| YouTube Channel

रेभृ (rebhR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रेभ्
मूलधातुः:
रेभृ
धात्वर्थः:
शब्दे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
रेभते
अनुबन्धादिविशेषः:
क्षुब्धस्वान्तेति निपातः
धातुप्रदीपः
Sanskrit
रेभृँ रेभृ शब्दे
- रेभते अरिरेभत् विरिब्धः विरेभितः ।। 386 ।।
क्षीरतरङ्गिणी
Sanskrit
रेभृँ रेभृ शब्दे
- रेभते क्षुब्धस्वान्तध्वान्त (7218) इति विरिब्धः स्वरे साधुः विरेभितोऽन्यः अभि रभि शब्द इति दुर्गः अम्भते, अम्भः रम्भते, रम्भा करम्भो दधिसक्तवः, 377
धातुवृत्तिः
Sanskrit
रेभृँ रेभृ (अर्थः) शब्दे
( रेभते अरेभतेत्यादि विरिब्धः ) "क्षुब्धस्वान्तः'' इत्यादिना स्वरे निष्ठायामिडभावे उपधाह्रस्वत्वं निपात्यते अन्यत्र रेभितः अभिरभी क्वचित्पठ्येते अम्भते रम्भतइत्यादि ( अम्भः) असुन् अम्भसोपत्यं आन्भिः "अम्भसः सलोपश्चे'ति बाह्वादिपाठादिञि सलोपः 382
कृदन्तरूपमाला
Sanskrit
1 {@“रेभृ शब्दे”@} 2 रेभकः-भिका, रेभकः-भिका, रिरेभिषकः-षिका, रेरेभकः-भिका
रेभिता-त्री, रेभयिता-त्री, रिरेभिषिता-त्री, रेरेभिता-त्री
3 इत्यादीनि सर्वाणि रूपाणि भौवादिककेपतिवत् 4 ज्ञेयानि।
5 विरिब्धः = स्वरः, रेभितः, 6 रेभणः, 7 रेभः इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४४०)
02
=>
(१-भ्वादिः-३८५। अक। सेट्। आत्म।)
03
=>
[पृष्ठम्११४०+ २७]
04
=>
(२६१)
05
=>
[[१। ‘क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमस्सक्ताविस्पष्टस्व- रानायासभृशेषु’ (७-२-१८) इति स्वरेऽभिधेये निष्ठायामिडभावः, उपधाया ह्रस्वत्वं निपात्यते। अन्यत्र विरेभितः। ‘स्वरे वाच्ये विरिब्धं शब्दार्थाद् रेभतेर्भवेत्।’ इति प्रक्रियासर्वस्वम्। अत्रेदं बोध्यम्। काशिकायाम् (७-२-१८) “… अन्ये तु ‘विरिभितम् अन्यत्’ इति पठन्ति। (ये?) रभिं (रिभिं?) सौत्रं धातुं पठन्ति, ते विरिभितमिति प्रत्युदाहरन्ति।” इति विरिब्धपदव्याख्यानावसरे प्रतिपादितम्। तेन रिभधातुः सौत्रः कश्चिदस्तीति प्रतीयते। सूत्रेषु तु कुत्रापि नोपात्तोऽयम्। किञ्च, ‘ये रिभिं…’ इत्यादिकेन वाक्येनेह भाव्यमिति, तच्च वाक्यं व्याख्यान्तर्गतं प्रमादेन मूल एव निक्षिप्तं स्यादिति भाति।]]
06
=>
[[२। ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति ताच्छीलिको युच्प्रत्ययः।]]
07
=>
[[आ। ‘प्रचीभ्यरेभैः पशवोऽम्भसांनिधिप्ररम्भणस्तम्भिभिरागता व्रजम्।’ धा। का। १-५०।]]