| YouTube Channel

रोगहरद्रव्यं (rogaharadravyaM)

 
शब्दकल्पद्रुमः
Sanskrit
रोगहरद्रव्यं,
क्ली,
(रोगहरं रोगनाशकं द्रव्यम् ।)रोगनाशकवस्तु यथा, --धन्वन्तरिरुवाच ।“द्रव्याणि मधुरादीनि वक्ष्ये रोगहराण्यहम् ।शालिषष्टिकगोधूमक्षीरञ्चैव तथा मधु
मज्जाशृङ्गाटकयवकशेर्व्वारुकगोक्षुरम् ।गम्भारी पौष्करं बीजं द्राक्षा खर्ज्जूरकं वला
नारिकेलेक्ष्वात्मगुप्ता विदारी पियालकम् ।मधुकं तालकुष्माण्डं मुख्योऽयं मधुरो गणः
मूर्च्छादाहप्रशमनः षडिन्द्रियप्रसादनः ।कृमिकृत् कफकृत् वृष्य एकोऽत्यर्थं निषेवितः
श्वासकाशास्यमाधुर्य्यस्वरघातार्व्वुदानि ।गलगण्डश्लीपदानि गुडलेपादि कारयेत्
*
दाडिमामलकाम्रञ्च कपित्थकरमर्द्दकौ ।मातुलुङ्गाम्रातकञ्च वदरं तित्तिरीफलम्
दधितक्रं काञ्जिकञ्च लकुचं चाम्लवेतसम् ।अम्ला दन्तशठायुक्तो जारणः पाचनो रसः
क्लेदनो वातकृत् वृष्यो विदाही चानुलोमनः ।अम्लोऽत्यर्थं सेव्यमानः कुर्य्याद्वे दन्तहर्षकम्
शरीरस्य शैथिल्यस्वरकुण्ठनकृद्भवेत् ।छिन्नभिन्नव्रणादीनि पाचयत्यग्निभावतः
*
लवणादियवक्षारः सर्ज्जकादिश्च लावणः ।शोधनः पाचनः क्लेदी विश्लेषसर्पणादिकृत्
मागरोधी मार्दवकृत् एकः परिषेवितः ।गात्रकण्डूकोठशोफवैवर्ण्यं जनयेद्रसः ।रक्तवातं रक्तपित्तं पुंस्त्वेन्द्रियरु जादिकम्
*
व्योषशिग्रुं मूलकञ्च देवदारु कुष्ठकम्
लवणं जम्बुजफलं मुस्ता गुग्गुलुलाङ्गली ।कटुको दीपनः शोधी कुष्ठकण्डूकफान्तकृत्
स्थौल्यालस्यकृमिहरः शुक्रमेदोविरोधनः ।एकोऽत्यर्थं सेव्यमानो भ्रमदाहादिकृद्भवेत्
*
कृतमालः करीराणि हरिद्रेन्द्रयवास्तथा ।स्वादुकण्टकवेत्राणि बृहतीद्वयशङ्खिनी
गुडूची द्रवन्ती त्रिवृन्मण्डूकपर्ण्यपि ।कारवेल्लकवार्त्ताकुकरवीरकवासकाः
रोहिणी शङ्खपुष्पी कर्कोटो वैजयन्तिका ।जाती वरुणकं निम्बो ज्योतिष्मती पुनर्न्नवा
तिक्तो रसश्छेदनः स्याद्रोचनो दीपनस्तथा ।शोधनो जरतृष्णाघ्नो मूर्च्छाकण्डूतिकादिजित्
विण्मूत्रक्लेदसंशोषे अत्यर्थं सेवितः ।मन्यास्तम्भक्षेपकार्त्तिशिरःशूलव्रणादिहृत्
*
त्रिफलाशल्लकीजम्बु आम्राम्रातवटादिकम् ।तिन्दुकं वकुलं शाकं निष्पावं मुद्गचिल्लिका
”निष्पावस्थाने पालङ्क्या इति क्वचित् पाठः ।“कषायो ग्राहको रोपी स्तम्भनः क्लेदशोषणः ।एकोऽत्यर्थं सेव्यमानो हृदयादथ पीडकृत्
मुखशोषज्वराध्वानमन्यास्तम्भादिकारकः * ।हरिद्रा कुष्ठलवणमेषशृङ्गीवलाद्बयम्
कच्छपी शल्लकी पन्नो पुनर्न्नवा शतावरी ।अग्निमन्थो ब्रह्मदण्डी स्वदंष्ट्रैरण्डके तथा
यवकोलकुलत्थादि कर्षासीदसमूलकम् ।पृथक् समस्तो वातान्तो बंहुपित्तहरस्तथा
शतावरी विदारी वालकोशीरचन्दनम् ।दूर्व्वा वटः पिप्पली वदरी शल्लकी तथा
कदली चोत्पलं पद्ममुडुम्बरपटोलकम् * ।अथ श्लेष्महरो वर्गो हरिद्रा गुडकुष्ठकम्
शतपुष्पी जाती व्योषारग्वधनाकुली * ।सर्पिस्तैलवसामज्जा स्नेहेषु प्रवरं घृतम्
तथाधीस्मृतिमेधाग्निकाङ्क्षिणां शस्यते घृतम् ।केवलं पैत्तिके सर्पिर्व्वातिके लवणान्वितम्
देयं बहुकफे वापि व्योषक्षारसमन्वितम् ।ग्रन्थीनाडीक्रमिश्लेष्ममेदोमारुतरोगिषु
*
तैलं लाघवदार्ढ्याय क्रूरकोष्ठेषु देहिषु ।वातातपास्वभावातिव्यायामक्षीणधातुषु
रूक्षे क्लेशक्षयात्यग्निवातावृतपथेषु ।तथा दग्धा हलभ्रष्टा योनिकर्म्मा शिरोरुजि
उत्तमस्य पलं मात्रा त्रिभिश्चाक्षैश्च मध्यमे ।जघन्यस्य पलार्द्धेन स्नेहक्वाथौषधेषु
*
जलमुष्णं घृते देयं पृथक् तैले शस्यते ।स्नेहे पीते तु तृष्णायां पिबे दुष्णोदकं नरः
वातानुलोमदीप्ताग्निवर्च्चास्निग्धसमं मतम् ।रूक्षस्य स्नेहणं कार्य्यमतिस्निग्धस्य रूक्षणम्
श्यामाककोरदूषान्नतक्रपिण्याकषष्टिभिः ।वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते
स्वेदयेदतिस्थूलरूक्षदुर्ब्बलमूर्च्छितान्
”इति गारुडे योगसारे १७७ अध्यायः
*
धन्वन्तरिरुवाच ।“घृततैलादि वक्ष्यामि शृणु सुश्रुत रोगनुत् ।शङ्खपुष्पी वचा सोमा ब्राह्मी ब्रह्मसुवर्च्चला
अभया गुडूची चैव अट्टरूषकवाकुची ।एतैरक्षसमैर्भागैर्घृतप्रस्थं विपाचयेत्
कण्टकार्य्या रसप्रस्थः क्षीरप्रस्थसमन्वितः ।एतद्ब्राह्मीघृतं नाम श्रुतिमेधाकरं परम्
*
त्रिफलाचित्रकवलानिर्गुण्डीनिम्बवासकाः ।पुनर्नवा गुडूची बृहती शतावरी
एतैर्घृतं यथालाभं सर्व्वरोगविमर्द्दनम् * ।वलाशतकषाये तु तैलस्यार्द्धाढकं पचेत्
कल्कैर्म्मधुकमञ्जिष्ठाचन्दनोत्पलपद्मकैः ।सूक्ष्मैलापिप्पलीकुष्ठत्वगेलागुरुकेशरैः
गन्धाश्वजीवनीयैश्च जीराढकसमाश्रितम् ।एतन्मृद्वग्निना पक्वं स्थापयेद्रजते शुभे
सर्व्ववातविकारांस्तु सर्व्वधात्वन्तराश्रयान् ।तैलमेतत् प्रशमयेद्बलाख्यं राजवल्लभम्
*
शतावरीरसप्रस्थं क्षीरप्रस्थं तथैव ।शतपुष्पा देवदारु मांसी शैलेयकं वला
चन्दनं तगरं कुष्ठं माला चांशुमती तथा ।एतैः कर्षसमैः कल्कैस्तैलप्रस्थं विपाचयेत्
कुब्जवामनपङ्गूनां वधिरव्यङ्गकुष्ठिनाम् ।वायुना भग्नगात्राणां ये सीदन्ति मैथुने
जराजर्ज्जरगात्राणां चाध्मानमुखशोषिणाम् ।त्वग्गताश्चापि ये वाताः शिरास्नायुगताश्च ये
वस्तिर्नाशयत्याशु तैश्चैव स्याद्दशाङ्गकः ।नारायणमिदं तैलं विष्णुनोक्तं रुगर्द्दनम्
*
पृथक् तैलं घृतं कुर्य्यात् समस्तैरौषधैः पृथक् ।शतावर्य्या गुडूच्या वा चित्रकै रोचनायुतः
निर्गण्ड्या वा प्रसारण्या कण्टकार्य्या रसा-दिभिः ।वर्षावानलया वापि वासकेन फलत्रिकैः
ब्राह्म्या चैरण्डकेनापि भृङ्गराजेन मुण्डिना ।मूषल्या दशमूलेन खदिरेण वटादिभिः
वटिका मोदको वापि चूर्णं स्यात् सर्व्वगोग-नुत् ।घृतेन मधुना वापि युक्तं खण्डगुडादिभिः ।लवणैः कटुकैर्युक्तं यथाभागञ्च रोगनुत्
चित्रकर्कारुत्रिवृतामलघ्नहयमारकम् ।स्वधा वाला गणिका सप्तपर्णसुवर्च्चिकाम्
ज्योतिष्मतीञ्च संभृज्य तैलं धीरो विपाचयेत् ।एतन्निष्यन्दनं तैलं भृशं दद्यात् भगन्दरे
शोधनं रोचनञ्चैव सर्व्ववर्णकरं परम् ।चित्रकाद्यं महातैलं सर्व्वरोगप्रभञ्जनम्
अजमोदः ससिन्दूरो हरितालनिशाद्वयम् ।क्षारद्बयं फेनयुतमार्द्रकं सरलोद्भवम्
इन्द्रवारुण्यपामार्गकदलैः कन्दलैः समैः ।”कन्दलैः स्थाने स्यन्दनैः इति पाठः ।“एमिः सर्षपजं तैलमजामूत्रैश्च योजितम् ।मृद्वग्निना पचेदेतत् अकक्षीरेण संयुतम्
अजमोदादिकं तैलं गण्डमालां व्यपोहति ।विदग्धस्तु पचेत् पक्वं पक्वञ्चैव विशोधयेत्
रोपणं मृदुभावञ्च तैलेनानेन कारयेत् ।अजमोदादिकं तैलं महावीर्य्यञ्च रोगहृत्
”इति गारुडे १७८ अध्यायः