| YouTube Channel

रुधिराख्यं (rudhirAkhyaM)

 
शब्दकल्पद्रुमः
Sanskrit
रुधिराख्यं,
क्ली,
(रुधिरमिति आख्या यस्य ।)मणिभेदः यथा, --“हुतभुग्रूमादाय दानवस्य यथेप्सितम् ।नर्म्मदायां निचिक्षेप किञ्चिद्धीनादि भूतले
तत्रेन्द्रगोपकलितं शुकवक्त्रवर्णंसंस्थानतः प्रकटपीलुसमानमात्रम् ।नानाप्रकारविहितं रुधिराख्यरत्न-मुद्धृत्य तस्य खलु सर्व्व समानमेव
मध्येन्दुपाण्डरमतीवविशुद्धवर्णंतच्चेन्द्रनीलसदृशं पटलं तुले स्यात् ।सैश्वर्य्यभृत्यजननं कथितं तदेवपक्वञ्च तत् किल भवेत् सुरवज्रवर्णम्
”इति गारुडे ७८ अध्यायः