| YouTube Channel

रेखागणितः (rekhAgaNitaH)

 
शब्दकल्पद्रुमः
Sanskrit
रेखागणितः,
पुं,
(रेखाया गणितं प्रमाणस्वरू-पादि यत्र ।) श्रीजयसिंहमहाराजपण्डितद्विज-सम्राड्जगन्नाथकृतगणितग्रन्थविशेषः तस्यसंक्षिप्तविवरणम् यथा, --“येनेष्टं वाजपेयाद्यैर्म्महादानानि षोडश ।दत्तानि द्बिजवर्य्येभ्यो गोग्रामगजवाजिनः
तस्य श्रीजयसिंहस्य तुष्ट्यै रचयति स्फुटम् ।द्विजः सम्राड् जगन्नाथो रेखागणितमुत्त-मम्
अपूर्व्वं विहितं शास्त्रं यत्र कोणाववोधनात् ।क्षेत्रेषु जायते सम्यक् व्युत्पत्तिर्गणिते तथा
शिल्पशास्त्रमिदं प्रोक्तं ब्रह्मणा विश्वकर्म्मणे ।पारम्पर्य्यवशादेतदागतं धरणीतले
तदुच्छिन्नं महाराजजयसिंहाज्ञया पुनः ।प्रकाशितं मया सम्यक् गणकानन्दहेतवे
*
अथ रेखागणिता अत्र ग्रन्थे पञ्चदशा-ध्यायाः सन्ति अष्टसप्तोत्तरचतुःशतम् शक-लानि सन्ति तत्र प्रथमाध्याये अष्टचत्वारिंश-च्छकलानि तत्रादौ परिभाषा यः पदार्थःदर्शनयोग्यः विभागानर्हः बिन्दुर्वाच्यः यःपदार्थः दीर्घः विस्ताररहितः विभागार्हः सरेखाशब्दवाच्यः विस्तारदैघ्ययोर्यद्भिद्यते तद्ध-रातलं तदेव क्षेत्रम् तद्द्विविधं एकं जलवत् समंद्बितीयं विषमम् अथ रेखापि द्विविधा एकावक्रा अन्या सरला अथ सरलरेखालक्षणम् ।यस्यां न्यस्ता बिन्दवः अवलोकिताः सन्त एक-बिन्दुनाच्छाद्यन्ते सा सरला अन्यथा कुटला ।धरातलमपि समं विषमञ्च ज्ञेयम् समं यआवृणोति यत् रेखाद्बयं समं समानान्तरं नभवति तस्य यस्मिन् प्रदेशे बह्वन्तरं भवतितद्दिशि वर्द्धितयो रेखयोरन्तरमुत्तरोत्तरं अधिक-मेव भवति यत्राल्पमन्तरं भवति तद्दिशिवर्द्धितयो रेखयोरन्तरमुत्तरोत्तरमल्पमेव भवतियावद्रेखासंयोगं तदनन्तरमन्तरं वर्द्धिष्णु भवति ।यत्र कोणशब्दः तत्र सरलरेखाकृत एव कोणोज्ञेयः यत्र रेखाशब्दः तत्र सरलैव रेखाज्ञेया यत्र भूमितलशब्दः तत्र जलसमीकृत-मेव भूतलं ज्ञेयम् इति रेखागणितस्य परि-भाषा