रूपकं (rUpakaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritरूपकं, (रूपयतीति । रूपि + ण्वुल् ।)नाटकम् । (“तस्य रूपकसंज्ञाहेतुमाह । रूपा-रोपात्तु रूपकम् । रूपकस्य भेदानाह ।नाटकमथ प्रकरणंभाणव्यायोगसमवकारडिमाः ।ईहामृगाङ्कवीथ्यःप्रहसनमिति रूपकाणि दश ॥
किञ्च ।नाटिका त्रोटकं गोष्ठी सट्टकं नाट्यरासकम् ।प्रस्थानोल्लाप्यकाव्यानि प्रेङ्खणं रासकं तथा ॥
संलापकं श्रीगदितं शिल्पकञ्च विलासिका ।दुर्मल्लिका प्रकरणी हल्लीशो भाणिकेति च ॥
अष्टादश प्राहुरुपरूपकाणि मनीषिणः ।विना विशेष सर्व्वेषां लक्ष्म नाटकवन्मतम् ॥
”इति साहित्यदर्पणे ६ परिच्छेदः ॥
)मूर्त्तम् । (यथा, कथासरित्सागरे । ५५ । ४३ ।“आदिश्यताञ्च चित्रे किमालिखामीह रूप-कम् ॥
”)काव्यालङ्करणम । इति मेदिनी । के, १४८ ॥
शेषस्य लक्षणं यथा, --“रूपकं रूपितारोपात् विषये निरपह्नवे ।तत् परम्परितं साङ्गं निरङ्गमिति च त्रिधा ॥
यत्र कस्यचिदारोपः परारोपणकारणम् ।तत् परम्परितं श्लिष्टाश्लिष्टशब्दनिबन्धनम् ॥
प्रत्येकं केवलं मालारूपञ्चेति चतुर्व्विधम् ।अङ्गिनो यदि साङ्गस्य रूपणं साङ्गमेव तत् ॥
समस्तवस्तुविषयमेकदेशविवर्त्ति च ।आरोप्याणामशेषाणां शाब्दत्वे प्रथमं मतम् ॥
यत्र कस्यचिदार्थत्वमेकदेशविवर्त्ति तत् ।निरङ्गं केवलस्यैव रूपणं तदपि द्बिधा ॥
माला केवलरूपत्वात् तेनाष्टौ रूपके भिदाः ॥
”इति साहित्यदर्पणे १० परिच्छेदः ॥
अपि च ।“अभेदो भासते यस्मिन्नुपमानोपमेययोः ।रूपकं कथ्यते सद्भिरलङ्कारोत्तमं यथा ॥
तन्वि युष्मन्मखाम्भोजं लोलालकमधुव्रतम् ।न कस्य हरते चेतो लसद्दशनकेशरम् ॥
अस्त्यनेकप्रकारत्वं रूपकोपमयोरपि ।संक्षेपेणोक्तमन्यत्तु सुधीभिरवधीयताम् ॥
”इति काव्यचन्द्रिका ॥
संख्याविशेषः । यथा, --“सञ्चाली प्रोच्यते गुञ्जा सा तिस्रो रूपकं भवेत् ।रूपकैर्द्दशभिः प्रोक्तः कलञ्जो नाम नामतः ॥
”इति युक्तिकल्पतरुः ॥
(उपमानम् । यथा, साहित्यदर्पणे १० परिच्छेदेसमासोक्त्यलङ्कारे ।“यत्र तु रूप्यरूपकयोः सादृश्यमस्फुटमिति ॥
”पुं, मुद्रा । यथा, कथासरित्सागरे । ७८ । १३ ।“अल्पे परिकरेऽप्येभिरियद्भिः स्वर्णरूपकैः ।किमेष व्यसनं पुष्णात्यथ कञ्चन सद्ब्ययम् ॥
”तथाच बृहत्संहितायाम् । ८१ । १२ ।“गुञ्जात्रयस्य मूल्यं पञ्चाशद्रूपका गुणयुतस्य ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
