| YouTube Channel

रैवतः (raivataH)

 
Apte Hindi
Hindi
रैवतः
पुं*
- रेवत्या अदूरो देशः-खेती + अण्=रैवत + कन्
द्वारका के निकट विद्यमान पहाड़
रैवतः
पुं*
- रेवती+अण्
बादल
रैवतः
पुं*
- रेवती+अण्
पाँचवें मनु का नाम
Wordnet
Sanskrit
Synonyms:
रैवतः
noun
चतुर्दशसु मनुषु पञ्चमः मनुः यस्य उत्पत्तिः रेवत्याः अस्ति इति मन्यते।
"कथानुसारेण वैवस्वतः रैवतस्य पुत्रः आसीत्।"
Synonyms:
रैवतः
noun
पौराणिकः पर्वतविशेषः।
"रैवतस्य वर्णनं महाभारते अस्ति।"
Synonyms:
रैवतः
noun
दैत्यविशेषः।
"रैवतः बालग्रहः अस्ति।"
Synonyms:
मेघः, अभ्रमम्, वारिवाहः, स्तनयित्नुः, बलाबकः, धाराधरः, जलधरः, तडित्वान्, वारिदः, अम्बुभृत्, घनः, जीमूतः, मुदिरः, जलमुक्, धूमयोनिः, अभ्रम्, पयोधरः, अम्भोधरः, व्योमधूमः, घनाघनः, वायुदारुः, नभश्चरः, कन्धरः, कन्धः, नीरदः, गगनध्वजः, वारिसुक्, वार्मुक्, वनसुक्, अब्दः, पर्जन्यः, नभोगजः, मदयित्नुः, कदः, कन्दः, गवेडुः, गदामरः, खतमालः, वातरथः, श्नेतनीलः, नागः, जलकरङ्कः, पेचकः, भेकः, दर्दुरः, अम्बुदः, तोयदः, अम्बुवाबः, पाथोदः, गदाम्बरः, गाडवः, वारिमसिः, अद्रिः, ग्रावा, गोत्रः, बलः, अश्नः, पुरुभोजाः, वलिशानः, अश्मा, पर्वतः, गिरिः, व्रजः, चरुः, वराहः, शम्बरः, रौहिणः, रैवतः, फलिगः, उपरः, उपलः, चमसः, अर्हिः, दृतिः, ओदनः, वृषन्धिः, वृत्रः, असुरः, कोशः
noun
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
"कालिदासेन मेघः दूतः अस्ति इति कल्पना कृता"
शब्दकल्पद्रुमः
Sanskrit
रैवतः,
पुं,
स्वर्णालुवृक्षः (यथा, गारुडे २०८ अः ।“चतुरङ्गुलसम्पाको व्याधिघाताभिसंज्ञकः ।विद्यादारग्वधं राजवृक्षं रैवतर्संज्ञकम्
”)शैलभेदः (अत्रैवार्ज्जुनः सुभद्रां हृतवान् ।यथा, महाभारते २२१ -- ।“सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्यैव हि रैवतम् ।दैवतानि सर्व्वाणि ब्राह्मणान् स्वस्ति वाच्य
प्रदक्षिणं गिरेः कृत्वा प्रययौ द्बारकां प्रति
तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ।सुभद्रां चारुसर्व्वाङ्गीं कामबाणप्रपीडितः
ततः पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् ।रथेन काञ्चनाङ्गेन प्रययौ स्वपुरं प्रति
”)शङ्करः इति मेदिनी ते ४५
दैत्यविशेषः ।इति धरणिः
(स तु बालग्रहाणामन्यतमः ।यथा, महाभारते २२९ २९ ।“अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः ।सोऽपि बालान् महाघोरो वाघते वै महा-ग्रहः
”रेवत्यां भवः रेवती + अण् ।) वर्त्तमान-कल्पीयः पञ्चमो मनुः तु रेवतीगर्भे दुर्दम-राजपुत्त्रः अस्मिन् मन्वन्तरे विकुण्ठोऽव-तारः विभुरिन्द्रः भूतरयादयो देवाः ।हिरण्यरोमादयः सप्तर्षयः बलिबिन्धादय-स्तन्मनुसुताः इति श्रीभागवतम्
तद्बिवरणंयथा, --“पञ्चमस्य मनोस्तद्वत् रैवतस्यान्तर शृणु ।देववाहुः सुबाहुश्च पर्य्यण्यः सोमपो मुनिः
हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः ।देवाश्चाभूतरजसस्तथा प्रकृतयः स्मृताः
अरुणस्तत्त्वदर्शी वित्तवान् हव्यपः कपिः ।मुक्तो निरुत्सुकः सत्वो निर्म्मोहोऽथ प्रकाशकः ।धर्म्मवीर्य्यबलोपेता दशैते रैवतात्मजाः
भृगुः सुधामा विरजः सहिष्णुर्नाद एव ।विवस्वानतिनामा षष्टिसप्तर्षयोऽपरे
”इति मात्स्ये अध्यायः
*
मार्कण्डेयपुराणोक्तरैवतमनुविवरणन्तु रेवती-शब्दे द्रष्टव्यम्
(रुद्राणामन्यतमः यथा, मात्स्ये २९ ।“अजैकपादहिब्रघ्नो विरूपाक्षोऽथ रैवतः
”मेघः इति निघण्टुः १०
“रेवत्यो गावः ‘पशवो वै रेवतीः ।’ इति श्रुतेः‘तस्येदम् ।’ १२० इत्यण् मेघो हिसर्व्वत्र वर्षति यवसं पानीयं जनयित्वातदीयो भवति पर्व्वतस्तद्वत्तया यद्वा, रयि-रस्यास्तीति मतुपि ‘रयेर्म्मतौ बहुलम् ।’ ।३४ इति सम्प्रसारणम् ‘संज्ञायाम् ।’ ।२ ११ इति वत्वम् सर्व्वस्य धनस्येशितृ-त्वात् रेवान् इन्द्रः मघवेति हि तस्य नामतदीयो रैवतः पूर्व्ववत् तदीयत्वं द्रष्टव्यम्
”इति तत्र देवराजयज्वा
*
सोमलता-विशेषः यथा, सुश्रुते २९ ।“अग्निष्टोमो रैवतश्च यथोक्त इति संज्ञितः
”ऋषिविशेषः यथा, महाभारते ११ ।“नारदः सुमहातेजा ऋषिभिः सहितस्तदा ।पारिजातेन राजेन्द्र रैवतेन धीमता
”घनवति, त्रि यथा, ऋग्वेदे ६० ।“वरा इवेद्रैवतासो हिरण्यै-रभिस्वधाभिस्तन्वः पिपिश्रे ।”“वैरतासो धनवन्तः ।” इति तद्भाष्ये सायणः
)