| YouTube Channel

रूप्यं (rUpyaM)

 
शब्दकल्पद्रुमः
Sanskrit
रूप्यं,
क्ली,
(आहतं रूपं अस्यास्तीति रूप् +“रूपादाहतप्रशंसयोर्यप् ।” १२० इतियप् ।) आहतस्वर्णरजतम् इत्यमरः ।९१
हेम रूप्यञ्च आहतं अश्ववराहपुरुषादि-रूपमुत्थापयितुं निर्घातिकया ताडितं रूप्य-मुच्यते रूपाय आहतं रूप्यं ढघे कादितिष्ण्यः इति भरतः
*
धातुविशेषः रूपाइति भाषा
(यथा, महाभारते ।३९ ७९ ।“सुवर्णस्य मलं रूप्यं रूप्यस्यापि मलं त्रपु ।ज्ञेयं त्रपु मलं सीसं सीसस्यापि मलं मलम्
”)तत्पर्य्यायः शुभ्रम् वसुश्रेष्ठम् रुधिरम् ४चन्द्रलोहकम् श्वेतकम् महाशुभ्रम् ७रजतम् तप्तरूपकम् चन्द्रभूति १० सितम् ११तारम् १२ कलधूतम् १३ इन्द्रलोहकम् १४रौप्यम् १५ धौतम् १६ सौधम् १७ चन्द्र-हासम् १८ इति राजनिर्घण्टः
खर्ज्जूरम् १९दुर्व्वर्णम् २० श्वेतम् २१ रङ्गबीजम् २२ राज-रङ्गम् २३ लोहराजकम् २४ इति शब्दरत्ना-वली
कलधौतम् २५ इति जटाधरः
अस्यगुणाः स्निग्धत्वम् कषायत्वम् अम्लत्वम् ।विपाके मधुरत्वम् सरत्वम् वातपित्तहरत्वम् ।रुच्यत्वम् वलीपलितनाशित्वञ्च इति राज-निर्घण्टः
*
अथ रूप्यस्योत्पत्तिनामलक्षण-गुणाः ।“त्रिपुरस्य वधार्थाय निर्निमेषैर्व्विलोकनैः ।निरीक्षयामास शिवः क्रोधेन परिपूरितः
ततस्तूल्का समपतत्तस्यैकस्माद्विलोकनात् ।अतो रुद्रः समभवद्बैश्वानर इव ज्वलन्
द्वितीयादपतन्नेत्रादश्रुबिन्दुस्तु वामकात् ।तस्माद्रजतमुत्पन्नमुक्तकर्म्मसु योजयेत्
कृत्रिमञ्च भवेत्तद्धि रङ्गादिरसयोगतः ।रूप्यन्तु रजतं तारं चन्द्रकान्ति सितं शुभम्
गुरु स्निग्धं मृदु श्वेतं दाहच्छेदघनक्षयम् ।स्वर्णाद्यं चन्द्रवत् स्वच्छं रूप्यं नवगुणं शुभम्
कठिनं कृत्रिमं रूक्षं रक्तं पीतं दलं लघु ।दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम्
रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम् ।वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित्
प्रमेहादिकरोगांश्च नाशयत्यचिरात् ध्रुवम् ।तारं शरीरस्य करोति तापंविध्वंसनं यच्छति शुक्रनाशम् ।वीर्य्यं बलं हन्ति तनोश्च पुष्टिंमहागदान् पोषयति ह्यशुद्धम्
”अथ मारणाय योग्यं रूप्यमाह ।“गुरु स्निग्धं मृदु श्वेतं दाहच्छेदघनक्षयम् ।वर्णाढ्यं चन्द्रवत् स्वच्छं तारे नवगुणं स्मृतम्
”अथायोग्यम् ।“कठिनं कृत्रिमं रूक्षं रक्तं पीतं दलं लघु ।दाहच्छेदघनैर्नष्टं रूप्यं दुष्टं प्रकीर्त्तितम्
”अथ शोधनविधिः ।“पत्तलीकृतपत्राणि तारस्याग्नौ प्रतापयेत् ।निषिञ्चेत् तप्ततप्तानि तैले तक्रे काञ्जिके
गोमूत्रे कुलत्थानां कषाये त्रिधा त्रिधा ।एवं रजतपत्राणां विशुद्धिः संप्रजायते
”अथाशुद्धस्य रूप्यस्य दोषमाह ।“रूप्यं ह्यशुद्धन्तु करोति तापंविध्वंसनं वीर्य्यबलक्षयञ्च ।देहस्य पुष्टिं हरते तनोतिरोगांस्ततः शोधनमस्य कुर्य्यात्
”अथ रूप्यस्य मारणविधिः ।“भागैकं तालकं मर्द्यं याममम्लेन केनचित् ।तेन भागत्रयं तारपत्राणि परिलेपयेत्
धृत्वा मूषापुटे रुद्ध्वा पुटेत् त्रिंशद्वनोपलैः ।समुद्धृत्य पुनस्तालं दत्त्वा रुद्ध्वा पुनः पचेत् ।एवं चतुर्द्दशपुटैस्तारं भस्म प्रजायते
”अन्यप्रकारः ।“स्नुहीक्षीरेण संपिष्टं माक्षिकं तेन लेप-येत् ।तालकस्य प्रकारेण तारपत्राणि बुद्धिमान् ।पुटे चतुर्द्दशपुटैस्तारं भस्म प्रजायते
”एवं मारितस्य रूप्यस्य गुणाः ।“रूप्यं शीतं कषायाम्लं स्वादुपाकरसं सरम् ।वयसः स्थापनं स्निग्धं लेखनं वातपित्तजित्
प्रमेहादिकरोगांश्च नाशयत्यचिरात् ध्रुवम्
”इति भावप्रकाशः
अथ रूप्यकरणम् ।“मध्वाज्यं गुडताम्रञ्च करेणा माक्षिकं रसम् ।धमनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु
”इति गारुडे १८८ अध्यायः
रूप्यं, त्रि, (प्रशस्तं रूपं अस्यास्तीति रूप +“रूपादाहतप्रशंसयोर्यप् ।” १२० ।इति यप् ।) सुन्दरम् इति मेदिनी ये, ५०
(क्ली, उपमेयम् यथा, साहित्यदर्पणे १० परि-च्छेदे समासोक्त्यलङ्कारे ।“तत्र हि तिमिरांशुकयोर्रूप्यरूपकभावो द्बयो-रावरकत्वेन स्फुटमिति
*
पुं,
प्रत्ययविशेषः ।स तत आगत इत्येतस्मिन्विषये “हेतुमनुष्ये-भ्योऽन्यतरस्यां रूप्यः ।” ८१ इतिसूत्रेण हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां भवति
यथा समादागतं समरूप्यम् देवदत्तरूप्यम्
)