| YouTube Channel

रूपकः-पिका (rUpakaH-pikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रूप रूपक्रियायाम्”@} 2 अदन्तः।
‘रूपक्रिया = राजमुद्रादिरूपस्य करणम्।
‘-- रूपदर्शनम् वा’ इति क्षीरस्वामी।
रूपकः-पिका, रुरूपयिषकः-षिका, रूपयिता-त्री, रुरूपयिषिता-त्री
इत्यादीनि समस्तान्यपि रूपाणि चौरादिकगूरयतिवत् 3 ज्ञेयानि।
4 रूप्यम्, 5 इति संज्ञायां क्वुन्।
यद्वाऽत्र ‘लिङ्गमशिष्यं लोकाश्रितत्वात् लिङ्गस्य’ इति शाब्दिकमर्यादाश्रयणात् ‘संज्ञायाम्’ 6 इति ण्वुलि स्त्र्यधिकारविहितत्वेऽपि नपुंसकलिङ्गत्वं बोध्यम्।
रूपकम् = अर्थालङ्कारभेदः, नाटकादि च।
नाटकादौ तु बोध्ये दर्शनार्थकत्वम्, अन्यत्र मुद्रार्थकत्वमिति विशेषः।]] रूपकम्।
प्रासङ्गिक्यः
01
=>
(१४३४)
02
=>
(१०-चुरादिः-१९३३। अक। सेट्। उभ।)
03
=>
(४१८)
04
=>
[[१। ‘अचो यत्’ (३-१-९७) इति यत्प्रत्ययः। रूप्यम् = राजकीया द्रव्यादिरूपा मुद्रा। स्वार्थे कनि रूप्यकम् इत्यपि साधुः।]]
05
=>
[[२। ‘क्वुन् शिल्पिसंज्ञयोः--’ [द। उ। ३। ५]
06
=>
(३-३-१०९)