| YouTube Channel

रेरिच्यमानः (rericyamAnaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रिचिर् विरेचने”@} 2 ‘विरेचनम् = निःसारणम्।’ इति क्षीरस्वामी।
‘रिचिर् विरेचने रिङ्क्ते रिणक्ति श्ने, वियोजने।
सम्पर्चने यौ वा णौ रेचयत्यपि रेचति।।’ 3 इति देवः।
रेचकः-चिका, रेचकः-चिका, 4 रिरिक्षकः-क्षिका, रेरिचकः-चिका
रेक्ता-रेक्त्री, रेचयिता-त्री, रिरिक्षिता-त्री, रेरिचिता-त्री
5 6 रिञ्चन् 7 -ती, रेचयन्-न्ती, रिरिक्षन्-न्ती
-- रेक्ष्यन्-न्ती-ती, रेचयिष्यन्-न्ती-ती, रिरिक्षिष्यन्-न्ती-ती
-- रिञ्चानः, रेचयमानः, रिरिक्षमाणः, रेरिच्यमानः
रेक्ष्यमाणः, रेचयिष्यमाणः, रिरिक्षिष्यमाणः, रेरिचिष्यमाणः
8 रेक्यम्, रेकः-अतिरेकः-व्यतिरेकः-उद्रेकः, 9 विरेचनम्, 10 रिक्तः, 11 विरिञ्चः-विरिञ्चिः-विरिचिनः, 12 रिक्थम्, 13 रेक्णः, इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना रौधादिकभुनक्तिवत् 14 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१४०४)
02
=>
(७-रुधादिः-१४४१। अक। अनि। उभ।)
03
=>
(श्लो। ५२)
04
=>
[[१। अनिटकारिकासु (काशिका ७-२-१०) पाठादस्यानिट्त्वम्। ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘चोः कुः’ (८-२-३०) इति कुत्वे षत्वे रूपम्।]]
05
=>
[पृष्ठम्१११८+ २८]
06
=>
[[१। शतरि, विकरणप्रत्यये श्नमि, ‘श्नसोरल्लोपः’ (६-४-१११) इत्यकारलोपे, नकारस्य अनुस्वारे परसवर्णे रूपमेवम्।]]
07
=>
[[आ। ‘… प्रच्छिन्नसंशयमतिर्मुदमाशु रिञ्चन्।’ धा। का। ३-१।]]
08
=>
[[२। निष्ठायामनिट्त्वात्, ण्यति घञि ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्।]]
09
=>
[[३। विरेचनम् = रक्तस्रावरूपो व्याधिविशेषः। ‘रोगाख्यायां ण्वुल् बहुलम्’ (३-३-१०८) इत्यत्र बहुलग्रहणात् व्याधिवाचकत्वेऽपि ल्युडेवात्र।]]
10
=>
[[४। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां कर्तरि क्तप्रत्ययः। रिक्तः = निर्धनः।]]
11
=>
[[५। “विरिञ्चः--विरिञ्चिः--विरिचिनः, एते पृषोदरादयः (६-३-१०९)।” इति मा। धा। वृत्तिः।]]
12
=>
[[६। ‘पातॄतुदिवचिरिचि--’ (द। उ। ६। ३२) इति थक्प्रत्ययः। कित्त्वान्न गुणः। रिच्यते तदिति रिक्थम् = गृहमूलधनम्। गोत्रजद्रव्यमिति केचित्।]]
13
=>
[[७। ‘रिचेर्धने घिच्च’ (द। उ। ९। ५९) इति असुन्प्रत्ययः। घित्त्वात् कुत्वम्। रेक्णः = धनम्। ‘रेकः--’ इति दशपाद्युणादिवृत्तौ पूर्वसूत्रान्नुममनुवर्त्यो- दाहृतं दृश्यते। तत्तु तत्त्वबोधिन्यादिषु खण्डितम्।]]
14
=>
(११६२)