| YouTube Channel

रोचमानः (rocamAnaH)

 
शब्दकल्पद्रुमः
Sanskrit
रोचमानः,
पुं,
(रोचते इति रुच् + शानच् ।)अश्वग्रीवास्थरोमावर्त्तः यथा, --“श्रीवृक्षो हृदयावर्त्तो रोचमानो गलोद्भवः
”इति त्रिकाण्डशेषः
(यथा, माधे ।“अश्वाः ष्यधुर्वसुमतीमतिरोचमाना-स्तूर्णं पयोधय इवोर्म्मिभिरापतन्तः
”नृपविशेषः यथा, महाभारते ६७ १८ ।“अश्वग्रीव इति ख्यातः सत्त्ववान् यो महा-सुरः ।रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः
”दीप्यमाने, त्रि यथा, कथासरित्सागरे ।७४ ७८ ।“रोचमानैः समायुक्तचूडामण्यङ्गदादिभिः ।गन्धर्व्वकुलसम्भूतिसंसिद्धैरिव भूषितम्
”)