रोगी (rogI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Hindi
Hindiरोगी, बीमार या बीमार व्यक्ति
Wordnet
Sanskrit रुग्णः, रोगी, व्याधितः, म्लानः, अभ्यान्तः, अभ्यमितः, सामयः, अपटुः, आमयावी, रोगिणी, आतुरः, आतुरा, रोगार्ता, रोगार्तः, सरोगः, सरोगा
रोगयुक्तः।
"उपचारस्य अभावात् ग्रामे अधिकाः रुग्णाः म्रियन्ते।"
रोगी, रोगिणी, आतुरः, आतुरा, रोगार्तः, रोगार्ता, सरोगः, सरोगा
रोगेन पीडितः।
"रोगिणः धमनी सोष्णा वेगवती भवेत्।"
अमरकोशः
SanskritWord: रोगी
Root: रोगी
Gender: undefined
Number: undefined
Meaning(s):
⇒ sick
⇒ diseased
⇒ dyspeptic
⇒ affected with indigestion
Shloka(s):
2|6|58|1 ► ग्लानग्लास्नू आमयावी विकृतो व्याधितोऽपटुः। (मनुष्यवर्गः)
2|6|58|2 ► आतुरोऽभ्यमितोऽभ्यान्तः समौ पामनकच्छुरौ॥ (मनुष्यवर्गः)
Synonym(s):
➠ 2|6|58|1 ⇢ आमयावी (आमयाविन्) (पुं) ⇒ sick, diseased, dyspeptic, affected with indigestion
➠ 2|6|58|1 ⇢ (आमयाविन्) (स्त्री) ⇒ sick, diseased, dyspeptic, affected with indigestion
➠ 2|6|58|1 ⇢ आमयावि (आमयाविन्) (नपुं) ⇒ sick, diseased, dyspeptic, affected with indigestion
➠ 2|6|58|1 ⇢ विकृतः (विकृत) (पुं) ⇒ sick, ugly, maimed, strange, altered, hostile, changed, deformed, set with, diseased, disloyal, decorated, mutilated, unnatural, estranged, disturbed, incomplete, disfigured, rebellious, transformed, embellished, extraordinary, unaccomplished, capital punishment with mutilation, 24th year in Jupiter's cycle of 60 years
➠ 2|6|58|1 ⇢ (विकृत) (स्त्री) ⇒ sick, ugly, maimed, strange, altered, hostile, changed, deformed, set with, diseased, disloyal, decorated, mutilated, unnatural, estranged, disturbed, incomplete, disfigured, rebellious, transformed, embellished, extraordinary, unaccomplished, capital punishment with mutilation, 24th year in Jupiter's cycle of 60 years
➠ 2|6|58|1 ⇢ विकृतम् (विकृत) (नपुं) ⇒ sick, ugly, maimed, strange, altered, hostile, changed, deformed, set with, diseased, disloyal, decorated, mutilated, unnatural, estranged, disturbed, incomplete, disfigured, rebellious, transformed, embellished, extraordinary, unaccomplished, capital punishment with mutilation, 24th year in Jupiter's cycle of 60 years
➠ 2|6|58|1 ⇢ व्याधितः (व्याधित) (पुं)
➠ 2|6|58|1 ⇢ (व्याधित) (स्त्री)
➠ 2|6|58|1 ⇢ व्याधितम् (व्याधित) (नपुं)
➠ 2|6|58|1 ⇢ अपटुः (अपटु) (पुं) ⇒ sick, awkward, uncouth, diseased, not clever, ineloquent
➠ 2|6|58|1 ⇢ अपटुः (अपटु) (स्त्री) ⇒ sick, awkward, uncouth, diseased, not clever, ineloquent
➠ 2|6|58|1 ⇢ अपटु (अपटु) (नपुं) ⇒ sick, awkward, uncouth, diseased, not clever, ineloquent
➠ 2|6|58|2 ⇢ आतुरः (आतुर) (पुं) ⇒ sick, troubled, afflicted, suffering, desirous of, diseased or pained by
➠ 2|6|58|2 ⇢ (आतुर) (स्त्री) ⇒ sick, troubled, afflicted, suffering, desirous of, diseased or pained by
➠ 2|6|58|2 ⇢ आतुरम् (आतुर) (नपुं) ⇒ sick, troubled, afflicted, suffering, desirous of, diseased or pained by
➠ 2|6|58|2 ⇢ अभ्यमितः (अभ्यमित) (पुं)
➠ 2|6|58|2 ⇢ (अभ्यमित) (स्त्री)
➠ 2|6|58|2 ⇢ अभ्यमितम् (अभ्यमित) (नपुं)
➠ 2|6|58|2 ⇢ अभ्यान्तः (अभ्यान्त) (पुं)
➠ 2|6|58|2 ⇢ (अभ्यान्त) (स्त्री)
➠ 2|6|58|2 ⇢ अभ्यान्तम् (अभ्यान्त) (नपुं)
Related word(s):
परा_अपरासंबन्धः ➡ सिध्मयुक्तः
जातिः ➡ मनुष्यः
अन्यसंबन्धाः ➡ वैद्यः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritरोगी, [न्] त्रि, (रोगोऽस्यास्तीति । रोग +इनिः ।) रोगयुक्तः । तत्पर्य्यायः । व्याधितः २विकृतः ३ ग्लानः ४ म्लानः ५ मन्दः ६ आतुरः ७अभ्यान्तः ८ अभ्यमितः ९ रुग्नः १० सामयः ११अपटुः १२ । इति राजनिर्घण्टः ॥
आम-यावी १३ ग्लास्नुः १४ । इत्यमरः ॥
* ॥
अथचिकित्सार्थं रोगिणः परीक्षा । तत्र वाग्-भटः ।“दर्शनस्पर्शनप्रश्नैः परीक्षेदथ रोगिणम् ।आयुरादि दृशा स्पर्शाच्छीतादेः प्रश्नतोऽप-रम् ॥
”आयुरादि । आदिशब्दात् साध्यत्वासाध्य-त्वादि । दृशा दर्शनेन । अत्र सम्पदादिभ्य-श्चेति भावे क्विप् । स्पर्शात् शीतादेः । शीतोष्ण-मृदुकठिनत्वादिना परीक्षणञ्च । प्रश्नतः ।उदरलाघवगौरवतृषाबुभुक्षाबलाबलादिना ॥
“मिथ्या दृष्टा विकारा हि दुराख्यातास्तथैवच ।तथा दुष्परिपृष्टाश्च मोहयेयुश्चिकित्सकान् ॥
”तत्र दर्शनं नेत्रजिह्वामूत्रादेः कर्त्तव्यम् ॥
* ॥
तत्र नेत्रपरीक्षा यथा, --“नेत्रं स्यात् पवनाद्रूक्षं धूम्रवर्णं तथारुणम् ।कोटरान्तःप्रविष्टञ्च तथास्तञ्च विलोकनम् ॥
हरिद्राखण्डवर्णञ्च रक्तंवा हरितं तथा ।दीपद्वेषि सदाहञ्च नेत्रं स्यात् पित्तकोपतः ॥
चक्षुर्व्वलाशबाहुल्यात् स्निग्धं स्यात् सलिल-प्लुतम् ।तथा धवलवर्णञ्च ज्योतिर्हीनं बलान्वितम् ॥
नेत्रं द्बिदोषबाहुल्यात् स्याद्दोषद्वयलक्षणम् ।त्रिदोषलिङ्कं सेवेत तन्मारयति रोगिणम् ॥
त्रिदोषदूषित नेत्रमन्तर्म्मग्नं भृशं भवेत् ।त्रिलिङ्गं सलिलस्रावि प्रान्तेनोन्मीलयत्यपि ॥
” *अथ जिह्वापरीक्षा ।“शाकपत्रप्रभा रूक्षा स्फुटिता रसनानिलात् ।रक्ता श्यामा भवेत् पित्ताल्लिप्तार्द्रा धवलाकफात् ।परिदग्धा खरस्पर्शा कृष्णा दोषत्रयेऽधिके ।सैव दोषद्वयाधिक्ये दोषद्बितयलक्षणा ॥
”अथ मूत्रपरीक्षा ।“वातेन पाण्डुरं मूत्रं रक्तं नीलञ्च पित्ततः ।रक्तमेव भवेद्रक्ताद्धवलं फेनिलं कफात् ॥
”अथ शरीरस्य उष्णत्वादिज्ञानार्थं स्पर्शनंकार्य्यम् । तत्र नाडीपरीक्षामाह ।“पुंसो दक्षिणहस्तस्य स्त्रियो वामकरस्य तु ।अङ्गुष्ठमूलगा नाडी परीक्ष्येत भिषग्वरैः ॥
अङ्गुलीभिस्तु तिसृभिर्नाडीमवहितः स्पृशेत् ।तच्चेष्टया सुखं दुःखं जानीयात् कुशलोऽखि-लम् ॥
सद्यःस्नातस्य सुप्तस्य क्षुत्तृष्णातपशीलिनः ।व्यायामश्रान्तदेहस्य सम्यक् नाडी न बुध्यते ॥
वातेऽधिके भवेन्नाडी प्रव्यक्ता तर्ज्जनीतले ।पित्ते व्यक्ता मध्यमायां तृतीयाङ्गुलिगा कफे ॥
तर्ज्जनीमध्यमामध्ये वातपित्तेऽधिके स्फुटा ।अनामिकायां तर्ज्जन्यां व्यक्ता वातकफे भवेत् ॥
मध्यमानामिकामध्ये स्फुटा पित्तकफेऽधिके ।अङ्गुलित्रितयेऽपि स्यात् प्रव्यक्ता सन्निपातिनः ॥
वाताद्बक्रगतिर्न्नाडी पित्तादुत्प्लुत्य गामिनी ।कफान्मन्दगतिर्ज्ञेया सन्निपातादतिद्रुता ॥
वक्रमुत्प्लुत्य चलति धमनी वातपित्ततः ।वहेद्वक्रञ्च मन्दञ्च वातश्लेष्माधिके ततः ॥
उत्प्लुत्य मन्दं चलति नाडी पित्तकफेऽधिके ।कामात् क्रोधात् वेगवहा क्षीणा चिन्ताभया-प्लुता ॥
स्थित्वा स्थित्वा चलेद्या सा हन्ति स्थानच्युतातथा ।अतिक्षीणा च शीता च प्राणान् हन्ति नसंशयः ॥
ज्वरकोपेन धमनी सोष्णा वेगवती भवेत् ।मन्दाग्नेः क्षीणधातोश्च सैव मन्दतरा मता ॥
चपला क्षुधितस्य स्यात् तृप्तस्य भवति स्थिरा ।सुखिनोऽपि स्थिरा ज्ञेया तथा बलवती मता ॥
”इति भावप्रकाशः ॥
(लक्षणान्तरादिकमाह ।“रोगो यस्यास्ति रोगी स स चिकित्स्यस्तुयादृशः ।यादृशश्चाचिकित्स्योऽपि वक्ष्यमाणो निशम्य-ताम् ॥
”तत्र चिकित्स्यः ।“निजप्रकृतिवर्णाभ्यां युक्तः सत्त्वेन चक्षुषा ।चिकित्स्यो भिषजां रोगी वैद्यभक्तो जिते-न्द्रियः ॥
”सत्त्वं व्यसनाभ्युदयक्रियादिष्वविह्वलताकरं तेनयुक्तः । चक्षुषा चक्षुरुपलक्षितेन । ततोऽन्ये-नापीन्द्रियेण चिकित्स्यः रोगान् मोचयितव्यः ।अन्यच्च ।“आयुष्मान् सत्त्ववान् साध्यो द्रव्यवान् मित्र-वानपि ।चिकित्स्यो भिषजा रोगी वैद्यवाक्यकृदा-स्तिकः ॥
”आयुर्व्वेदोऽस्तीति मतिर्यस्य स आस्तिकः ॥
अथाचिकित्स्यः ।“चण्डः साहसिको भीरुः कृतघ्नो व्यग्र एव च ।शोकाकुलो मुमूर्षुश्च विहीनः करणैश्च यः ॥
वैरी वैद्यविदग्धश्च श्रद्धाहीनश्च शङ्कितः ।भिषजामविधेयाः स्युर्नोपक्रम्या भिषग्विधाः ॥
एतानुपाचरन् वैद्यो बहून् दोषानवाप्नुयात् ॥
”चण्डोऽत्यन्तक्रोधशीलः । साहसिकः अविचार्य्य-कारी । भीरुर्भयशीलः । कृतघ्नो वैद्यकृतोप-कारलोपकः । व्यग्रो व्याकुलः । विहीनः कर-णैश्च यः निजेन्द्रियशक्तिरहितः । वैरी नचिकित्स्यः कदाचिद्रोगोद्रेके अपवादभयात् ।वैद्यविदग्धो वैद्यधूर्त्तः । तथा च सुश्रुतः ।“स न सिद्ध्यति वैद्यस्तु गृहे यस्य न पूज्यते ।”शङ्कितो वैद्यविश्वासरहितः । भिषजामविधेयाः ॥
वैद्यवचनाविधायिनः । भिषग्विधा वैद्यतुल्याः ।एते नोपक्रम्याः न चिकित्स्याः । अथ दूतस्यलक्षणम् ।“यश्चिकित्सकमानेतुं याति दूतः स कथ्यते ।स च यादृक् समुचितस्तादृगत्र निगद्यते ॥
दूताः सुजातयोऽव्यङ्गाः पटवो निर्म्मलाम्बराः ।सुखिनोऽश्ववृषारूढाः शुभ्रपुष्पफलैर्युताः ॥
सजातयः सुचेष्टाश्च सजीवदिशिसङ्गताः ।भिषजं समये प्राप्ता रोगिणः सुखहेतवे ॥
”सजातयः रोगिसमानजातयः ।“यस्यां प्राणमरुद्बाति सा नाडी जीव-संज्ञिता ॥
”अथ दूतस्य यात्रायां शकुनविचारः ।“वैद्याह्वानाय दूतस्य गच्छतो रोगिणः कृते ।न शुभं सौम्य शकुनं प्रदीप्तन्तु सुखावहम् ॥
”प्रदीप्तमग्निं दूतो रोगी रिक्तहस्तो वैद्यं नपश्येत् । तथा च ।“रिक्तहस्तो न पश्येत्तु राजानं भिषर्जगुरुम् ॥
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
