| YouTube Channel

रुष (ruSa)

 
Wilson
English
रुष r. 1st cl. (रोषति)
4th cl. (रुष्यति) To hurt, to injure, to kill or attempt to kill. (इर्)
रुषिर r. 4th and 10th cls. (रुष्यति रोषयति) To be angry, to be
passionate or wrathful.
Apte Hindi
Hindi
रुष
वि* - रुष्+अच्
कड़वा
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रुष्
मूलधातुः:
रुष
धात्वर्थः:
हिंसायाम्
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
रोषति
अनुबन्धादिविशेषः:
तीषसहेति तासौ वेट्
धातुः:
रुष्
मूलधातुः:
रुष
धात्वर्थः:
रोषे
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
रुष्यति
धातुः:
रुष्
मूलधातुः:
रुष
धात्वर्थः:
रोषे
गणः:
चुरादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
रोषयति-ते
धातुप्रदीपः
Sanskrit
रुषँ रुष रोषे
- रुष्यति अरुषत् रोष्टा रोषिता रुषित्वा रोषित्वा रुष्ट्वा (27) रुषितः रुष्टः रुट् 124
रुषँ रुष रोषे
- रोषयति रुट इत्येके रोटयति 133
शब्दकल्पद्रुमः
Sanskrit
रुष, क्रुधि इति कविकल्पद्रुमः
(चुरा०-पर०-अक०-सेट् ।) क, रोषयति इति दुर्गा-दासः
रुष, ञि वधे इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) ञि, रुष्टः रुषितोऽस्ति रुरोष ।इति दुर्गादासः
रुष, इर् ञि क्रुधि इति कविकल्पद्रुमः
(दिवा०-पर०-अक०-सेट् ।) य, रुष्यति भृत्यायभूपालः इर्, अरुषत् अरोषीत् अस्मात्पुषादित्वान्नित्यं इत्यन्ये ञि, रुष्टः रुषितो-ऽस्ति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
रुष बधे
भ्वा०
पर०
सक०
सट् रोषति अरोषीत्
रुष क्रोधे दि०
पर०
अक० सेट् रुष्यति इरित् चरुषत् अरोषीत्
रुष क्रोधे
चु०
उभ०
अक० सेट् रोषयति ते अरूरुषत्
रुष(षा) स्त्री रुष--सम्प० क्विप् वा टाप् क्रोधे हेमच०
क्षीरतरङ्गिणी
Sanskrit
रुषँ रुष रोषे
- रुष्यति अरुषत् तीषुसहलुभरुषरिषः (तु0 7248) इति वेट्-रोष्टा रोषिता रुष्यमत्वर (7228) इति रुष्टः रुषितः भ्वादौ रुष हिंसायाम् (द्र0 1458)-रोषति 118
धातुवृत्तिः
Sanskrit
रुषँ रुष (अर्थः) रोषे
( देवदत्ताय रुष्यति ) "क्रुधद्रुह'' इति कोपाविषयस्संप्रदानम् रुरोष, स्ररोषिथ, रुरुषिव रोष्टा, रोषिता रोषिष्यति रुष्यतु अरुष्यत् रुष्येत्, रुष्यात् अरुषत् रुरुषिषति रुषित्वा, रोषित्वा, रुष्ट्व, ) "रलो व्युपधात्'' इति सेटः क्त्वासनोः कित्त्वविकल्ल्पः "तीषसह'' इति नादाविड्विकल्पः ( रुषितः, रुष्टः ) "रुष्यमत्वर'' इति निष्ठायामिड्विकल्पः भावादिकर्मणोर्निष्ठायास्सेटः "उदुपधात्'' इति कितत्त्वविकल्पो भौवादिकानामेवेति प्रागेवोक्तत्वादस्य भवति इह के चित् रिष हिंसायां चेति पठन्ति "नरिष्यति व्यथते' इत्यादयश्च प्रयोगा दृश्यन्ते आत्रेयमैत्रेयादयस्तु पेठुः 122
रुषँ रुष (अर्थः) रोषे
( रोषयति ) शपि रोषति हिंसायां श्यनि रुष्यति रोषे रुड् इत्येकइति मैत्रेये रक्षितः 136
कृदन्तरूपमाला
Sanskrit
1 {@“रुष हिंसार्थः”@} 2 ‘शपि रोषति हिंसायाम्, रोषे रुष्यति रोषयेत्।।’ 3 इति देवः।
रोषकः-षिका, रोषकः-षिका, रुरोषिषकः-रुरुषिषकः-षिका, रोरुषकः-षिका
4 रोषिता-रोष्टा 5 -ष्ट्री, रोषयिता-त्री, रुरोषिषिता-रुरुषिषिता-त्री, रोरुषिता-त्री
इत्यादीनि समस्तान्यपि रूपाणि भौवादिकरेषतिवत् 6 बोध्यानि।
7 रुष्टः- 8 रुषितः, 9 रुषितमनेन, रोषितं वा, 10 रोषणः, 11 गृध्ररोषं रोषति इतीमान्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४२८)
02
=>
(१-भ्वादिः-६९३। सक। सेट्। पर।)
03
=>
(श्लो। १७९)
04
=>
[[१। ‘तीषसहलुभरुषरिषः’ (७-२-४८) इति तकारादावार्धधातुके इड्विकल्पः। इडभाव- पक्षे ‘ष्टुना ष्टुः’ (८-४-४१) इति ष्टुत्वेन टकारः।]]
05
=>
[[आ। ‘रेष्टारं रेषितं व्यास्यत् रोष्टाऽक्षः शस्त्रसंहतीः।।’ भ। का। ९। ३१।]]
06
=>
(१४०८)
07
=>
[[२। ‘रुष्यमत्वरसंघुषास्वनाम्’ (७-२-२८) इतीड्विकल्पः। धातोरस्य तकारादावार्ध- धातुके इड्विकल्पस्य विधानात् ‘यस्य विभाषा’ (७-२-१५) इति निष्ठायामिण्निषेघे प्राप्ते इड्विकल्पविधानमिति बोध्यम्। अत्र ‘मतिबुद्धिपूजार्थेभ्यश्च’ (३-२-१२८) इत्यत्र चकारस्यानुक्तसमुच्चयार्थकत्वमाश्रित्य वर्तमाने कर्तरि क्तप्रत्ययः। न्यासे (७-२-२८) ‘रुष रोषे’ इत्यस्माण्निष्ठायामिड्विकल्पस्य प्रतिंपादनात्, तत्रोपयोगाभावात्, दैवादिकस्य रोषार्थकस्य अत्र सूत्रे (७-२-२८) ग्रहणं न्यास- कारसम्मतमिति प्रतिभाति।]]
08
=>
[[B। ‘जघान रुषितो रुष्टान् त्वरितस्तूर्णमागतान्।।’ भ। का। ९। २०।]]
09
=>
[[३। ‘उदुपधाद् भावादिकर्मणोरन्यतरस्याम्’ (१-२-२१) इति भावे आदिकर्मणि कित्त्वविकल्पोऽत्र।]]
10
=>
[[४। नन्द्यादेः (३-१-१३४) आकृतिगणत्वेन कर्तरि ल्युप्रत्ययोऽत्रेति ज्ञेयम्।]]
11
=>
[[५। ‘उपमाने कर्मणि च’ (३-४-४५) इति उपमानकर्तरि णमुल्। ‘कषादिषु--’ (३-४-४६) इति यथाविध्यनुप्रयोगः। गृध्र इव हिनस्तीत्यर्थः।]]
1 {@“रुष रोषे”@} 2 ‘--हिंसायाम्’ इति सिद्धान्तकौमुदीपाठः।
‘--जिहासायाम्’ इति केचित्।
‘शपि रोषति हिंसायाम्, रोषे रुष्यति रोषयेत्।।’ 3 इति देवः।
4 रोषकः-षिका, रोषकः-षिका, रुरोषिषकः-रुरुषिषकः-षिका, रोरुषकः-षिका
रोषिता-रोष्टा-रोष्ट्री, रोषयिता-त्री, रुरोषिषिता-रुरुषिषिता-त्री, रोरुषिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकरेषतिवत् 5 ज्ञेयानि।
शतरि 6 7 रुष्यन्-न्ती-ती, निष्ठायाम् 8 रुषितः-रुष्टः, रुषितमनेन, रुट्-रुड्- रुषौ-रुषः, 9 भीरुट्, इतीमान्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४२९)
02
=>
(४-दिवादिः-१२३०। अक। सेट्। पर।)
03
=>
(श्लो। १७९)
04
=>
[पृष्ठम्११३४+ २९]
05
=>
(१४०८)
06
=>
[देवदत्ताय]
07
=>
[[१। दिवादित्वात् शतरि श्यन्। ‘क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः’ (१-४-३७) इति कोपविषयस्य देवदत्तस्य सम्प्रदानसंज्ञायां ‘चतुर्थी सम्प्रदाने’ (२-३-१३) इति चतुर्थी।]]
08
=>
[[२। ‘रुष्यमत्वर--’ (७-२-२८) इति निष्ठायामिड्विकल्पः। तकारादावार्धधातुके, ‘तीषसहलुभरुषरिषः’ (७-२-४८) इति इड्विकल्पनात्, निष्ठायाम्, ‘यस्य विभाषा’ (७-२-१५) इति इट्प्रतिषेधे प्राप्तेऽनेनेड्विकल्पोऽत्रेति बोध्यम्।]]
09
=>
[[३। भियं रुष्यतीति भीरुट्छन्दोविशेषः। अत्र रथन्तरादिशब्देष्विवव्युत्पत्तिप्रदर्शनं कृतम्। नावयवार्थेऽभिनिवेशः कार्यः, संज्ञाशब्दत्वात्। ‘मा नानुभूः स्वकान् दोषान् मा मुहो मा रुषोऽधुना।।’ (भट्टिकाव्ये १५-१६) इत्यत्रास्य धातोः यद्यपि अकर्मकत्वं दृश्यते, तथापि अभिधानस्वाभाव्यादत्र सकर्मकत्वम्। यद्वा, भिया रुष्यतीति भीरुट् इत्यकर्मकव्युत्पत्तिरप्यत्रोपपन्नेत्यास्तां तावत्।]]
1 {@“रुष रोषे”@} 2 ‘रुट--’ इति क्षीरस्वामी।
‘शपि रोषति हिंसायाम्, रोषे रुष्यति रोषयेत्।।’ 3 इति देवः।
रोषकः-षिका, रुरोषयिषकः-षिका
रोषयिता-त्री, रुरोषयिषिता-त्री
इत्यादीनि समस्तान्यपि रूपाणि चौरादिकचोरयतिवत् 4 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१४३०)
02
=>
(१०-चुरादिः-१६७१। अक। सेट्। उभ।)
03
=>
(श्लो। १७९)
04
=>
(५४६)