| YouTube Channel

रेषृ (reSR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रेष्
मूलधातुः:
रेषृ
धात्वर्थः:
अव्यक्ते शब्दे (वृकशब्दः)
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
रेषते
धातुप्रदीपः
Sanskrit
रेषृँ रेषृ
मानकरूपान्तरम् - हेषृँ
हेषृ अव्यक्तशब्दे
- रेषते ।अरिरेषत् हेषते जिहेषे अजिहेषत् उपजिहेषिषते हेषा ह्रेषा निःस्वन इत्यमरः (72) ।। 722, 623 ।।
धातुवृत्तिः
Sanskrit
रेषृँ रेषृ
मानकरूपान्तरम् - हेषृँ
हेषृ (अर्थः) अव्यक्ते_शब्दे
(रेषते ) अयं स्वभावाद्वृकविषयः(हेषते)अयमश्वविषयः हेष्ट इति सेरेफश्चात्र द्रष्टव्यः यदाह केशवस्वमी कौक्षे कर्दति पर्दते गुदरवे रेषेति वार्केहसे बुक्कति श्वरवे भषेति हयजे हेषेति हेषेति चेति तथा हेषा ह्रषा निःस्वने इत्यमरः 612
कृदन्तरूपमाला
Sanskrit
1 {@“रेषृ अव्यक्ते शब्दे”@} 2 धातुममुं क्षीरस्वामी चन्द्रसम्मतत्वेन पठति।
अयं स्वभावाद् वृकध्वनौ वर्तते।
रेषकः-षिका, रेषकः-षिका, रिरेषिषकः-षिका, रेरेषकः-षिका
रेषिता-त्री, रेषयिता-त्री, रिरेषिषिता-त्री, रेरेषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकगेपतिवत् 3 बोध्यानि।
4 रेषणः, 5 रेषा, 6 रेषः, क्विपि-रेट्-रेड्-रेषौ-रेषः इत्यस्य विशेषः।
प्रासङ्गिक्यः
01
=>
(१४४२)
02
=>
(१-भ्वादिः-६२०। अक। सेट्। आत्म।)
03
=>
(४२९)
04
=>
[[३। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति ताच्छीलिको युच्प्रत्ययः।]]
05
=>
[[४। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारप्रत्ययः। रेषा = वृकरवः। तदुक्तं केशव- स्वामिना-- “कौक्षे कर्दति, पर्दते गुदरवे, रेषेति वार्के भवेद्, बुक्केतिं श्वरवे भषेति, हयजे ह्रेषेति हेषेति च।” इति मा। धा। वृत्तिः।]]
06
=>
[[आ। ‘सुप्रेषितान् पथि सरेषवृके सहेषं ह्रेषास्तकासरमदान् अतिभासुराङ्गान्।’ धा। का। १-७९।]]