=>
[पृष्ठम्११३०+ २८]
04
=>
[[१। ‘रलो व्युपधात्--’ (१-२-२६) इति क्त्वासनोः कित्त्वविकल्पे प्राप्ते, ‘रुदविद--’ (१-२-८) इत्यनेन नित्यकित्त्वम्। तेन सन्नन्तेषु क्त्वायामपि रूपमेकमेव।]]
05
=>
(७६०)
06
=>
[[२। ‘असुन्’ (द। उ। ९-४९) इत्यसुन्प्रत्यये रूपम्। पुष्पवन्तावित्यादिवत् अभि- धानस्वाभाव्यात् नित्यं द्विवचनान्तोऽयम्। रोदसी = द्यावाभूमी।]]
07
=>
[[आ। ‘रोरुद्यमानः तदाऽप्यपृच्छत् यथावदाख्यन् अथ वृत्तमस्मै।।’ भ। का। ३-२९।]]
08
=>
[[B। ‘तां संहितोरूं युवतिं सरोरुदां शौरिर्व्यमार्क्षीत् कुररीमिवेक्षिता।।’ वा। वि। १। ४९।]]
09
=>
[[३। ‘रोदेर्णिलुक् च’ (द। उ। ८-३९।) इति रक्प्रत्ययो णिलुक् भवति। रोदयति दानवयोषित इति रुद्रः। स्त्रियाम्, ‘इन्द्रवरुणभवशर्वरुद्र--’ (४-१-४९) इत्यादिना पुंयोगे ङीषानुगागमौ भवतः। तेन रुद्राणी इति सिध्यति। एतच्च रुद्रपत्नीविषयकं बोध्यम्। यदा तु रुद्रा इति सुपर्णपत्नी बोध्यते-तदानीमजादिपाठ- परिकल्पनेन (४-१-४) टापि रूपनिष्पत्तिरिति बोध्यम्।]]
10
=>
[[४। ‘अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा’ (३-४-१८) इति प्रतिषेधार्थकस्याल- मित्यव्ययस्य प्रयोगे क्त्वाप्रत्ययः। अत्र ‘स्त्र्यधिकारादूर्ध्वं वासरूपविधिर्नास्ति’ इति शाब्दिकमर्यादया पक्षे ल्युडपि भवति। तेन ‘अलं रोदनेन’ इति सिद्ध्यति। प्रकृत्यादित्वादत्र रोदनेन इति तृतीया--इत्यादिकं बृहच्छब्देन्दु- शेखरे विस्तृतम्।]]
11
=>
[[C। ‘रुरुदिषा वदनाम्बुरुहश्रियः सुतनु सत्यमलङ्करणायते।’ शि। व। ६-१७।]]