| YouTube Channel

रेखाभूमिः (rekhAbhUmiH)

 
शब्दकल्पद्रुमः
Sanskrit
रेखाभूमिः,
स्त्री,
(रेखास्थिता भूमिः ।) लङ्का-सुमेरुपर्व्वतयोर्म्मध्यसूत्रगतदेशः यथा, --“यल्लङ्कोज्जयिनीपुरोपरिकुरुक्षेत्रादिदेशान्स्पृशन्सूत्रं मेरुगतं बुधैर्न्निगदिता सा मध्यरेखाभुवः ।आदौ प्रागुदयोऽपरत्र विषये पश्चाद्धि रेखो-दयात्स्यात्तस्मात् क्रियते तदन्तरभुवं खेटेष्वृणं स्वंफलम्
”इति सिद्धान्तशिरोमणिः
*
अन्यच्च रेखोक्ता सूर्य्यसिद्धान्ते यथा रेखा-मधिकृत्य ।“राक्षसालयदेवौकः शैलयोर्म्मध्यसूत्रगाः ।रौहितकमवन्ती तथा सन्निहितं सरः
”अस्यार्थः लङ्कासुमेरुपर्व्वतयोर्म्मध्यसूत्रगादेशा रेखासंज्ञिताः तान् देशानाह राहि-तकदेशोऽवन्तीदेशः सन्निहितं सरः कुरुक्षेत्र-ञ्चेत्यथः रेखायाः पूर्व्वदेशे परदेशे यथा-संख्यं सूर्य्योदयकालात् परकालं पूर्व्वकालञ्चवारप्रवृत्तिः स्यादित्यर्थः एतेनैतदुक्तं भवतिरेखासंज्ञकदेशस्थलोका यदा सूर्य्यं पश्यन्तितदैव सर्व्वदेशे वारप्रवृत्तिरित्यर्थः तत्र रेखापूर्व्वस्थाः सन्निहितत्वादादौ सूर्य्यं पश्यन्ति तद-नन्तरञ्च रेखास्थाः अतो रेखापूर्व्वे सूर्य्यो-दयात् परं वारः तथा रेखास्थैः सूर्य्ये दृष्टेसति पश्चात् रेखापरस्थाः पश्यन्ति अतो रेखा-परदेशे सूर्य्योदयात् पूर्व्वं वार इत्यथः तत्रकालपरिमाणमाह रेखातो यावन्ति देशा-न्तरयोजनानि तत्सम्मिताभिर्व्विघटीभिः पलैःपादहीनाभिः चतुर्थभागहीनाभिर्व्वारप्रवृत्तिःस्यादित्यर्थः देशान्तरसाधनप्रकारस्तु सूर्य्य-सिद्धान्ते उक्तः अत्र तु संक्षेपेण किञ्चित्कथ्यते गौडे पञ्चदशाधिकशतयोजनानि ११५ ।दक्षिणराढे गङ्गातीरे दशाधिकशतम् ११० ।भैरवीतीरे विंशत्यधिकशतम् १२० वङ्गे सुवर्ण-ग्रामादौ चत्वारिंशदधिकशतम् १४० वारा-णस्यामष्टोत्तरशतम् १०८ देशान्तरम् एव-मन्यत्राप्यूह्यम् तन्मतन्तु लोकसंगृहीतमितिकिन्तु सूर्य्यसिद्धान्ते अर्द्धरात्रावेव वारप्रवृत्ति-रुक्ता यथा, --“वारप्रवृत्तिः प्राग्देशे क्षपार्द्धेऽत्यधिके भवेत् ।तद्देशान्तरनाडीभिः पश्चादूने विनिर्द्दिशेत्
”इति दीपिकाटीकायामर्थकौमुद्यां गोविन्दा-नन्दः