| YouTube Channel

रोजकः-जिका (rojakaH-jikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रुज हिंसायाम्”@} 2 आस्वदीयः।
‘भङ्गे रुजति, हिंसायां रोजयेदिति णौ रुजेः।।’ श्लो।
६९) इति देवः।
रोजकः-जिका, रुरोजयिषकः षिका
रोजयिता-त्री, रुरोजयिषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिककोटयतिवत् 3 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१४१५)
02
=>
(१०-चुरादिः-१८०५। सक। सेट्। उभ।)
03
=>
(२०५)
1 {@“रुजो भङ्गे”@} 2 ‘भङ्गे रुजति, हिंसायां रोजयेदिति णौ रुजेः।।’ 3 इति देवः।
रोजकः-जिका, रोजकः-जिका, रुरुक्षकः-क्षिका, रोरुजकः-जिका
रोक्ता-रोक्त्री, रोजयिता-त्री, रुरुक्षिता-त्री, रोरुजिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि रौधादिकभुनक्तिवत् 4 बोध्यानि।
चोरस्य 5 रुजन् रोगः, नदी कूलानि रुजती गच्छति, चोरं रुजन्, नीरुजन् मिताशी स्यात्, 6 कूलमुद्रुजः 7, 8 रोगः, 9 हृद्रोगः-हृदयरोगः, 10 रुजा, 11 रुक्, 12 13 रुग्णवान्, 14 लुग्नम्, 15 वीरुक्, इत्यादीनि रूपाण्यस्माद्भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४१६)
02
=>
(६-तुदादिः-१४१६। सक। अनि। पर।)
03
=>
(श्लो। ६९)
04
=>
(११६२)
05
=>
[[१। अत्र ‘रुजार्थानां भाववचनानामज्वरेः’ (२-३-५४) इति धात्वर्थस्य भावकर्तृकत्वे कर्मणि शेषत्वेन विवक्षिते षष्ठी। तुदादित्वात् शतरि शप्रत्ययः। तस्य ङिद्वद्भावे- नाङ्गस्य गुणो न। सूत्रे रुजाशब्देन व्याधिरुच्यते। तेन रुजेः व्याध्यर्थत्वे ‘भाववचनानाम्’ इत्यस्य ‘श्लेष्मा पुरुषं रुजन्’ इति प्रत्युदाहरणमिति केचित्। भाष्ये तु रुजधातोर्भङ्गार्थत्वमेवाश्रित्य, ‘नदी कूलानि रुजति।’ इति प्रत्युदाहृतम्। कर्मणोऽशेषत्वविवक्षायां द्वितीयाऽपि। तेन ‘चोरं रुजन्’ इति सिद्ध्यति। निपूर्वकोऽयं धातुर्व्याधिप्रतीकारे वर्तते। तेन नीरुजन् = (व्याध्यनभिभूतः) इति, प्रतीकारोऽत्रार्थः।]]
06
=>
[[२। ‘उदि कूले रुजिवहोः’ (३-१-३१) इति कूलशब्दे कर्मण्युपपदे उत्पूर्बकस्यास्य खश्प्रत्ययः। ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। शित्त्वात् सार्वधातुक- त्वम्। तस्य ङिद्वद्भावाद् गुणो न। कूलानि उद्रुजतीति कूलमुद्रुजः रथः। उक्षा इति केचित्।]]
07
=>
[[आ। ‘मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः।’ रघु। ४। २२।]]
08
=>
[[३। ‘पदरुजविशस्पृशो घञ्’ (३-३-१६) इति कर्तरि घञ्। रुजतीति रोगः। ‘चजोः--’ (७-३-५२) इति कुत्वम्।]]
09
=>
[[४। ‘वा शोकष्यञ्रोगेषु’ (६-३-५१) इति हृदयशब्दस्य रोगशब्दे परे हृद्भावविकल्पः।]]
10
=>
[[५। भिदादेः (३-३-१०४) आकृतिगणत्वेन तत्र पाठादङ्। प्रत्ययस्य ङित्त्वान्न गुणः।]]
11
=>
[[६। ‘रोगाख्यायां ण्वुल् बहुलम्’ (३-३-१०८) इत्यत्र बहुलग्रहणात् रोगवाचकत्वेऽपि स्त्रियां सम्पदादि (वा। ३-३-१०८) पाठात् क्विप्।]]
12
=>
[पृष्ठम्११२८+ २९]
13
=>
[[१। ‘ओदितश्च’ (८-२-४४) इति निष्ठानत्वम्। निष्ठानत्वस्य परशास्त्रत्वात्, ‘चोः कुः’ (८-२-३०) इति कुत्वस्य पूर्वशास्त्रत्वाच्च, ‘त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्’ इति न्यायेन निष्ठानत्वासिद्ध्या कुत्वमत्रेति बोध्यम्। ‘अट्कुप्वाङ्- नुम्व्यवायेऽपि’ (८-४-२) इति णत्वम्।]]
14
=>
[[२। ‘क्तिच्क्तौ च--’ (३-३-१७४) इति संज्ञायां क्तः। ‘कपिलकादीनां संज्ञाच्छन्दसोः’ (वा। ८-२-१८) इत्यत्र कपिलकादिगणे पाठादत्र धातुरेफस्य लत्वम्। लुग्नम् = जीर्णवस्त्रम्।]]
15
=>
[[३। क्विबन्ते बाहुलकात् ‘अन्येषामपि दृश्यते’ (६-३-१३७) इति पूर्वपदस्य दीर्घः। अत्र क्षीरतरङ्गिण्याम्-- “… ‘नहिवृति--’ (६-३-११६) इति दीर्घः। वीरुक्।” इत्युक्तम्। ‘नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ’ (६-३-११६) इत्यत्र रुचि इति रुचधातोरेव सर्वैः ग्रहणात् चिन्त्यमिदम्।]]