| YouTube Channel

रेवृ (revR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रेव्
मूलधातुः:
रेवृ
धात्वर्थः:
प्लवगतौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
रेवते
धातुप्रदीपः
Sanskrit
रेवृँ रेवृ
मानकरूपान्तरम् - प्लेवृँ
प्लेवृ गतौ
- रेवते परिरेवत् रेवा प्लेवते पूर्वकौ रेबृप्लेबृ पवर्गे पठितौ स्पर्शान्तौ, इमौ तु यरलवान्तवर्गे पठितौ ईषत्स्पृष्टौ वेदितव्यौ एवं पेवतिमेवती वेदितव्यौ प्लव इत्येके प्लवते प्लेवे पव इत्यन्ये पवते पेवे ।। 507, 508 ।।
क्षीरतरङ्गिणी
Sanskrit
रेवृँ रेवृ प्लुतिगतौ
-प्लुतिभिर्गतौ रेवते रेवा नर्मदा रेवती तु रीङो (428) रूपम् 499
धातुवृत्तिः
Sanskrit
रेवृँ रेवृ (अर्थः) प्लवगतौ
(अर्थविवरणम्) प्लवगतिः प्लुतिगतिः
(रेवतइत्यादि रेवा) अचि टाप् (रेवणः) अनुत्तादित्तवाचलनार्थत्वाद्वा युच् अत्र मैत्रेयः प्लव इति धात्वतरमाह तच्चिन्त्यं यदि हि स्यात् आप्लवशब्दस्यास्मात् घञि सिद्धौ तदर्थं "विभाषाङि रुप्लवोः'' इति प्लुवः पक्षे घञ्चिधानमनर्थकं स्यात् तथा प्लुङेर्णौ वृध्यावादेशयोश्चङि णौ कृतस्य स्थानिवत्त्वात् प्लुश्याब्दस्य द्विरुक्तावपुप्लुवदिति नित्ये प्राप्ते पक्षे अपिप्लवदिति सिद्ध्यर्थं "स्त्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा'' इत्युकारस्येत्त्वविधानमनर्थ्ज्ञकं स्यादिति सति ह्मस्मिन्न्नेवैवापिप्लवदिति भविष्यति अत एव किलापरितुष्यन्मैत्रेयोपि प्लव इत्येकइत्याह आयादय उदात्ता अनुदात्तेतः 502
कृदन्तरूपमाला
Sanskrit
1 {@“रेवृ प्लवगतौ”@} 2 3 “अत्र मैत्रेयः ‘प्लव’ इति धात्वन्तरमाह, तच्चिन्त्यम्, यदि हि स्यात् आप्लाव- शब्दस्यास्मात् घञि सिद्धौ तदर्थं ‘विभाषाऽऽङि रुप्लुवोः’ 4 इति प्लुवः पक्षे घञ्विधानमनर्थंकं स्यात्।
तथा प्लुङो णौ वृद्ध्यावादेशयोश्चङि णौ कृतस्य स्थानिवत्त्वात् प्लुशब्दस्य द्विरुक्तावपुप्लुवदिति नित्ये प्राप्ते पक्षे अपिप्ल- वदिति सिद्ध्यर्थं ‘स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा’ 5 इति उकारस्येत्त्वविधानमनर्थकं स्यादिति।
सति ह्यस्मिन्ननेनैवापिप्लवत् इति भविष्यति।
अत एव किलापरितुष्यन् मैत्रेयोऽपि “प्लव इत्येके’ इत्याह” इति माधवधातुवृत्तिवाक्यमिहानुसन्धेयम्।]] ‘प्लवगतिः = प्लुतिगतिः =’ इति मा।
धा।
वृत्तौ।
‘-- प्लुतिगतौ’ इति क्षीरस्वामी।
रेवकः-विका, रेवकः-विका, रिरेविषकः-षिका, रेरेवकः-विका
6 रेविता-त्री, रेवयिता-त्री, रिरेविषिता-त्री, रेरेविता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककेपतिवत् 7 ज्ञेयानि।
8 रेवः-रेवा, 9 रेवणः इमानि अधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४४१)
02
=>
(१-भ्वादिः-५०७। सक। सेट्। आत्म।)
03
=>
[[[अ]
04
=>
(३-३-५०)
05
=>
(७-४-८१)
06
=>
[पृष्ठम्११४१+ २३]
07
=>
(२६१)
08
=>
[[१। अचि प्रत्यये रेवः इति रूपम्। स्त्रियाम् अजादिपाठात् ‘अजाद्यतष्टाप्’ (४-१-४) इति टापि रेवा इति। रेवा = नर्मदा।]]
09
=>
[[२। ‘चलनशब्दार्थादकर्मकाद्युच्’ (३-२-१४८) इति, ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति वा युचि रूपमेवम्।]]