| YouTube Channel

रोदनं (rodanaM)

 
Apte 1890
English
रोदनं [रुद्-ल्युट्] 1 Weeping
see रुदन.
2 A tear or tears.
शब्दकल्पद्रुमः
Sanskrit
रोदनं,
क्ली,
(रुद् + ल्युट् ।) क्रन्दनम् (यथा, चाणक्यशतके ६२ ।“दुर्ब्बलस्य बलं राजा बालानां रोदनं बलम् ।बलं मूर्खस्य मौनित्वं चौराणामनृतं बलम्
”)अस्रु इति मेदिनी ने, ११९
तस्य शुभाशुभंयथा, --“अनश्रु स्निग्धरुदितमदीनं शुभदं नृणाम् ।प्रचुराश्रु दीनं रूक्षञ्च रुदितं सुखावहम्
”इति गारुडे ६६ अध्यायः
कपिलाधेनूनां नेत्राम्बुना रत्नसमूहो जातः ।यथा, --“युद्धे मुनिं मृतं दृष्ट्वा रुरोद कपिला मुहुः
”इत्युपक्रम्य ।“तदश्रुबिन्दुना मर्त्ये रत्नसंघो बभूव
”रोदनाश्रुपतनेन मृतानां नरकं स्यात् यथा, --“ज्ञानिनो मा रुदन्त्येव मा रोदीः पुत्त्र साम्प्र-तम् ।रोदनाश्रुप्रपतनान्मृतानां नरकं ध्रुवम्
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे २७ अध्यायः
मृतमुद्दिश्य रोदननिषेधो यथा, --“श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः ।अतो रोदितव्यं हि क्रियाः कार्य्या विधानतः
”इति शुद्धितत्त्वम्