| YouTube Channel

रुरूषिता-रिरावयिषिता-त्री (rurUSitA-rirAvayiSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रु शब्दे”@} 2 ‘-- रवते रौति शब्दने।।’ 3 इति देवः।
रावकः-विका, रावकः-विका, 4 रुरूषकः- 5 रिरावयिषकः-षिका, रोरूयकः-यिका
रविता-त्री, रावयिता-त्री, रुरूषिता-रिरावयिषिता-त्री, रोरूयिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि आदादिकक्ष्णौतिवत् 6 बोद्ध्यानि।
7 इति युच्प्रत्यये निष्पादितवान्।]] रवणः, 8 संरावः, 9 10 रवः, 11 रावः, 12 अल्परावः, मञ्जुरावः, 13 आरावः-आरवः, 14 मयूरः, 15 16 रुरूषुः, 17 ध्वाङ्क्षरावी, 18 मण्डूकरावी, 19 सांराविणम् 20, 21 रोरूयः 22 लोकरावणः, 23 रविः, 24 रुरुः, 25 पुरूरवाः इतीमान्यस्माद् भवन्ति।
प्रासङ्गिक्यः
01
=>
(१४१२)
02
=>
(२-अदादिः-१०३४। अक। सेट्। पर।)
03
=>
(श्लो। २३)
04
=>
[[४। धातोरस्य सेट्त्वेऽपि, ‘सनि ग्रहगुहोश्च’ (७-२-१२) इतीण्निषेधः। ‘इको झल्’ (१-२-९) इति झलादिसनः कित्त्वम्। ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। षत्वम्। एवं सन्नन्ते सर्वत्र प्रक्रियोह्या।]]
05
=>
[[५। ण्यन्तात् सनि, ‘ओः पुयण्ज्यपरे’ (७-४-८०) इति अभ्यासस्येकारः।]]
06
=>
(३२३)
07
=>
[[६। तच्छीलादिषु कर्तृषु, ‘चलनशब्दार्थादकर्मकात्--’ (३-२-१४८) इति युच्। णत्वम्। क्षीरस्वामी तु औणादिके ‘सुयुरुवृञो युच्’ [द। उ। ५-२०]
08
=>
[[७। ‘उपसर्गे रुवः’ (३-३-२२) इति घञ्। उवर्णान्तत्वप्रयुक्तापोऽपवादः।]]
09
=>
[[आ। ‘सजलाम्भोदसंरावं हनुमन्तं सहाङ्गदम्।’ भ। का। ७। ३५।]]
10
=>
[[८। अनुपसृष्टात् (शुद्धात्) ‘ऋदोरप्’ (३-३-५७) इति अप्प्रत्ययः।]]
11
=>
[[९। ‘बाहुलकाद् घञपि, इत्यात्रेयः। रावः।’ इति माधवधातुवृत्तिः। “-- ‘कृत्यल्युटो बहुलम्’ (३-३-११३) इत्यनेन घञबादयः। बहुलं व्यतिकीर्यन्ते मञ्जुरावादयस्तथा।।” इति प्रक्रियासर्वस्वश्लोक इहावधेयः।]]
12
=>
[[B। ‘केऽप्यल्परावं नुनुवुः खलेषु क्षुरक्ष्णुतात्मानममुं स्नुतास्त्राः।’ धा। का। २। ४७।]]
13
=>
[[१०। ‘विभाषाऽऽङि रुप्लुवोः’ (३-३-५०) इति घञ्विकल्पः। तेन पक्षेऽप्प्रत्ययः।]]
14
=>
[[११। मह्यां रौतीति मयूरः। ‘अन्येष्वपि दृश्यते’ (३-२-१०१) इति डप्रत्यये पृषोदरा- दिषु (६-३-१०९) पाठात् महीशब्दस्य ‘मयू’ इत्यादेशे रूपमेवम्।]]
15
=>
[पृष्ठम्११२४+ ३९]
16
=>
[[आ। ‘संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः।’ भ। का। ९। १४।]]
17
=>
[[१। ध्वाङ्क्ष इव रौतीति ध्वाङ्क्षरावी। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिः।]]
18
=>
[[B। ‘मण्डूकराविणं सर्पं गोमुखं मृगादिनम्।’ (सुभाषितनीवी)]]
19
=>
[[२। सम्पूर्वकादस्मात्, ‘अभिविधौ भाव इनुण्’ (३-३-४४) इति इनुण्प्रत्यये, ‘अण् इनुणः’ (५-४-१५) इति स्वार्थेऽण्प्रत्यये, ‘इन् अण्यनपत्ये’ (६-४-१६४) इति प्रकृतिभावे सांराविणम् इति भवति।]]
20
=>
[[C। ‘सांराविणं कर्तव्यं यावन्नायाति दर्शनम्।’ भ। का। ७। ४३।]]
21
=>
[[३। ‘उदन्तात् यङो लुङ् नेति केचित्।’ इति प्रक्रियाकौमुदी। तेनात्र यङन्तात् पचाद्यचि रूपमेवं तेषां मते। वस्तुतस्तु एवमङ्गीकरणे नियामकाभावात्, यङोऽनै- मित्तिकलुक एव भाष्यादिषु ‘यङोऽचि च’ (२-४-७४) इत्यत्राभ्युपगतत्वात् चिन्त्यमिदमिति रोरुवः इत्येव न्याय्यमिति बोध्यम्।]]
22
=>
[[४। लोकान् रावयतीति लोकरावणः। नन्द्यादित्वात् (३-१-१३४) ण्यन्तात् कर्तरि ल्युः। ‘रावणो लोकरावणः।’ इत्यादयः रामायणप्रयोगाः अत्रानु- सन्धेयाः।]]
23
=>
[[५। ‘इन्’ (द। उ। १। ४६) इतीन्प्रत्ययः। रौतीति, रूयते इति वा रविः = भानुः।]]
24
=>
[[६। ‘रुशातिभ्यां क्रुन्’ (द। उ। १। १५९) इति {??}न्प्रत्ययः। रुरुः = मृयः।]]
25
=>
[[७। ‘पुरूरवाः’ (द। उ। ९-९२) इत्यसिप्रत्यये निरूढः। पुरु रूयते स्वयशः सर्वत्रेति पुरूरवाः = राजविशेषः। पुरुशब्दस्य दीर्घोऽपि निपातनात्।]]