रुह (ruha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Englishरुह(ञि औ) ञिऔरुह r. 1st cl. (रोहति)
1 To grow from seed, to grow as a tree, &c.
2 To be produced or become manifest.
3 To be born.
With अधि prefixed, To go up or over, to ascend.
With अधि and आङ्, To ascend.
With अव, To descend.
With आङ्.
1 To mount, to ride on.
2 To rise, to ascend.
With प्र, To grow, to shoot forth as a branch or shoot taking fresh root.
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
Englishरुह रुह् + अ,
I.
1. Growing.
2. Mounted.
II. हा, Bent grass.
--
जगति-, a tree, MBh. 7, 8098.
जल-, a lotus, ib. 1, 5005.
तनू-,
I. a son, Śātr. 10, 52.
II. (and
). 1. the hair of the body, Arj. 5,
3. 2. the wing of a bird,
Varāh. Bṛh. S. 62, 1.
तीर-,
I. growing
on the bank of a river, Rām. 2, 95, 4.
II. a tree growing on the bank of a
river, ib. 104, 4 Gorr.
वीज-काण्ड-,
springing from a seed, or from a
slip, Man. 1, 48.
Apte Hindi
Hindiरुह
वि* - रुह् + क्
"उगा हुआ या उत्पन्न, जैसा कि `महीरुह्' और `पङ्केरुह्' में"
Shabdartha Kaustubha
Kannadaरुह - बीजजन्मनि प्रादुर्भावे च (भ्वा० पर० अक० अनि०) रोहति । रोढा । अरुक्षत् ।
कन्नडार्थः - > ಹುಟ್ಟು /ಜನ್ಮತಾಳು
रुह - बीजजन्मनि प्रादुर्भावे च (भ्वा० पर० अक० अनि०) रोहति । रोढा । अरुक्षत् ।
कन्नडार्थः - > ಬೆಳೆ /ಚಿಗುರು /ಮೊಳಕೆಯೇಳು
प्रयोगाः - > "छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते चन्द्रः"
उल्लेखाः - > भर्तृ० १-७९
रुह
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > (ಸಮಾಸದ ಕೊನೆಯಲ್ಲಿ) ಹುಟ್ಟುವ
रुह
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಬೆಳೆಯುವ
निष्पत्तिः - > रुह (बीजजन्मनि प्रादुर्भावे च) - "कः" (३-१-१३५)
व्युत्पत्तिः - > रोहति
प्रयोगाः - > "विहङ्गराजाङ्गरुहैरिवायतैर्हिरण्मयोर्वीरुहवल्लितन्तुभिः"
उल्लेखाः - > माघ० १-७
धातुपाठः (Krishnacharya)
Sanskrit रुह्
रुह
बीजजन्मनि, प्रादुर्भावे च
भ्वादिः
अकर्मकः
अनिट्
परस्मैपदी
रोहति
धातुप्रदीपः
Sanskritरुहँ रुह जन्मनि प्रादुर्भावे
- रोहति । रुरोह । रोढा । अरुक्षत् । पङ्केरुहम् । अवरोहः । रोहः रुहः । आरूढम् ।। 862 ।।
शब्दकल्पद्रुमः
Sanskritरुह, ञि ज औ जन्याम् । इति कविकल्पद्रुमः ॥
(भ्वा०-पर०-अक०-अनिट् ।) ञि, रूढोऽस्ति ।ज, रोहः रुहः । औ, अरुक्षत् । जनिर्जन्म ।रोहति जन्तुर्ज्जायते इत्यर्थः । रुह जन्मनिप्रादुर्भावे इति प्राञ्चः । जन्मप्रादुर्भावयोरेको-ऽर्थः । इति गोविन्दभट्टचतुर्भुजमिश्रौ । रमा-नाथस्तु प्रादुर्भावः स्फूर्त्तिरिति भेदमाह । इतिदुर्गादासः ॥
वाचस्पत्यम्
Sanskritक्षीरतरङ्गिणी
Sanskritरुहँ रुह बीजजन्मनि
-(अर्थविवरणम्) बीजस्य जन्माङ्कुरोत्पत्तिः
रोहति रुहः पोऽन्यतरस्याम् (7343) रोपयति, रोहयति घञर्थे क विधानाद् (द्र0 3358 वा0) बीजरुहाकरोति केशाश्छिन्नरूहाः के (द्र0 उ0 1115) रुहो मृगः प्ररुहः प्ररोहः, प्ररोहः आरोहः रूढः रूढिः रुहेवृद्धिश्च (उ0 147) इति रौहिषं तृणम्, रौहिषो मृगश्च हृपिशिरुहि (उ0 4119) इतीन्-रोहिमृगः हृसृरुहियुषिभ्य इतिः (उ0 197) रोहित् रुहेरश्च लो वा (उ0 394) लोहितः, रोहितः, रोहिणी अन्यत्रापि च (तु0 उ0 239) इतीनच्-रोहिणः 829
धातुवृत्तिः
Sanskritरुहँ रुह (अर्थः) बीजजन्मनि, प्रादुर्भावे च
अनुदात्ता उदात्तेतः ( रोहति रुरोह रुरोहिथ रुरुहिव )क्रादिनियमाट्टि ( रोढा ) गुणढत्वधत्वष्टुत्यढलोपाः ( रोक्ष्यति ) "षढौः कः सि'' इति कत्वं ( रोहतु अरोहत् रोहेत् ) आशिषि (रुह्मात् अरुक्षत् ) "शल इगुपधादनिटः क्सः'' ( रुरुखति रोरुह्मते रोरोढि रोरूढः ) "ढलोपे'' इति दीर्घः ( रोरोक्षि ) लोटि सोर्हित्वे धित्वष्टुत्वलोपदीर्घेषु (रोरूढि ) लङि ( आरोरोट् अरोरूसम् रोहयति अरूरुहत् रोपयति अरूरुपत् ) "रुहः पोन्यतरस्याम्'' इति पक्षे हकारस्य पकारः, ( आरूढो वृक्षम् आरूढो वृक्षः) "गत्यर्थाकर्मकः'' इत्यादिना कर्त्तृकर्मणोः क्तः ( रोहितिः ) "हूसृरुहिपुषिभ्यइतिः'' इतीतिः ( रोहितः लोहितः ) "रुहेरितश्च लो वा''इति इतः पक्षे रेफस्य लत्वम् अलोहितो लोहितो भवति, (लोहितायते लोहितायति) ( सूत्रम्) लोहितादिडाज्भ्यः क्यष् (इति सूत्रम्) च्वयर्थविषादच्व्यन्तात् भवत्यर्थे क्यष "वा क्यषः''ति पक्षे तङ् ( लोहित एव लोहितको मणिः) "लोहितान्मणौ''इति मणौवर्तमानात् लोहितशब्दात् स्वार्थे कन् ( लोहितकं मुखं कोपेन) "लोहितान्मणौ''इति मणौ वर्तमानात् लोहितशब्दात् स्वार्थे कन् (लोहितकं मुखं कोपेन) "वर्णे चानित्ये'' इति अनित्यवर्णे वर्त्तमानात् लोहितशब्दात् स्वार्थे कन्, स्त्रियां [लांहिताल्लिङ्गिबाधानं वा) इत्युक्तत्वात् "वर्णादनुदात्तात्'' इति पक्षे कनोन ङीब्विधिरिति (लोहितिकेति भवति) अन्यदा तु ङीम्नकारयोर्लिङ्गविशिष्टपरिभाषया कनि हस्वे च (लोहिनिकेति) लोहितेन रक्तो (लोहितकः पटः) "रक्तः'' इति लाक्षादिना रक्तेर्थे वर्त्तमानात् लोहितशब्दात्स्वार्थे कन्, अत्रापि स्त्रियां "लोहिताल्लिङ्गबाधनं वा'' इत्यस्यानुवर्तनात् (लोहितिका पटी लोहिनिका पटीत्युभसयं भवति रोहिषो मृगभेदः) "रुहेर्वृद्धिश्च'' इति टिषचि वृद्धिः स्त्रियां (रौहिषी) 844
कृदन्तरूपमाला
Sanskrit1 {@“रुह बीजजन्मनि प्रादुर्भावे च”@} 2 ज्वलादिः।
‘-- प्रादुर्भावे च’ इति केचिन्न पठन्ति।
‘रुह जन्मनि--’ इति न्यासे पाठः।
3 रोहकः-हिका, 4 रोपकः-पिका, रोहकः-हिका, 5 रुरुक्षकः-क्षिका, रोरुहकः-हिका
6 रोढा-रोढ्री, रोपयिता-रोहयिता-त्री, रुरुक्षिता-त्री, रोरुहिता-त्री
रोहन्-न्ती, रोपयन्-रोहयन्-न्ती, रुरुक्षन्-न्ती
-- रोक्ष्यन्-न्ती-ती, रोपयिष्यन्-रोहयिष्यन्-न्ती-ती, रुरुक्षिष्यन्-न्ती-ती
-- -- रोपयमाणः-रोहयमाणः, -- रोरुह्यमाणः
-- रोपयिष्यमाणः-रोहयिष्यमाणः, -- रोरुहिष्यमाणः
7 अम्बुरुट्-रुड्-रुहौ-रुहः
-- -- -- रूढम्-रूढः-रूढवान्, 8 आरूढो वृक्षम्-आरूढो वृक्षः, 9 रूढः, रोपितः-रोहितः, 10 रोहितः, लोहितः-लोहिताया, लोहितकः, लोहितकं 11, रुरुक्षितः, रोरुहितः-तवान्
12 13 रुहः-रोहः, प्ररुहः-प्ररोहः, 14 पाणिरुहः 15 -भूरुहः-उर्वीरुहः-शिरोरुहः-सरोरुहम्, 16 न्यग्रोधः, 17 वीरुत् 18, 19 विरोही-रोहिणी, 20 रोहणः, रोपः-रोहः, 21 धान्यरोपी, रुरुक्षुः-रोरोहः
रोढव्यम्, रोपयितव्यम्-रोहयितव्यम्, रुरुक्षितव्यम्, रोरुहितव्यम्
रोहणीयम्, रोपणीयम्-रोहणीयम्, रुरुक्षणीयम्, रोरुहणीयम्
रोह्यम्, रोप्यम्-रोह्यम्, रुरुक्ष्यम्, रोरुह्यम्
ईषद्रोहः-दूरोहः-सुरोहः
-- -- -- रुह्यमाणः, रोप्यमाणः-रोह्यमाणः, रुरुक्ष्यमाणः, रोरुह्यमाणः
रोहः, आरोपः-रोहः, रुरुक्षः, रोरुहः
रोढुम्, रोपयितुम्-रोहयितुम्, रुरुक्षितुम्, रोरुहितुम्
रूढिः, 22 रूढिः, 23 24 बीजरुहाकुर्वन्, प्राजरुहाकुर्वन्, रोपणा-रोहणा, आरुरुक्षा, रोरुहा
रोहणम्, रोपणम्-रोहणम्, रुरुक्षणम्, रोरुहणम्
रूढ्वा, रोपयित्वा-रोहयित्वा, रुरुक्षित्वा, रोरुहित्वा
आरुह्य, आरोप्य-आरोह्य, आरुरुक्ष्य, आरोरुह्य
रोहम् २, रूढ्वा २, रोपम् २-रोहम् २, रोपयित्वा २-रोहयित्वा २, रुरुक्षम् २, रुरुक्षित्वा २, रोरुहम् २
रोरुहित्वा २
25 इतीन्प्रत्ययः।
रोहतीति रोहिः = जन्म।]] रोहिः, 26 इतीतिप्रत्ययः।
रोहित् = वीरुत्प्रकारः, सूर्योऽग्निश्च।]] रोहित्, 27 इतीतन्प्रत्ययः, रेफस्य लकारश्च वा भवति।]] रोहितः-लोहितः, 28 इति टिषच्प्रत्यये धातोर्वृद्धौ च रौहिषः इति भवति।
रौहिषः = तृणजातिः, स्त्रियां षित्त्वात् ङीषि रौहिषी = दूर्वा।]] रौहिषः।
01 (१४३२)
02 (१-भ्वादिः-८५९। अक। अनि। पर।)
03 [पृष्ठम्११३५+ २८]
04 [[१। ण्यन्ते सर्वत्र, ‘रुहः पोऽन्यतरस्याम्’ (७-३-४३) इति विकल्पेन हकारस्य पकारः। तेन रूपद्वयम्। यद्यपि दैवादिकरुप्यतेर्ण्यन्ते रोपक इति, रोहतेश्च रोहक इति सिद्ध्यति, धातूनामनेकार्थत्वात् बीजजन्मनि उभयत्र वृत्तिरपि सुलभा
\n\n तथापि धातूनामनेकार्थत्वेऽपि, न सर्वेषां सर्वार्थकत्वमित्यतः सूत्रारम्भस्य चारितार्थ्यं बोध्यम्। विस्तरस्तु न्यासादिषु बोध्यः।]]
05 [[२। ‘दिहिर्दुहिर्मेहतिरोहती वहिः--’ (व्याघ्रभूतिकारिका ७-२-१०) इति वचनात् धातोरस्यानिट्त्वं बोध्यम्। ‘हो ढः’ (८-२-३१) इति ढत्वे, ‘षढोः कः सि’ (८-२-४१) इति ककारे षत्वे च रूपमेवम्।]]
06 [[३। तृजादिषु ‘पुगन्तलघूपधस्य च’ (७-३-८६) इति प्रथमं गुणे, तदनन्तरं ढत्व- धत्वष्टुत्वढलोपाः। ‘पर्जन्यवल्लक्षणं प्रवर्तते’ (परि। १२१) इति न्यायेन ‘ढ्रलोपे--’ (६-३-१११) इति दीर्घः--ओकारः--अत्रापि भवतीति बोध्यम्।]]
07 [[आ। ‘विसृत्वरैरम्बुरुहां रजोभिः यमस्वसुश्चित्र इवोदभारः।।’ शि। व। ३। ११।]]
08 [[४। ‘गत्यर्थाकर्मक--’ (३-४-७२) इत्यादिना कर्तरि कर्मणि च क्तप्रत्ययः।]]
09 [[५। ‘क्तिच्क्तौ च--’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः। रूढः = रूढिं गतः।]]
10 [[६। ण्यन्तात् कर्तरि क्तप्रत्यये साधुरयम्। अस्यैव शब्दस्य कपिलकादिगणे (वा। ८-२-१८) पाठात् विकल्पेन धात्वादेर्लकारः--लोहितः = वर्णविशेषः। अभिधानस्वाभाव्यात् वर्णवाचकत्वमधुना धातोरिति बोध्यम्। लोहिताया इति। अत्र अलोहितो लोहितो भवतीति च्व्यन्तात् लोहितशब्दात् ‘लोहितादिडाज्भ्यः क्यष्’ (३-१-१३) इति क्यष्। ‘सनाद्यन्ता धातवः’ (३-१-३२) इति धातुसंज्ञा। ‘अ प्रत्ययात्’ (३-३-१०२) इति प्रत्ययान्तादकारप्रत्ययः। लोहितकः इति अत्र ‘लोहितान्मणौ’ (५-४-३०) इति स्वार्थे कन्प्रत्ययः। ‘लोहितकं मुखम्’ इत्यत्र तु ‘वर्णे चानित्ये’ (५-४-३१) इत्यनित्यवर्णवाचकात्लोहितशब्दात् स्वार्थे कन्प्रत्ययः।]]
11 [मुखम्]
12 [पृष्ठम्११३६+ २६]
13 [[१। ‘ज्वलितिकसन्तेभ्यः--’ (३-१-१४०) इति कर्तरि वैकल्पिको णप्रत्ययः। णप्रत्यय- पक्षे रोहः इति सम्पद्यते। तदभावपक्षे ‘इगुपधज्ञा--’ (३-१-१३५) इति कप्रत्यये रुहः इति भवति। रुहः = मृगविशेषः।]]
14 [[२। ‘सुपि स्थः’ (३-२-४) इत्यत्र, ‘सुपि’ इति योगविभागात् पाण्यादिषु सुबन्तेषूप- पदेषु कर्तरि कप्रत्ययः। अत्र ‘इगुपध--’ (३-१-१३५) इति कप्रत्यय इति प्रक्रियाकौमुदी। तत्र निरुपपदाधिकारात् चिन्त्यमिदम्।]]
15 [[आ। ‘पीने भटस्योरसि वीक्ष्य भुग्नान् तनुत्वचः पाणिरुहान् सुमध्या।’ भ। का। ११। ८।]]
16 [[३। न्यक् रोहतीति न्यग्रोधः = वटवृक्षः। बाहुलकात् कर्तरि घञ्। न्यङ्क्वादिषु (७-३-५३) पाठात् धातुहकारस्य धकारः।]]
17 [[४। विविधं रोहतीति वीरुत् = लता। ‘अन्येभ्योऽपि दृश्यते’ (३-२-१७८) इति क्विपि, न्यङ्क्वादित्वात् (७-३-५३) हकारस्य धकारः। ‘अन्येषामपि दृश्यते’ (६-३-१३७) इति दीर्घः।]]
18 [[B। ‘… वीरुत्ततिर्भृङ्गकुलैररंसीत्।।’ वा। वि। ३। १७।]]
19 [[५। विशेषेण रोहतीति विरोही तृणादयः। तद्धर्मिणि णिनिः। केवलाण्णिनिप्रत्ययेऽपि रोही इति भवति। तदन्तात् स्त्रियां नान्तत्वेन ङीषि रोहिणी इति।]]
20 [[६। नन्द्यादित्वात् (३-१-१३४) कर्तरि ल्युः। रोहणः = रत्नपर्वतः।]]
21 [[७। धान्यानि रोपयतीति धान्यरोपी। ण्यन्तात् णिनिः।]]
22 [[८। संज्ञायां क्तिच्। ढत्वष्टुत्वढलोपदीर्घाः यथालक्षणमिह बोध्याः।]]
23 [पृष्ठम्११३७+ २४]
24 [[१। बीजं रोहयतीत्यर्थे अन्तर्भावितण्यर्थादस्मात् मूलविभुजादित्वात् (वा। ३-२-५) कर्तरि कप्रत्ययः। तदन्तात् स्त्रियां टापि बीजरुहा इति सम्पद्यते। साक्षात्- प्रभृतिषु (१-४-७४) गणे बीजरुहा इति पाठादस्य कृञो योगे गतिसंज्ञा। ‘ते प्राग् धातोः’ (१-४-८०) इति धातोः पूर्वमस्य प्रयोगः। ‘कुगतिप्रादयः’ (२-२-१८) इति समासः। बीजरुहाकुर्वन् = केशाः छिन्नाः पुना रोहयन् इत्यर्थः। एवं प्राजरुहाकुर्वन् इत्यत्रापि बोध्यम्।]]
25 [[२। ‘हृपिशिरुहि--’ [द। उ। १-४७]
26 [[३। ‘हृसृरुहि--’ [द। उ। ६-३]
27 [[४। ‘रुहे रश्च लो वा’ [द। उ। ६-१३]
28 [[५। ‘रुहेर्वृद्धिश्च’ [द। उ। ९। ४]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
