रूपं (rUpaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte 1890
Englishरूपं [रूप्-क भावे अच् वा] 1 Form, figure, appearance
विरूपं रूपवंतं वा पुमानित्येव भुंजते Pt. 1. 143
so सुरूप, कुरूप.
2 Form or the quality of colour (one of the 24 guṇas of the Vaiśeṣikas)
चक्षुर्तात्रग्राह्यजातिमान् गुणो रूपं Tarka K
(it is of six kinds:
शुक्ल, कृष्ण, पीत, रक्त, हरित, कपिल, or of seven, if चित्र be added).
3 Any visible object or thing.
4 A handsome form or figure, beautiful form, beauty, elegance, grace
मानुपीषु कथं वा स्यादस्य रूपस्य संभवः Ś. 1. 26
विद्या नाम नरस्य रूपमधिकं Bh. 2. 20
रूपं जरा हंति &c.
5 Natural state or condition, nature, property, characteristic, essence.
6 Mode, manner.
7 A sign, feature.
8 Kind, sort, species
9 An image, a reflected image.
10 Similitude, resemblance.
11 Specimen, type, pattern.
12 An inflected form, the form of a noun or a verb derived from inflection (declension or conjugation).
13 The number one, an arithmetical unit.
14 An integer.
15 A drama, play, see रूपक.
16 Acquiring familiarity with any book by learning it by heart or by frequent recitation.
17 Cattle.
18 A sound, a word.
19 A known quantity.
20 A beast.
21 A verse.
22 A name.
23 The white colour. (रूप is frequently used at the end of comp. in the sense of ‘formed or composed of, ’ ‘consisting of, ’ ‘in the form of, ’ ‘namely
’ ‘having the appearance or colour of, ’ तपोरूपं धनं
धर्मरूपः सखा &c.).
Comp.
अधिबोधः the perception of form or colour of any object by the senses.
अभिग्राहित a. caught in the act, caught red-handed.
अस्रः Cupid.
आजीवा a harlot, prostitute, courtezan.
आश्रयः an exceedingly beautiful person.
इंद्रियं the organ which perceives form and colour, the eye.
उच्चयः a collection of lovely forms
Ś. 2. 9.
कारः,
कृत् m. a sculptor.
ग्रहः the eye.
ज्ञ a. perceiving forms, distinguishing visible objects.
तत्त्वं inherent property, essence.
धर a. of the form of, disguised as
जुगोप गोरूपधरामिवोर्मीम् R. 2. 3.
धारिन् a. {1} having a form or shape. {2} possessed of beauty, lovely. (
m.) an actor.
नाशनः an owl.
भागानुबंधः the addition of a fraction to a unit.
लावण्यं exquisiteness of form, elegance.
विपर्ययः disfigurement, morbid change of bodily form.
शालिन् a. beautiful.
संपद्,
संपत्तिः f. perfection or excellence of form, richness of beauty, superb beauty
उदपादि चास्या रूपसंपदा आविर्भूतविस्मयस्य तस्य मनसि K.
Hindi
Hindibeaut
शब्दकल्पद्रुमः
Sanskritरूपं, (रूयते कीर्त्त्यते रौतीति वा ।रु + “खष्पशिल्पशष्पेति ।” उणा० ३ । २८ ।इति पः दीर्घश्च । रूपयतीति । रुप् + अच्वा ।) स्वभावः । सौन्दर्य्यम् । नामकम् ।पशुः । शब्दः । ग्रन्थावृत्तिः । नाटकादिः ।आकारः । (यथा, मनुः । ७ । ७७ ।“तदध्यास्योद्बहेद्भार्य्यां सवर्णां लक्षणान्विताम् ।कुले महति सम्भूतां हृद्यां रूपगुणान्विताम् ॥
”)श्लोकः । इति मेदिनीशब्दरत्नावलीभूरि-प्रयोगाः ॥
(स्वरूपम् । यथा, मनुः । ८ । ४५ ।“देशं रूपञ्च कालञ्च व्यवहारविधौ स्थितः ॥
”)शुक्लादिः । नामकस्थाने नाणकम् । इतिनानार्थरत्नमालाविश्वहेमचन्द्राः ॥
* ॥
रूपन्तुषोडशविधम् । यथा । ह्रस्वम् १ दीर्घम् २स्थूलम् ३ चतुरस्रम् ४ वृत्तम् ५ शुक्लम् ६कृष्णम् ७ नीलारुणम् ८ रक्तम् ९ पीतम् १०कठिनम् ११ चिक्कणम् १२ श्लक्ष्णम् १३ पिच्छि-लम् १४ मृदु १५ दारुणम् १६ । इति महा-भारते मोक्षधर्म्मः ॥
* ॥
तस्य लक्षणं यथा, --“अङ्गान्यभूषितान्येव केनचिद्भूषणादिना ।येन भूषितवद्भान्ति तद्रूपमिति कथ्यते ॥
”इत्युज्ज्वलनीलमणिः ॥
न्यायमते तत् चक्षुरिन्द्रियग्राह्यम् । द्रव्यादि-प्रत्यक्षकारणम् । चक्षुः सहकारि । शुक्लाद्य-नेकप्रकारम् । जलादिपरमाणुरूपं नित्यम् ।अन्यत्र अनित्यम् । यथा, --“चक्षुर्ग्राह्यं भवेद्रूपं द्रव्यादेरुपलम्भकम् ।चक्षुषः सहकारि स्याच्छुक्लादिकमनेकधा ।जलादिपरमाणौ तन्नित्यमन्यत् सहेतुकम् ॥
”इति भाषापरिच्छेदः ॥
उत्तरपदस्थरूपादिशब्दस्य उपमानवाचक-त्वम् । यथा, --“स्युरुत्तरपदे प्रख्यः प्रकारः प्रतिमो निभः ।भूतरूपोपमाः काशः सन्निभः प्रथितः परः ॥
”इति हेमचन्द्रः ॥
अतिशयरूपस्य दोषो यथा, --उमोवाच ।“रूपातिशयसम्पन्ना नानागुणसमन्विताः ।किमर्थं दुःखिता जाताः कान्तसौख्यविवर्ज्जिताः ॥
ईश्वर उवाच ।दमयन्ती तथा सीता रूपातिशयपारगा ।दुःखिता तेन संजाता कान्तसौख्यविवर्ज्जिता ॥
अहल्या बन्धकी जाता कपिलस्य तु योषिता ।रूपस्य तु प्रभावेण दासी जाता तिलोत्तमा ॥
तस्माद्रपञ्च नेच्छन्ति लक्षणज्ञास्तपोधनाः ।अतिरूपेण स्वल्पायुः पुरुषो योषितोऽपि वा ।अथवा सौख्यहीनस्तु जायते तु महातपे ॥
”इति देवीपुराणे नन्दाकुण्डप्रवेशाध्यायः ॥
तद्बैदिकपर्य्यायः । निर्णिक् १ वव्रिः २ वर्पः ३वपुः ४ अमतिः ५ अप्सः ६ प्सुः ७ अप्नः ८पिष्टम् ९ पेशः १० कृशनम् ११ प्सरः १२अर्ज्जुनम् १३ ताम्रम् १४ अरुषम् १५ शिल्पम्१६ । इति षोडशरूपनामानि । इति वेद-निघण्टौ ३ अध्यायः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
