| YouTube Channel

रूपाणि- (rUpANi-)

 
Hindi
Hindi
रूपों
कृदन्तरूपमाला
Sanskrit
1 {@“अर्ह पूजायाम्”@} 2 ‘--पूजनेऽर्हति चार्हयेत्।’ 3 इति देवः।
पूर्वोक्तभौवादिकार्हतिवत् 4 रूपाणि सर्वाणि ज्ञेयानि।
ण्यन्तात् सनि तु इमानि रूपाणि-- अर्जिहयिषकः-षिका
अर्जिहयिषितव्यम्
अर्जिहयिषिता-त्री
अर्जिहयिषणीयम्
अर्जिहयिषन्-न्ती
अर्जिहयिष्यम्
अर्जिहयिषिष्यन्-न्ती-ती
ईषदर्जिहयिषः-दुरर्जिहयिषः-स्वर्जिहयिषः
अर्जिहयिषमाणः
अर्जिहयिष्यमाणः
अर्जिहयिषिष्यमाणः
अर्जिहयिषः
अर्जिहयिषितम्-तः-तवान्
अर्जिहयिषितुम्
अर्जिहयिषुः
अर्जिहयिषा
5 अर्जिहयिषणम्
अर्जिहयिषम्
अर्जिहयिषित्वा
अर्जिहयिषित्वा
समर्जिहयिष्य
इति।।
प्रासङ्गिक्यः
01
=>
(४५)
02
=>
(१०-चुरादिः-१७३२-सक। सेट्। उभ।)
03
=>
(१९७)
04
=>
(४४)
05
=>
[पृष्ठम्००४३+ २४]
1 {@“कखे हसने”@} 2 काखकः-खिका, चिकखिषकः-षिका, चाकखकः-खिका, इत्यादीनि रूपाणि क्रमेण शुद्धात्-सन्नन्तात् यङन्ताच्च, पूर्वोक्तकख 3 धातुवत् ज्ञेयानि।
ण्यन्ते परं घटादिपाठात् ‘घटादयो मितः’ 4 इति मित्त्वे, ‘मितां हस्वः’ 5 इति ह्रस्वे इमानि रूपाणि-- कखकः-खिका, कख्यमानः
कखयिता-त्री, कखः
कखयन्-न्ती, कखयितुम्
कखयिष्यन्-न्ती-ती, कखना
कखयमानः, कखनम्
कखयिष्यमाणः, कखयित्वा
कखः, चिकखयिषुः, 6 प्रकखय्य
कखयितव्यम्, 7 कखम्
कखनीयम्, काखम्
कख्यम्, कखयित्वा २। ईषत्कखः-दुष्कखः-सुकखः, इति विशेषः।
8
प्रासङ्गिक्यः
01
=>
(१४२)
02
=>
(१-भ्वादिः-७८४। अक। सेट्। पर। घटादिः।)
03
=>
(१४१)
04
=>
(गणसूत्रम्-भ्वादौ)
05
=>
(६-४-९२)
06
=>
[[२। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
07
=>
[[३। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति दीर्घविकल्पः।]]
08
=>
[पृष्ठम्०१४३+ २५]
1 {@“कुठि वेष्टने”@} 2 अिदित्करणात् णिचो वैकल्पिकत्वम्।
प्रायेणायं ‘अव’ पूर्वकः।
3 अव- कुण्ठयन्।
‘गुडि वेष्टने’ 4 इति धातोः पाठान्तरमिदम्।
णिज- भावपक्षे पूर्वलिखित 5 कुठिधातुवत्-केवलात् ण्यन्तात् सन्नन्तात् यङन्ताच्च रूपाणि ज्ञेयानि।
णिजभावपक्षे ‘शोषात् कर्तरि--’ 6 इति परस्मैपदमेव।
ण्यन्तात्तु सनि इमानि रूपाणि-- चुकुण्ठयिषकः-षिका, चुकुण्ठयिषिता-त्री, चुकुण्ठयिषन्-न्ती, चुकुण्ठयिषिष्यन्-न्ती-ती, चुकुण्ठयिषमाणः, चुकुण्ठयिषिष्यमाणः, चुकुण्ठयिषितः-तवान्, चुकुण्ठयिषुः, चुकुण्ठयिषितव्यम्, चुकुण्ठयिषणीयम्, चुकुण्ठयिष्यम्, ईषच्चुकुण्ठयिषः -- दुष्चुकुण्ठयिषः-सुचुकुण्ठयिषः, चुकुण्ठयिष्यमाणः, चुकुण्ठयिषः
चुकुण्ठयिषितुम्, चुकुण्ठयिषा, चुकुण्ठयिषणम्, चुकुण्ठयिषित्वा
सञ्चुकुण्ठयिष्य, चुकुण्ठयिषम् २, चुकुण्ठयिषित्वा २। इति विशेषः।
प्रासङ्गिक्यः
01
=>
(२१०)
02
=>
(१०-चुरादिः-१५८४। अक। सेट्। उभ।)
03
=>
[[आ। ‘किञ्च स्वगात्रमवकुण्ठयतो महाहेः दर्पं चुखुण्ड विषमेष मुखाद्विवण्टन्।।’ धा। का। ३। १९।]]
04
=>
(१०-१५८४)
05
=>
(२०९)
06
=>
(१-३-७८)
1 {@“चन श्रद्धोपहननयोः”@} 2 आधृषीयः।
“तनु श्रद्धोपकरणयोः, उपसर्गात् दैर्घ्ये च” इत्यस्य पाठान्तरमिदम्।
अस्य, आधृषीयत्वेन णिचो वैकल्पिकत्वात्, णिजभावपक्षे शुद्धात्-सन्नन्तात् 3 यङन्ताच्च भौवादिकचनधातुवत् 4 रूपाणि ज्ञेयानि।
ण्यन्तात्, ण्यन्तप्रकृतिकसन्नन्ताच्च इमानि रूपाणि -- चानकः-निका, चिचानयिषकः-षिका
चानयिता-त्री, चिचानयिषिता-त्री
चानयन्-न्ती, चिचानयिषन्-न्ती
चानयिष्यन्-न्ती-ती, चिचानयिषिष्यन्-न्ती-ती
चानयमानः, चिचानयिषमाणः
चानयिष्यमाणः, चिचानयिषिष्यमाणः
विचान्-विचानौ-विचानः
-- -- चानितः, चिचानयिषितः-तवान्
चानः, चिचानयिषुः
चानयितव्यम्, चिचानयिषितव्यम्
चाननीयम्, चिचानयिषणीयम्
चान्यम्, चिचानयिष्यम्
ईषच्चानः-दुश्चानः-सुचानः
चान्यमानः, चिचानयिष्यमाणः
चानः, िचानयिषः
चानयितुम्, चिचानयिषितुम्
चानना, चिचानयिषा
चाननम्, चिचानयिषणम्
चानयित्वा, चिचानयिषित्वा
प्रचान्य, प्रचिचानयिष्य
चानम् २, चानयित्वा २, चिचानयिषम्
चिचानयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(४९५)
02
=>
(१०-चुरादिः-१८४१। सक। सेट्। उभ।)
03
=>
[पृष्ठम्०४७७+ २८]
04
=>
(४९४)
1 {@“चर्च अध्ययने”@} 2 -- ‘अध्ययने चर्चयेत् चर्चतीति तु।
हिंसायां तर्जने शेतु तथैव परिभाषणे।।’ 3 इति देवः।
4 अस्य धातोः ण्यन्ते सर्वाणि रूपाणि भौवादिकचर्चतिवत् 5 बोध्यानि।
शतरि 6 सञ्चर्चयन्-न्ती।
क्तिन्विषये तु ‘ण्यासश्रन्थो युच्’ 7 इति युजपवादः, ‘चिन्तिपूजिकथिकुम्बिचर्चश्च’ 8 इत्यादिना अङ् भवति, इति विशेषः।
ण्यन्तात् सनि तु रूपाणि लिख्यन्ते -- चिचर्चयिषकः-षिका, चिचर्चयिषिता-त्री, चिचर्चयिषन्-न्ती, चिचर्चयिषिष्यन्-न्ती-ती
चिचर्चयिषमाणः, चिचर्चयिषिष्यमाणः, चिचर्चयिट्-यिषौ-यिषः, चिचर्चयिषितः-तवान्, चिचर्चयिषुः, चिचर्चयिषितव्यम्, चिचर्चयिषणीयम्, चिचर्चयिष्यम्, ईषच्चिचर्चयिषः इत्यादि, चिचर्चयिष्यमाणः, चिचर्चयिषः, चिचर्चयिषितुम्, चिचर्चयिषा, चिचर्चयिषणम्, चिचर्चयिषित्वा, -- प्रचिचर्चयिष्य, -- चिचर्चयिषम्
चिचर्चयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(५०७)
02
=>
(१०-चुरादिः-१७१३। सक। सेट्। उभ।)
03
=>
(श्लो। ५४)
04
=>
[पृष्ठम्०४९१+ २७]
05
=>
(५०५)
06
=>
[[आ। ‘सञ्चर्चयन् अपनयानथ बुक्कयिष्णुः श्वेवोग्रशब्दनपरः कररुद्धकाणः। मल्लो जिजम्भिषुरसूदितवीर्यमीशं मुष्ट्या जजास बहु पाशितवांश्च दोष्णा।।’ धा। का। ३-३८।]]
07
=>
(३-३-१०७)
08
=>
(३-३-१०५)
1 {@“चिञ् चयने”@} 2 ज्ञापादिः मित्संज्ञकश्च।
3 अस्य धातोः ञित्करणसामर्थ्याण्णिचो वैकल्पिकत्वं बोध्यते।
णिजभावपक्षेऽपि शतृ-शानचौ भवतः ञित्करणात्।
णिजभावपक्षे धातोः हलादित्वात् एकाच्त्वाच्च यङि--चेचीयकः इत्यादीनि सर्वाण्यपि रूपाणि स्वादिगणपठितचिनोतेरिव 4 बोध्यानि।
तथा सन्नन्तेऽपि चिचीषकः-षिका, चिकीषकः-षिका
इत्यादीनि सर्वाण्यपि रूपाणि ज्ञेयानि।]] 5 चपकः-पिका, चयकः-यिका, चिचपयिषकः-चिचययिषकः-षिका, 6 चायकः-यिका
चपयिता-चययिता-त्री, चिचपयिषिता-चिचययिषिता-त्री, चेता-त्रीः
7 प्रणिचपयन्-प्रनिचययन्-न्ती, चिचपयिषन्-चिचययिषन्-न्ती, चयन्-न्ती
चपयिष्यन्-चययिष्यन्-न्ती-ती, चिचपयिषिष्यन्-चिचययिषिष्यन्-न्ती-ती, चेष्यन्-न्ती-ती
चपयमानः-चययमानः, चिचपयिषमाणः-चिचययिषमाणः, चयमानः
चपयिष्यमाणः-चययिष्यमाणः, चिचपयिषिष्यमाणः-चिचययिषिष्यमाणः, चेष्यमाणः
8 विचत्-विचतौ-विचतः, चप्-चपौ-चपः
चपितः-चयितः, चिचपयिषितः-चिचययिषितः, चितम्-तः-तवान्
चपः-चयः, चिचपयिषुः-चिचययिषुः, चयः
चपयितव्यम्-चययितव्यम्, चिचपयिषितव्यम्-चिचययिषितव्यम्, चेतव्यम्
चपनीयम्-चयनीयम्, चिचपयिषणीयम्-चिचययिषणीयम्, चयनीयम्
9 चप्यम्-चय्यम्, चिचपयिष्यम्-चिचययिष्यम्, चेयम्
ईषच्चयः-दुश्चयः-सुचयः, ईषच्चपः-दुश्चपः-सुचपः
चप्यमानः-चय्यमानः, चिचपयिष्यमाणः-चिचययिष्यमाणः चीयमानः
चपः-चयः, चिचपयिषः-चिचययिषः, चयः
चपयितुम्-चययितुम्, चिचपयिषितुम्-चिचययिषितुम्, चेतुम्
चपना-चयना, चिचपयिषा-चिचययिषा, चितिः
चपनम्-चयनम्, चिचपयिषणम्-चिचययिषणम्, चयनम्
चपयित्वा-चययित्वा, चिचपयिषित्वा-चिचययिषित्वा, चित्वा
10 संचपय्य-संचयय्य, प्रचिचपयिष्य-प्रचिचययिष्य, प्रचित्य
11 चापम् -चपम् २, चपयित्वा २, चिचपयिषम् -चिचययिषम् २, चिचपयिषित्वा -चिचययिषित्वा २, चायम्
चित्वा २। चायम् -चयम् -चययित्वा २, चिचपयिषम् -चिचययिषम् २, चिचपयिषित्वा -चिचययिषित्वा २, चित्वा २।
प्रासङ्गिक्यः
01
=>
(५२०)
02
=>
(१०-चुरादिः-१६३०। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(५१९)
05
=>
[[१। ‘चिस्फुरोर्णौ’ (६-१-५४) इत्यात्वविकल्पः। आत्वपक्षे, आदन्तलक्षणे पुगागमे, ज्ञपादिपञ्चकपाठेन मित्त्वात्, णौ उपधायाः ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वः। आत्वाभावपक्षे, वृद्धौ, आयादेशे ह्रस्वे रूपम्। एवं ण्यन्ते सर्वत्र रूपद्वयस्यो- पपत्तिर्ज्ञेया।]]
06
=>
[[२। ञित्करणसामर्थ्याण्णिचो वैकल्पिकत्वेन णिजभावपक्षे शुद्धाद्धातोः चायकः-यिका इत्यादीनि रूपाणि प्रदर्शितानि।]]
07
=>
[[३। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति नेः णत्वविकल्पः।]]
08
=>
[[४। अत्र यकारस्य वलि लोपे, ‘ह्रस्वस्य पिति कृति--’ (६-१-७१) इति तुगागमः। स्थानिवद्भावः शङ्क्यः
\n\n यलोपे तन्निषेधात्।]]
09
=>
[पृष्ठम्०५०६+ २३]
10
=>
[[१। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
11
=>
[[२। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति णमुल्परे णौ दीर्घविकल्पः।]]
1 {@“तप दाहे”@} 2 आधृषीयः।
‘सन्तापेऽर्थे तपेद् दाहे तापयेत् तपते तपेत्।’ 3 इति देवः।
अस्य धातोः आधृषीयत्वात् णिचो वैकल्पिकत्वं बोध्यम्।
ण्यन्तात्, शुद्धात्, सन्नन्तात्, यङन्ताच्च पूर्वोक्तभौवादिकतपधातुवत् 4 सर्वाण्यपि रूपाणि ज्ञेयानि।
अस्योभयपदित्वात् शानचि--तपमानः-तप्स्यमानः, तितप्समानः, तितप्सिष्यमाणः, इत्यादीनि रूपाण्यधिकानि भवन्ति, इति विशेषः।
5 चित्ततापी इति शुद्धाद्धातोर्णिनिप्रत्यये।
ण्यन्तात् सनि इमानि रूपाणि-- यथा--तितापयिषकः-षिका, तितापयिषिता-त्री, तितापयिषन्-न्ती, तिता- पयिषिष्यन्-न्ती-ती, तितापयिषमाणः, तितापयिषिष्यमाणः, तितापयिट्-ड्- यिषौ-यिषः
तितापयिषितः-तवान्, तितापयिषुः, तितापयिषितव्यम्, तितापयिषणीयम्, तितापयिष्यम्, ईषत्तितापयिषः-दुस्तितापयिषः-सुतिता- पयिषः, तितापयिष्यमाणः, तितापयिषः, तितापयिषितुम्, तितापयिषा, तितापयिषणम्, तितापयिषित्वा, संतितापयिष्य, तितापयिषम् २, तिता- पयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(७०५)
02
=>
(१०-चुरादिः-१८१९। सक। सेट्। उभ।)
03
=>
(श्लो। १३१)
04
=>
(७०४)
05
=>
[[आ। ‘अजरद्वृषवद् विरिक्तपीडः पुनरभ्येत्य विशिष्टचित्ततापि।’ धा। का। ३। ४९।]]
1 {@“वच परिभाषणे”@} 2 3 णिजभावपक्षे शतरि वचन् इत्यस्य प्रयोगो दृश्यते 4।
‘-- भाषणे’ इति क्षीरस्वामिमैत्रेयादयः।
“पचिं वचिम्” 5 इति पाठादनिट्त्वम्।
‘पारायणिकैः धातुरयं नाधीयते’ इति मा।
धा।
वृत्तिः।]] ‘-- सन्देशने च’ इति कातन्त्र-हेरम्बादयः।
6 ‘वक्तीति भाषणे वा णौ वाचयेत् वचतीति वा।’ 7 इति देवः।
वाचकः-चिका, विवाचयिषकः-षिका, वाचकः-चिका, विवक्षकः-क्षिका, वावचकः-चिका
वाचयिता-त्री, विवाचयिषिता-त्री, वक्ता-वक्त्री, विवक्षिता-त्री, वावचिता-त्री
इत्यादीनि रूपाणि सर्वाणि ण्यन्तप्रकृतिकसन्नन्तं विना पूर्वोक्तवचतिवत् 8 ऊह्यानि।
आधृषीयत्वाद् णिज्विकल्पः।
णिच्पक्षे इमानि रूपाणि -- वाचयन्-न्ती, विवाचयिषन्-न्ती
वाचयिष्यन्-न्ती-ती, विवाचयिषिष्यन्-न्ती-ती
वाचयमानः, विवाचयिषमाणः
वाचयिष्यमाणः
विवाचयिषिष्यमाणः
विवाचयिट्-ड्-यिषौ-यिषः
वाचितम्-तः, विवाचयिषितम्-तः-तवान्
वाचः, विवाचयिषुः
वाचयितव्यम्
विवाचयिषितव्यम्
वाचनीयम्, विवाचयिषणीयम्
वाच्यम्, विवाचयिष्यम्, ईषद्विवाचयिषः-दुर्विवाचयिषः-सुविवाचयिषः
वाच्यमानः, विवाचयिष्यमाणः
वाचः, विवाचयिषः
वाचयितुम्, विवाच- यिषितुम्
वाचना, विवाचयिषा
वाचनम्, विवाचयिषणम्
वाचयित्वा, विवाचयिषित्वा
प्रवाच्य, प्रविवाचयिष्य, वाचम् २, वाचयित्वा
विवाचयिषम् २, विवाचयिषित्वा २। इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५३५)
02
=>
(१०-चुरादिः-१८४३। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(धा। का। ३-५२)
05
=>
(७-२-१०। व्याघ्रभूतिकारिका)
06
=>
[आधृषीयः। [पृष्ठम्११८४+ २६]
07
=>
(श्लो। ५१)
08
=>
(१५३४)
1 {@“स्यन्दू प्रस्रवणे”@} 2 अर्थभेदेन सकर्मकोऽकर्मकोऽपि कविभिः प्रयुज्यते।
स्यन्दकः-न्दिका, स्यन्दकः- न्दिका, सिस्यन्त्सकः-न्त्सिका, सिस्यन्दिषकः-षिका, सास्यन्दकः-न्दिका
इत्यादिकानि रूपाणि सर्वाण्यपि कृपूधातुवत् 3 ज्ञेयानि
प्रातिस्विक- रूपाणि विना।
ऊदित्त्वात् ‘स्वरतिसूति--’ 4 इत्यादिना वलादेरार्ध- 5 धातुकस्य इड्विकल्पः।
स्यन्दिता- 6 स्यन्ता इति।
7 स्यन्दित्वा-स्यन्त्वा, 8 स्यन्नः, 9 स्यन्दनः, 10 अनुष्यन्दमानः, 11 विष्यन्दमानः, परिष्यन्दमानः, अभिष्यन्दमानः, निष्यन्दमानः, अनुस्यन्दमानः, विस्यन्दमानः, परिस्यन्दमानः, अभिस्यन्दमानः, निस्यन्दमानः, णिनिप्रत्यये 12 निष्यन्दी, 13 स्यदः, अश्वस्यदः, गोस्यदः, 14 स्यन्त्स्यन्, 15 सिन्धुः, स्यन्दम् - 16 स्यन्त्वा २, इत्यादिकानि रूपाणि अस्य धातोः विशेषेण भवन्तीति ज्ञेयम्।
प्रासङ्गिक्यः
01
=>
(१९७२)
02
=>
(१-भ्वादिः-७६१। अक। वेट्। आत्म।)
03
=>
(२५२)
04
=>
(७-२-४४)
05
=>
[पृष्ठम्१३९९+ ३०]
06
=>
[[१। ऊदित्त्वात् इड्विकल्पः। इडभावपक्षे धातुदकारस्य चर्त्वेन तकारः। तस्य ‘झरो झरि--’ (८-४-६५) इति पाक्षिको लोपः। एवं तव्यदादिष्वपि बोध्यम्।]]
07
=>
[[२। ऊदित्वात् इड्विकल्पः। इडभावपक्षे ‘क्त्वि स्कन्दिस्यन्दोः’ (६-४-३१) इति नलोपो निषिध्यते। ‘न क्त्वा सेट्’ (१-२-१८) इति सेटः क्त्वायाः कित्त्वनिषेधात् उपधानकारलोपो न।]]
08
=>
[[३। निष्ठायाः ‘यस्य विभाषा’ (७-२-१५) इत्यनिट्त्वम्। निष्ठातकारधातुदकारयोः नत्वम्।]]
09
=>
[[४। ‘अनुदात्तेतश्च--’ (३-२-१४९) इति युच्प्रत्ययः।]]
10
=>
[[५। ‘अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु’ (८-३-७२) इति सकारस्य विकल्पेन मूर्द्धन्यादेशः। अनुस्यन्दमानः मत्स्यः, जलं वा। अत्र षत्वम्। ‘अप्राणिषु’ (८-३-७२) इत्युक्तेः।]]
11
=>
[[आ। ‘विष्यन्दमानरुधिरो रक्तविस्यन्दपाटलान्।’ भ। का। ९-७४।]]
12
=>
[[B। ‘सायं शशाङ्ककिरणाहतचन्द्रकान्त- निष्यन्दिनीरनिकरेण कृताभिषेकाः।’ शि। व। ४-५८।]]
13
=>
[[६। ‘स्यदो जवे’ (६-४-२८) इति जवेऽभिधेये घञ् नलोपो वृद्ध्यभावश्च निपात्यते। अन्यत्र घृतस्यन्दः इत्येव
\n\n नलोपादिकम्।]]
14
=>
[[७। ‘वृद्भ्यः स्यसनोः’ (१-३-९२) इति परस्मैपदं वा। ‘न वृद्भ्यः चतुर्भ्यः’ (७-२-५९) इतीण्निषेधः।]]
15
=>
[[८। औणादिके (द। उ। १-९६) उप्रत्यये संप्रसारणे रूपमेवम्। स्यन्दतेऽत्यर्थमिति सिन्धुः = समुद्रः, नदविशेषश्च।]]
16
=>
[[C। ‘स्यन्त्वा स्यन्त्वा दिवश्शम्भोः मूर्ध्नि स्कन्त्वा भुवं गतम्।’ भ। का। २२-११।]]