| YouTube Channel

रोडृ (roDR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रोड्
मूलधातुः:
रोडृ
धात्वर्थः:
उन्मादे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
रोडति
धातुप्रदीपः
Sanskrit
रोडृँ रोडृ
मानकरूपान्तरम् - लोडृँ
लोडृ उन्मादने
- रोडति अरुरोडत् रोडः रोडकः रोडा लोडति अलुलोडत् लोडा लोडः डलयोरेकत्वस्मरणात् लोलः ।। 357, 358 ।।
धातुवृत्तिः
Sanskrit
रोडृँ रोडृ
मानकरूपान्तरम् - लोडृँ
लोडृ (अर्थः) उन्मादे
( रोडति लोडतीत्यादि ) 353
कृदन्तरूपमाला
Sanskrit
1 {@“रोडृ उन्मादे”@} 2 केचिदमुं धातुं पठन्ति।
रोडकः-डिका, 3 प्ररोडकः-डिका, 4 रुरोडिषकः-षिका, रोरोडकः-डिका
रोडिता-त्री, रोडयिता-त्री, रुरोडिषिता-त्री, रोरोडिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकखोरतिवत् 5 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१४४४)
02
=>
(१-भ्वादिः-३५६। अक। सेट्। पर।)
03
=>
[[B। ‘प्ररोडकानङ्गविलोलितैर्वृतान् रतावडद्भिर्ललनाजनैः कलैः।।’ धा। का। १। ४६।]]
04
=>
[[२। सन्नन्ते द्वित्वादिकेषु कृतेषु ‘ह्रस्वः’ (७-४-५९) इत्यभ्यासस्य ह्रस्वः। ‘एच इग्घ्रस्वादेशे’ (१-१-४८) इति परिभाषितत्वात् अत्रोकाररूप इति ज्ञेयम्।]]
05
=>
(३६३)