| YouTube Channel

रोगः (rogaH)

 
Apte
English
रोगः [rōgḥ], [रुज्-घञ्]
A disease, sickness, malady, distemper, infirmity
सन्तापयन्ति कमपथ्यभुजं रोगाः
H.*
3.11
भोगे रोगभयम्
Bh.*
3.35.
A diseased spot.
Costus Speciosus (Mar. कोष्ठ).
Comp.
-अन्तकः, -हृत्
m.
a physician. -आयतनम् the body. -आर्त, -अन्वित, -ग्रस्त, -भाज्
a.
afflicted with disease, sick. -उपशमः cure or alleviation of disease. -उल्बणता the raging of diseases. -घ्न
a.
curative, medicinal.
घ्नम् a medicine.
the science of medicine. -ज्ञः a physician. -ज्ञानम् knowledge of disease. -पालकः one who has the care of the sick. -प्रेष्ठः fever (v. l. for रोगश्रेष्ठः). -भूः
f.
the body. -राज् fever. -राजः consumption. -लक्षणम् the symptoms of a disease
pathology. -शमः recovery from sickness. -शान्तकः a physician.
शान्तिः alleviation or cure of a disease. -शिला red arsenic. -श्रेष्ठः fever. -संघातः an attack of fever. -हम् a drug. -हन्
m.
a physician. -हर
a.
curative
संसाररोगहरमौषधमद्वितीयम् Stotra. (-रम्) a medicine. -हारिन्
a.
curative. (m. ) a physician
also रोगहृत्.
Apte 1890
English
रोगः [रुज्-घञ्] A disease, sickness, malady, distemper, infirmity
संतापयंति कमपथ्यभुजं रोगाः H. 3. 117
भोगे रोगभयं Bh. 3. 35.
Comp.
अंतकः,
हृत् m. a physician.
आयतनं the body.
आर्त,
अन्वित,
ग्रस्त,
भाज् a. afflicted with disease, sick.
उपशमः cure or alleviation of disease.
घ्न a. curative, medicinal.
घ्नं {1} a medicine. {2} the science of medicine.
भूः f. the body.
राजः consumption.
लक्षणं the symptoms of a disease.
शांतकः a physician.
शांतिः f. alleviation or cure of a disease.
शिला red arsenic.
श्रेष्ठः fever.
हं a drug.
हन् m. a physician.
हर a. curative. (
रं) a medicine.
हारिन् a. curative. (
m.) a physician.
Apte Hindi
Hindi
रोगः
पुं*
- रुज् + घञ्
"रुजा, बीमारी, व्याधि, मनोव्यथा या आधि, अशक्तता सतांपयन्ति कमपथ्यभुजं रोगाः @ हि* ३/११७, भोगे रोगभयम् @ भर्तृ* ३/३५"
रोगः
पुं*
- रुज्+घञ्
"बीमारी, कष्ट"
रोगः
पुं*
- रुज्+घञ्
रुग्ण स्थान
Tamil
Tamil
ரோக3: : வியாதி, நோய், பிணி.
अमरकोशः
Sanskrit
Word: रोगः
Root: रोग
Gender: पुं
Number: all
Meaning(s):
disease
sickness
infirmity
diseased spot
breaking up of strength
crape ginger or Variegated ginger [Costus Speciosus or Arabicus - Bot.]
Shloka(s):
2|6|51|1 स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। (मनुष्यवर्गः)
3|3|10|2 रुक्तापशङ्कास्वातङ्कः स्वल्पेऽपि क्षुल्लकस्त्रिषु॥ (नानार्थवर्गः)
3|3|197|2 मलोऽस्त्री पापविट्किट्टान्यस्त्री शूलं रुगायुधम्॥ (नानार्थवर्गः)
Synonym(s):
2|6|51|1 रुक् (रुज्) (स्त्री)
2|6|51|1 रुजा (रुजा) (स्त्री) ewe, pain, agony, ailment, disease, sickness, breaking, fracture, crape ginger or Variegated ginger [Costus Speciosus or Arabicus - Bot.]
2|6|51|1 उपतापः (उपताप) (पुं) pain, hurt, heat, haste, hurry, warmth, heating, disease, paining, trouble, sickness, troubling
2|6|51|1 रोगः (रोग) (पुं) disease, sickness, infirmity, diseased spot, breaking up of strength, crape ginger or Variegated ginger [Costus Speciosus or Arabicus - Bot.]
2|6|51|1 व्याधिः (व्याधि) (पुं) plague, ailment, disease, illness, sickness, disorder, Disease personified, any tormenting or vexatious person or thing, crape ginger or Variegated ginger [Costus Speciosus or Arabicus - Bot.]
2|6|51|1 गदः (गद) (पुं)
2|6|51|1 आमयः (आमय) (पुं)
3|3|10|2 आतङकः (आतङ्क) (पुं) fear, fever, panic, agony, disease, disquietude, apprehension, pain of mind, mental anguish, sound of a drum, pain or affliction of mind, disease or sickness of body
3|3|197|2 शूलः (शूल) (पुं)
3|3|197|2 शूलम् (शूल) (नपुं)
Related word(s):
जातिः अवस्था
परा_अपरासंबन्धः सिध्मरोगः
शब्दकल्पद्रुमः
Sanskrit
रोगः,
पुं,
(रुज्यतेऽनेनेति रोजनमिति वा ।रुज + घञ् यद्वा, रुजतीति रुज् + “पद-रुजविशस्पृशो घञ् ।” १६ इति कर्त्तरिघञ् ।) कुष्ठौषधम् इति मेदिनी गे, २३
देहभङ्गकारकः तत्पर्य्यायः रुक् रुजा ३उपतापः व्याधिः गदः आमयः ।इत्यमरः ५१
अपाटवः आमः ९आतङ्कः १० भयः ११ उपघातः १२ भङ्गः १३अर्त्तिः १४ तमोविकारः १५ ग्नानिः १६ क्षयः१७ अनार्ज्जवः १८ मृत्युभृत्यः १९ इति राज-निर्घण्टः
अमः २० इति जटाधरः
मान्द्यम्२१ आकल्पम् २२ इति हेमचन्द्रः
*
अस्य निदानादिर्यथा, --धन्वन्तरिरुवाच ।“सर्व्वरोगनिदानञ्च वक्ष्ये सुश्रुत तत्त्वतः ।आत्रेयाद्यैर्मुनिवरैर्यथापूर्व्वमुदीरितम्
रोगः पाप्मा ज्वरो व्याधिर्विकारो दुष्टमामयः ।यक्ष्मातङ्कगदावाधाः शब्दाः पर्य्यायवादिनः
निदानं पूर्व्वरूपाणि रूपाण्युपशयस्तथा ।संप्राप्तिश्चेति विज्ञानं रोगाणां पञ्चधा स्मृतम्
निमित्तहेत्वायतनप्रत्ययोत्थानकारणैः ।निदानमाहुः पर्य्यायैः प्राग्रूपं येन लक्ष्यते ।उत्पित्सुरामयो दोषविशेषेणानधिष्ठितः
लिङ्गमव्यक्तमल्पत्वात् व्याधीनां तद्यथातथम् ।तदेव व्यक्ततां यातं रूपमित्यभिधीयते
संस्थानं व्यञ्जनं लिङ्गं लक्षणं चिह्नमाकृतिः ।हेतुव्याधिविप्रर्य्यस्तं विपर्य्यस्तार्थकारिणाम्
औषधान्नविहाराणां उपयोगं सुखावहम् ।विद्यादुपशयं व्याधेः हि सात्म्यमिति स्मृतः
विपरीतोऽनुपशयो व्याधिसात्म्याभिसंज्ञितः ।यथा दुष्टेन दोषेण तथा चात्मविसर्पता
निवृत्तिरामयस्यासौ संप्राप्तिर्जातिरागतिः ।संख्याविकल्पप्राधान्यबलकालविशेषतः
भिद्यते यथात्रैव संख्यन्तेऽष्टौ ज्वरा इति ।दोषाणां समवेतानां विकल्पांशांशकल्पना
स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादिशेत् ।हेत्वादिकार्त्स्न्यावयवैर्बलाबलविशेषणम्
नक्तं दिनर्त्तुभुक्तांशैर्व्याधिकालो यथा मलम् ।इति प्रोक्तो निदानार्थः व्यासेनोपदेक्ष्यते ।सर्व्वेषामेव रोगाणां निदानं कुपिता मलाः
तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम् ।अहितस्त्रिविधो योगस्त्रयाणां प्रागुदाहृतः
तिक्तोषणकषायाम्लरूक्षाप्रमितभोजनैः ।धावनोदीरणनिशाजागरात्युच्चभाषणैः
क्रियाभियोगभीशोकचिन्ताव्यायाममैथुनैः ।ग्रीष्माहोरात्रभुक्तान्ते प्रकुप्यति समीरणः
पित्तं कट्वम्लतीक्ष्णोष्णकटुक्रोधविदाहिभिः ।शरन्मध्याह्नरात्र्यर्द्धविदाहसमयेषु
स्वाद्वम्ललवणस्निग्धगुर्व्वभिष्यन्दिशीतलैः ।आस्यास्वप्नसुखाजीवदिवास्वप्नादिवृंहणैः
प्रच्छर्दनाद्ययोगेन भुक्तमात्रवसन्तयोः ।पूर्व्वाह्णे पूर्व्वरात्रे श्लेष्मा वक्ष्यामि शङ्करान्
मिश्रीभावात् समस्तानां सन्निपातस्तथा पुनः ।सङ्कीर्णाजीर्णविषमविरुद्धाध्यशनादिभिः
व्यापन्नमद्यपानीयशुष्कशाकाममूलकैः ।पिण्याकमृत्यवसरापूतिशुष्ककृषामिषैः
दोषत्रयकरैस्तैस्तैस्तथान्नपरिवर्त्ततः ।ऋतोर्दुष्टात् पुरोवातात् विग्रहावेशविप्लवात्
दुष्टामान्नैरतिश्लेष्मग्रहैर्जन्मर्क्षपीडनात् ।मिथ्यायोगाच्च विविधात् पापानाञ्च निषेव-वणात्
स्त्रीणां प्रसववैषम्यात्तथा मिथ्योपचारतः ।प्रतिरोगमिति क्रुद्धा रोगविध्यनुगामिनः ।रसायनीं प्रपद्याशु दोषा देहे विकुर्व्वते
”इति गारुडे सर्व्वरोगनिदानं १५१ अध्यायः
रोगविशेषाणां औषधानि गारुडे १८९ १९० ।१९१ १९२ १९३ १९४ १९५ १९६ ।१९७ १९८ १९९ अध्यायेषु द्रष्टव्यानि
सर्व्वरोगहरवैष्णवकवचञ्च तत्रैव २०० अध्यायेद्रष्टव्यम्
*
अपि ।“जनकः सर्व्वरोगाणां दुर्व्वारो दारुणो ज्वरः ।शिवभक्तश्च योगी एव विकृताकृतिः
भीमस्त्रिपादस्त्रिशिराः षड्भुजो नवलोचनः ।भस्मप्रहरणो रौद्रः कालान्तकयमोपमः
मन्दाग्निस्तस्य जनको मन्दाग्नेर्जनकास्त्रयः ।पित्तश्लेष्मसमीराश्च प्राणिनां दुःखदायकाः
वायुजः पित्तजश्चैव श्लेष्मजश्च तथैव ।ज्वरभेदाश्च त्रिविधाश्चतुर्थश्च त्रिदोषजः
पाण्डुकः कामलः कुष्ठः शोथः प्लीहा शूलकः ।ज्वरातिसारग्रहणीकाशव्रणहलीमकाः
मूत्रकृच्छ्रश्च गुल्मश्च रक्तदोषविकारकः ।आरिशो मेहजः कुब्जो गोदश्च गलगण्डकः
भ्रमरी सन्निपातश्च विसूची दारुणी सति ।एषां भेदप्रभेदेन चतुःषष्टिरुजः स्मृताः
मृत्युकन्यासुताश्चेते जरा तस्याश्च कन्यका ।जरा भ्रातृभिः सार्द्धं शश्वद्भ्रमति भूतलम्
एते चोपायवेत्तारं गच्छन्ति संयुतम् ।पलायन्ते तं दृष्ट्वा वैनतेयमिवोरगाः
*
चक्षुर्जलञ्च व्यायामः पादाधस्तैलसेवनम् ।कर्णतैलं मूर्द्ध्नितैलं जराव्याधिविनाशकम्
वसन्ते भ्रमणं वह्निसेवास्वप्नं करोति यः ।बालाञ्च सेवते काले जरा तं नोपगच्छति
खातशीतोदकस्नायी सेवते चन्दनद्रवम् ।नोपयाति जरा तञ्च निदाघेऽनिलसेविनम्
प्रावृडुष्णोदकस्नायी घनतोयं सेवते ।समये समाहारी जरा तं नोपगच्छति
शरद्रौद्रं गृह्णाति भ्रमणं तत्र वर्जयेत् ।खातस्नायी समाहारी जरा तं नोपतिष्ठति
खातस्नायी हेमन्ते काले वह्निं निषेवते ।भुङ्क्ते नवान्नमुष्णञ्च जरा तं नोपगच्छति
शिशिरेऽंशुकवह्निञ्च नवोष्णान्नञ्च सेवते ।य एवोष्णोदकस्नायी जरा तं नोपगच्छति
सद्योमांसं नवान्नञ्च बाला स्त्री क्षीरभोजनम् ।घृतञ्च सेवते यो हि जरा तं नोपगच्छति
भुङ्क्ते सदन्न क्षुत्काले तृष्णायां पीयते जलम् ।नित्यं भुङ्क्ते ताम्बूलं जरा तं नोपग्च्छति
दधि हैयङ्गवीनञ्च नवनीतं तथा शुभम् ।नित्यं भुङ्क्ते संयमी यो जरा तं नैव गच्छति
शुष्कमांसं स्त्रियो वृद्धा बालार्कं तरुणं दधि ।संसेवन्तं जरा याति प्रहृष्टा भ्रातृभिः सह
रात्रौ ये दधि सेवन्ते पुंश्चलीञ्च रजस्वलाम् ।तमुपैति जरा हृष्टा भ्रातृभिः सह सुन्दरि !
रजस्वला कुलटा चावीरा जारदूतिका ।शूद्रयाजकपत्नी या ऋतुहीना या सति !
यो हि तासामन्नभोजी ब्रह्महत्यां लभेत्तु सः ।तेन पापेन सार्द्धं सा जरा तमुपगच्छति
पापानां व्याधिभिः सार्द्धं मित्रता सन्ततं ध्रुवम् ।पापं व्याधिजराबीजं विघ्नबीजञ्च निश्चितम्
पापेन जायते व्याधिः पापेन जायते जरा ।पापेन जायते दैन्यं दुःखं शोकं भयं कलिः
तस्मात् पापं महावैरं दोषबीजममङ्गलम् ।भारते सन्ततं सन्तो नाचरन्ति भयातुराः
स्वधर्म्माचारयुक्तञ्च दीक्षितं हरिसेवकम् ।गुरुदेवातिथीनाञ्च भक्तं सक्तं तपःसु
व्रतोपवासयुक्तञ्च सदा तीर्थनिषेविणम् ।पापा द्रवन्ति तं दृष्ट्वा वैनतेयमिवोरगाः
एतान् जरा सेवेत व्याधिसङ्घश्च दुर्ज्जयः ।सर्व्वं बोध्यमसमये काले सर्व्वं ग्रहीष्यति
*
ज्वरश्च सर्व्वरोगाणां जनकः कथितः सति ।पित्तश्लेष्मसमीराश्च ज्वरस्य जनकास्त्रयः
एते यथा सञ्चरन्ति स्वयं यान्ति देहिषु ।तमेव विविधोपायं साध्वि मत्तो निशामय
क्षुधि जाज्वल्यमानायामाहाराभाव एव ।प्राणिनां जायते पित्तं चक्रे मणिपूरके
तालं विल्वफलं भुक्त्वा जलपानञ्च तत्क्षणम् ।तदेव तु भवेत् पित्तं सद्यःप्राणहरं परम्
तप्तोदकञ्च शरदि भाद्रे तिक्तं विशेषतः ।दैवग्रस्तश्च यो भुङ्क्ते पित्तं तस्य प्रजायते
सशर्करञ्च धन्याकं पिष्टं शीतोदकान्वितम् ।चणकं सर्व्वगव्यञ्च दधितक्रविवर्ज्जितम्
विल्वतालफलं पक्वं सर्व्वमक्षारमेव
आर्द्रकं मुद्गयूषञ्च तिलपिष्टं सशर्करम्
”अक्षारस्थाने ऐक्षवमिति पाठः ।“पित्तक्षयकरं सद्यो वलपुष्टिप्रदं परम् ।पित्तनाशञ्च तद्बीजमुक्तमन्यं निबोध मे
भोजनानन्तरं स्नानं जलपानं विना तृषा ।तिलतैलं स्निग्धतैलं स्निग्धमामलकीद्रवम्
पर्य्युषितान्नं तक्रञ्च पक्वरम्भाफलं दधि ।छायाम्बुशर्करातोयं सुस्निग्धस्थलसेवनम्
नारिकेलोदकं रूक्षस्नानं पर्य्युषितं जलम् ।तरुमुञ्जपक्वफलं सुपक्वकर्कटीफलम्
खातस्नानञ्च तर्षासु मूलकं श्लेष्मकारणम् ।ब्रह्मरन्ध्रे तज्जन्म महद्वीर्य्यविनाशनम्
वह्निस्वेदं भृष्टिभङ्गं पक्वतैलं विशोषकम् ।भ्रमणं शुष्कभक्षञ्च शुष्कपक्वहरीतकी
पिण्डारकमपक्वञ्च रम्भाफलमपक्वकम् ।वेशवारसिन्धुवारमनाहारमपानकम्
सघृतं रोचनाचूर्णं सघृतं शुष्कशर्करम् ।मरीचं पिप्पलीशुष्कमार्द्रकं जीरकं मधु
द्रव्याण्येतानि गन्धर्व्वि सद्यः श्लेष्महराणि ।बलपुष्टिकराण्येव वायुबीजं निशामय
भीजनानन्तरं सद्यो गमनं धावनं तथा ।छेदनं वह्नितापश्च शश्वद्भ्रमणमैथुनम्
वृद्धस्त्रीगमनञ्चैव मनःसन्ताप एव ।अतिरूक्षमनाहारं युद्धं कलहमेव
कटुवाक्यं भयं शोकः केवलं वायुकारणम् ।आज्ञाख्यचक्रे तज्जन्म निशामय तदौषधम्
पक्वरम्भाफलञ्चैव सबीजं सर्करोदकम् ।नारिकेलोदकञ्चैव सद्यस्तक्रं सुमिष्टकम्
माहिषं दधि मिष्टञ्च केवलं वा सशर्करम् ।सद्यःपर्य्युषितान्नञ्च सौवीरं शीतलोदकम्
पक्वतैलविशेषश्च तिलतैलञ्च केवलम् ।लाङ्गलीतालखर्ज्जूरमुस्तमामलकीद्रवम्
शीतलोष्णोदकस्नानं सुस्निग्धचन्दनद्रवम् ।स्निग्धपद्मपत्रतल्पं सुस्निग्धव्यजनानिलः
एतत्ते कथितं वत्से ! सद्यो वातप्रणाशनम् * ।वायवस्त्रिविधाः पुंसां क्लेशसन्तापकामजाः
व्याधिसंघश्च कथितस्तन्त्राणि विविधानि ।तानि व्याधिप्रणाशाय कृताति सद्भिरेव
तन्त्राण्येतानि सर्व्वाणि व्याधिक्षयकराणि ।रसायनादयो येषु चोपायश्च सुदुर्ल्लभः
शक्तः कथितुं साध्वि याथार्थ्यं वत्सरेण ।तेषाञ्च सर्व्वतन्त्राणां कृतार्थानां विचक्षणैः
”इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १६ अध्यायः
अथ व्याधिलक्षणम् तत्र वाग्भटः ।“रोगस्तु दोषवैषम्यं दोषशाम्यमरोगता ।रोगा दुःखस्य दातारो ज्वरप्रमृतयो हि ते
ते स्वाभाविकाः केचित् केचिदागन्तवःस्मृताः ।मानसाः केचिदाख्याताः कथिताः केऽपिकायिकाः
”तत्र स्वाभाविकाः शरीरस्वभावादेव जाताः ।क्षुत्पिपासासुषुप्साजागरामृत्युप्रभृतयः
अथवास्वस्य भावादुत्पत्तेर्जाताः स्वाभाविकाः सहजाइति यावत् ते जन्मान्धादयः आग-न्तवोऽभिघातादिजनिताः अथवा जन्मोत्तर-भाविनः मानसाः कामक्रोधलोभमोहभया-भिमानदैन्यपैशुन्यविषादेर्षासूयामात्सर्य्यप्रभृ-तयः अथवा उन्मादापस्मारमूर्च्छाभ्रमतमः-सन्न्यासप्रभृतयः कायिकाः पाण्डुरोगप्रभृतयः
“कर्म्मजाः कथिताः केचिद्दोषजाः सन्ति चापरे ।कर्म्मदोषोद्भवाश्चान्ये व्याधयस्त्रिविधाः स्मृताः
”तत्र कर्म्मजा व्याधयः यत् प्राक्तनं दुष्कर्म्म-प्रबलं व्याधिरूपं केवलं भोगनाश्यं प्रायश्चित्त-नाश्यं वा ततो जाताः तु दुष्टवातादिदोषेणजनिताः तथा ।“यथाशास्त्रन्तु निर्णीता यथाव्याधि चिकित्-सिताः ।न शमं यान्ति ये रोगास्ते ज्ञेयाः कर्म्मजा बुधैः
”दोषजाः मिथ्याहारविहारप्रकुपितवातपित्त-कफजाः
*
ननु मिथ्याहारविहारिणामपिप्राक्तनसुकृतेन नैरुज्यं दृश्यत एव ततो दोषजे-ष्वपि प्राक्तनकर्म्मैव कारणं तत् कथं दोषजाइति उच्यते दोषजेष्वपि वस्तुत आदिकारणंदुष्कर्म्म वर्त्तत एव किन्तु तत्र मिथ्याहार-विहारभूषिता दोषा हेतवो दृश्यत इति दोषजाइत्युच्यत इति समाधिः
*
कर्म्मदोषोद्भवाः ।“स्वल्पदोषो गरीयांसस्ते ज्ञेयाः कर्म्मदोषजाः ।”अत्र कारणं दुष्कर्म्मप्रबलं यतो दोषाल्पत्वेऽपिव्याधेर्गरीयस्त्वं तत्कर्म्मक्षयादेव क्षीणं भवति ।दोषास्तु स्वल्पा अपि निदानत्वेनोक्ता दृश्यन्तएवेति दोषाणां कारणन्तु मन्यत इति कर्म्म-दोषोद्भवाः ।“कर्म्मक्षयात् कर्म्मकृता दोषजाः स्वस्वभेषजैः ।कर्म्मदोषोद्भवा यान्ति कर्म्मदोषक्षयात् क्षयम्
”दोषजाः स्वस्वभेषजैरिति दोषजेष्वादिकारणंदुष्कर्म्म तद्भेषजार्थद्रव्यक्षयादिजनितदुःखभोगेनकटुतिक्तकषायाद्यहृद्यभक्षणादिजनितदुःखभो-गेन क्षयं याति शेषादृष्टहेतवो दोषास्तेस्वस्वभेषजैः क्षयं यान्तीत्यर्थः ।“साध्या याप्या असाध्याश्च व्याधयस्त्रिविधाःस्मृताः ।सुखसाध्यः कष्टसाध्यो द्बिविधः साध्य उच्यते
”याप्यलक्षणमाह ।“यापनीयन्तु तं विद्यात् क्रियां धारयते हि तम् ।क्रियायान्तु निवृत्तायां सद्यो यश्च विनश्यति
प्राप्ता क्रिया धारयति सुखिनं प्राप्यमातुरम् ।प्रप्रतिष्यदिवागारं स्तम्भो यत्नेन योजितः
साध्या याप्यत्वमायान्ति याप्याश्चासाध्यातां तथा ।घ्नन्ति प्राणानसाध्यास्तु नराणामक्रियावताम्
”अक्रियावतां चिकित्सारहितानाम्
*
अथोपद्रवलक्षणम् ।“रोगारम्भकदोषस्य प्रकोपादुपजायते ।योऽन्यो विकारः बुधैरुपद्रव इहोदितः
”अथारिष्टस्य लक्षणमाह ।“रोगिणो मरणं यस्मादवश्यम्भावि लक्ष्यते ।तल्लक्षणमरिष्टं स्याद्रिष्टञ्चापि तदुच्यते
”अथ रोगस्य चिकित्सालक्षणमाह ।“या क्रिया व्याधिहरणी सा चिकित्सा निग-द्यते ।दोषधातुमलानां या साम्यकृत् सैव रोगहृत्
”क्रियात्र कर्म्म व्याधिर्ह्नियतेऽनयेति व्याधि-हरणी करणाधिकरणयोश्चेति सूत्रेण करणार्थेल्युट् तथा ।“याभिः क्रियाभिर्जायन्ते शरीरे धातवः समाः ।सा चिकित्सा विकाराणां कर्म्म तद्भिषजांमतम्
या ह्युदीर्णं शमयति नान्यं व्याधिं करोति ।सा क्रिया तु या व्याधिं हरत्यन्यमुदीरयेत्
”क्रियात्र चिकित्सा तथा चामरसिंहः ।“आरम्भो निष्कृतिः शिक्षा पूजनं संप्रधारणम् ।उपायः कर्म्म चेष्टा चिकित्सा नव क्रियाः
”इति
*
अथ चिकित्साविध्युपदेशः ।“जातमात्रश्चिकित्सः स्यान्नोपेक्ष्योऽल्पतया गदः ।वह्निशत्रुविषैस्तुल्यः स्वल्पोऽपि विकरोत्यसौ
रोगमादौ परीक्षेत ततोऽनन्तरमौषधम् ।ततः कर्म्म भिषक् पश्चात् ज्ञानपूर्व्वं समाचरेत्
”अयमर्थः भिषक् आदौ रोगं परीक्षेत विचा-रयेत् ततोऽनन्तरं औषधं विचारयेत् ततःपश्चात् रोगौषधविचारानन्तरं ज्ञानपूर्व्वं साव-धानो तु अवज्ञया कर्म्म चिकित्सामौषध-दानादिरूपं समाचरेदित्यर्थः
*
रोगाज्ञानेचिकित्साकरणे दोषमाह ।“यस्तु रोगमविज्ञाय कर्म्माण्यारभते भिषक् ।अपौषधविधानज्ञस्तस्य सिद्धिर्यदृच्छया
”यदृच्छया स्वेरितया सिद्धिर्भवति नापि भवती-त्यर्थः अन्यच्च ।“औषधं केवलं कर्त्तुं यो जानाति चामयम् ।वैद्यकर्म्म चेत् कुय्याद्वधमर्हति राजतः
*
रोगज्ञाने भेषजाज्ञाने दोषमाह ।“यस्तु केवलरोगज्ञो भेषजेष्वविचक्षणः ।तं वैद्यं प्राप्य रोगी स्याद्यथा नौर्न्नाविकंविना
”नाविकं कर्णधारं विना यथा नौः सङ्कटे पततितथा रोगीत्यर्थः अन्यच्च ।“यस्तु केवलशास्त्रज्ञः क्रियास्वकुशलो भिषक् ।स मुह्यत्यातुरं प्राप्य भीरुः शस्त्रीव चाहवम्
”रोगौषधयोर्ज्ञाने गुणमाह ।“यस्तु रोगविशेषज्ञः सर्व्वभैषज्यकोविदः ।देशकालविभागज्ञस्तस्य सिद्धिर्न संशयः
आदावन्ते रुजां ज्ञाने प्रयतेत चिकित्सकः ।भेषजानां विधानेऽथ ततः कुर्य्याच्चिकित्सितम्
”चिकित्सितमित्यत्र भावे क्तः इति भाव-प्रकाशे पूर्व्वखण्डः
*
अथ येन रोगाणांज्ञानं स्यात्तत्तदाह ।“हेतुस्तदनु संप्राप्तिः पूर्व्वरूपञ्च लक्षणम् ।तथैवोपशयः पञ्च रोगविज्ञानहेतवः
”तत्र हेतोर्लक्षणमाह“यत्तु स्याद्बिना येन तस्य तद्धेतुरुच्यते ।शास्त्रे संव्यवहाराय तत्पर्य्यायान् प्रवक्ष्महे
निदानं कारणं हेतुर्न्निमित्तञ्च निबन्धनम् ।मूलमायतनं तत्तु प्रत्ययोऽपि निगद्यते
”तत्र हेतुर्व्याधीनां ज्ञानाय हेतुर्यथा वर्षा-रूक्षश्रमहिमानशनातिमैथुनशोकचिन्ताभ्रया-दयो वातप्रकोपहेतवो वातजान् व्याधीन् बोध-यन्ति शरत्कट्वम्लोष्णतीक्ष्णक्रोधतृषाक्षुधाभि-घातादयः पित्तप्रकोपहेतवः पित्तजान् व्याधीन्बोधयन्ति वसन्तमधुरस्निग्धशीतादयः कफ-प्रकोपहेतवः कफजान् व्याधीन् बोधयन्ति
*
अथ संप्राप्तेर्लक्षणमाह“यथा दुष्टेन दोषेण यथा चानुविसर्पता ।उत्पत्तिर्यामयस्यासौ संप्राप्तिर्ज्जातिरागतिः
”यथा दुष्टेन दोषेण यथा कारणभेदेन दुष्टेनदोषेण यथा चानुविसर्पता अनेकधा दोषाणांविसर्पणमूर्द्ध्वाधस्तिर्य्यगादिगतिभेदेन तथा चविसर्पता आमयस्य या उत्पत्तिः असौसंप्राप्तिः शास्त्रे व्यवहाराय संप्राप्तेः पर्य्याया-वाह जातिरागतिरिति संप्राप्तेरौपाधिक-भेदानाह ।“संख्याविकल्पप्राधान्यबलकालविशेषतः ।सा भिद्यते यथात्रेव वक्ष्यन्तेऽष्टौ ज्वरा इति
”संख्यादिरूपा ये विशेषास्तेभ्यः सा संप्राप्ति-र्भिद्यते भेदवती क्रियते इत्यर्थः तत्र संख्यांविवृणोति यथा ज्वरोऽष्टधा अतीसारः षड्-विध इत्यादि विकल्पं विवृणोति दोषाणांसमवेतानां विकल्पोऽंशांशकल्पना सम-वेतानां समुदितानां दोषाणां अंशांशकल्पनाहीनमध्याधिकभेदैर्भागकल्पना विकल्पः
*
प्राधान्यं विवृणोति ।“स्वातन्त्र्यपारतन्त्र्याभ्यां व्याधेः प्राधान्यमादि-शेत् ।व्याधेः स्वातन्त्र्येण प्राधान्यं पारतन्त्र्येणाप्राधा-न्यञ्च वदेदित्यर्थः यथा स्वतन्त्रस्य ज्वरस्यप्राधान्यं ज्वराधीनानां श्वासादीनामप्राधा-न्यम्
*
बलं विवृणोति ।“हेत्वादिकार्त्स्न्यावयवैर्ब्बलाबलविशेषणम् ।”अत्रापि व्याधेरित्यनुवर्त्तते हेत्वादेः हेतुपूर्व्व-रूपाणां कार्त्स्न्येन साकल्येन अवयवैः एक-देशेन व्याधेर्ब्बलाबलयोर्व्विशेषणं विशेष-बोधः
*
कालं विवृणोति ।“नक्तं दिनर्त्तुभुक्तांशैर्व्याधिकालो यथाबलम् ।”नक्तमत्राव्ययं रात्रिवाचकम् एतेनैतदुक्तंयस्मिन्नक्तादेरंशे यस्य दोषस्य प्रकोप उक्तोऽस्तिसोऽंशस्तद्दोषजस्य व्याधेः काल इत्यर्थः ।नक्तादेरंशेषु वातादिप्रकोप उक्तो वाग्भटेन ।“ते व्यापिगोऽपि हृन्नाभ्योरधोमध्योर्द्ध्वसंश्रयाः ।वयोऽहोरात्रिभुक्तानामन्तमध्यादिगाः क्रमात्
”इति
ते वातपित्तकफाः ऋतुषु वातादिकोपो यथा, “वर्षासु शिशिरे वायुः पित्तं शरदि उष्मके ।वसन्ते तु कफः कुप्येदेषा प्रकृतिरार्त्तवी
*
संप्राप्तिर्व्याधीनां ज्ञानाय हेतुर्यथा मिथ्या-हारविहारकुपितवाताद्यामाशयगमनरसदूषण-कोष्ठाग्निर्व्वहिर्निरसनरूपं ज्वरोत्पत्तिप्रकारंबोधयति तथा व्याधीनां संख्यादोषांशांश-कल्पनाप्राधान्यबलकालांश्च बोधयति तेषुज्ञानेषु चिकित्साविशेषः स्यात्
*
अथपूर्व्वरूपस्य लक्षणमाह ।“पूर्व्वरूपन्तु तद्येन विद्याद्भाविनमामयम् ।सामान्यञ्च विशिष्टञ्च द्विविधं तदुदाहृतम्
सामान्यं तत्र दोषाणां विशेषैरनधिष्ठितम् ।विशिष्टमीषद्ब्यक्तं स्यात् विशेषैश्च समन्वितम्
”दोषाणां विशेषाः जृम्भातिशयनेत्रदाहाग्नि-मान्द्यादयः तत्र पूर्व्वरूपं व्याधीनां ज्ञानायहेतुर्यथा श्रमादयो भाविनं ज्वरं बोधयन्ति ।अथ एव श्रमादयोऽतिशयितजृम्भायुक्ताभाविनं वातज्वरं नेत्रदाहयुक्ता भाविनं पित्त-ज्वरं वह्निमान्द्ययुक्ता भाविनं श्लेष्मज्वरं बोध-यन्ति
*
अथ लक्षणस्य लक्षणमाह ।“पूर्व्वरूपं विशिष्टं यद्व्यक्तं तल्लक्षणं स्मृतम् ।संस्थानं लिङ्गचिह्ने व्यञ्जनं रूपमाकृतिः
”विशिष्टं पूर्व्वरूपं ईषद्व्यक्तं रूपं तदेव सम्य-ग्व्यक्तं लक्षणं स्मृतम् तत्र शास्त्रे व्यवहारायपर्य्यायानाह संस्थानमित्यादि लक्षणं व्याधे-र्ज्ञानाय हेतुर्यथा स्वेदावरोधः सन्तापःसर्व्वाङ्गग्रहणञ्च युगपदेतल्लक्षणं ज्वर बोध-यति
*
अथोपशयस्यं लक्षणमाह ।“औषधान्नविहाराणामुपयोगं सुखावहम् ।नृणामुपशयं विद्यात् हि सात्म्यमिति स्मृतः
”तत्र वातस्योपशयमाह ।“मधुरलवणसाम्लस्निग्धनस्योष्णनिद्रा-गुरुरुचिकरवस्तिस्वेदसंमद्दनानि ।दहनजलदशेषाभ्यङ्गसन्तर्पणानिप्रकुपितपवमानं शान्तमेतानि कुर्य्युः
”अथ पित्तस्योपशयमाह ।“तिक्तस्वादुकषायशीतपवनच्छायानिशावीजन-ज्योत्स्नाभूगृहयन्त्रवारिजलदस्त्रीगात्रसंस्प-र्शनम् ।सर्पिः क्षीरविंरेकसेकरुधिरस्रावप्रदेहादिकंपानाहारविहारभेषजमिदं पित्तं प्रशान्तिंनयेत्
”अथ कफस्योपशयमाह ।“रूक्षक्षारकषायतिक्तकटुकव्यायामनिष्ठीवनंधूमात्युष्णशिरोविरेकवमनं स्वेदोपवासादिकम् ।तृड्घाताध्वनियुद्धजागरजलक्रीडाङ्गनासेवनंपानाहारविहारभेषजमिदं श्लेष्माणमुग्रं हरेत्
”जलक्रीडा कथं कफं हरति तदाह जल-क्रीडाजनितशैत्येनावरुद्धदेहोष्मा पङ्कलिप्त-पाकाग्निरिवोग्रो भूत्वा कफं शोषयति इतिसमाधिः
*
उपशयो व्याधेर्ज्ञानाय हेतुर्यदुक्तंचरकेण गूढलिङ्गं सङ्कीर्णलक्षणञ्च व्याधिमुप-शयानुपशयाभ्यां परीक्षेतेति तथा सुश्रुते ।“अभ्यङ्गस्वेदनस्नेहैर्विकारो वातिको यः ।शाम्येत्तत्र तु विज्ञेयं रक्तमात्रास्ति दूषितम्
सर्व्वेषामेव रोगानां निदानं कुपिता मलाः ।तत्प्रकोपस्य तु प्रोक्तं विविधाहितसेवनम्
”सर्व्वेषां रोगानां निदानं सन्निकृष्टं कारणम् ।कुपिताः स्वहेतुदुष्टाः मला वातपित्तकफाएवेत्यन्वयः तथा वाग्भटः दोषा एव हिसर्व्वेषां रोगाणामेककारणमिति नत्वागन्तुज-व्याधिषु व्यभिचारः स्यात् तन्न तत्राप्युत्पत्त्य-नन्तरं दोषप्रकोपस्यावश्यं भावित्वात् उत्पन्न-द्रव्येषु गुणयोगस्येव इति भावप्रकाशः
*
पापजरोगा यथा शातातपीयकर्म्मविपाके ।“कुष्ठञ्च राजयक्ष्मा प्रमेहो ग्रहणी तथा ।मूत्रकृच्छ्राश्मरीकाशा अतिसारभगन्दरौ
दुष्टव्रणं गण्डमाला पक्षाघातोऽक्षिनाशनम् ।इत्येवमादयो रोगा महापापोद्भवाः स्मृताः ।जलोदरयकृत्प्लीहशूलरोगव्रणानि ।श्वासाजीर्णज्वरच्छर्द्दिभ्रममोहगलग्रहाः ।रक्तार्व्वुदविसर्पाद्या उपपापोद्भवा गदाः
दण्डावतानकश्चित्रवपुःकम्पविचर्च्चिकाः ।वल्मीकपुण्डरीकाद्या रोगाः पापसमुद्भवाः
”तथा ।“अर्शआद्या नृणां रोगा अतिपापाद्भवन्ति हि ।अन्ये बहुधा रोगा जायन्ते रोगसङ्कराः ।उच्यन्ते हि निदानानि प्रायश्चित्तानि चक्रमात्
”सर्व्वरोगनाशकदानं यथा हेमाद्रिधृतदान-खण्डे भगवद्वाक्यम् ।“सुवर्णदानं सर्व्वेषां रोगाणां नाशकारणम् ।तस्मात् सर्व्वप्रयत्नेन कर्त्तव्यं कमलोद्भव
”इति मलमासतत्त्वम्
*
अथारोग्यस्नानदिनम् तत्र तिथयो रिक्ताःप्रशस्ताः दशमीप्रतिपद्द्वितीयात्रयोदशी-पञ्चमीभिन्ना मध्यमाः तत्र नक्षत्राणि स्वाती-श्रवणाधनिष्ठाशतभिषाज्येष्ठाहस्तापुष्यपूर्व्वा-षाढापूर्व्वफल्गुनीपूर्व्वभाद्रपन्मघाभरणीमृग-शिरांसि तत्र वाराः क्रूराः तत्र योगो व्यती-पातः अशोभनश्चन्द्रः लग्नापेक्षया केन्द्रेषुपापग्रहः इति ज्योतिस्तत्त्वम्
अपि ।“चन्द्राशुद्धौ व्यतीपाते भौमार्कशनिवासरे ।व्रणमुक्तो व्याधिमुक्तः कृशः स्नानं समाचरेत्
पूर्व्वात्रयमघाश्लेषा भरणी कृत्तिका तथा ।आर्द्रायाञ्च तिथौ रिक्ते चारोग्यस्नानमाचरेत्
”इति ज्योतिःसारसंग्रहः