| YouTube Channel

रुधिरं (rudhiraM)

 
शब्दकल्पद्रुमः
Sanskrit
रुधिरं,
क्ली,
(रुणद्धि रुध्यते इति वा रुध +“इषिमदिमुदीति ।” उणा० ५२ इतिकिरच् ।) शरीरस्थरसभवधातुः तत्पर्य्यायः ।रक्तम् अस्रम् त्वग्जम् कीलालम् ५क्षतजम् शोणितम् लोहितम् असृक् ९शोणम् १० लोहम् ११ चर्म्मजम् १२ इतिराजनिर्घण्टः
(यथा, --“तद्विशुद्धं हि रुधिरं बलवर्णसुखायुषा ।युनक्ति प्राणिनं प्राणः शोणितं ह्यनुवर्त्तते
”“वलदोषप्रमाणाद्वा विशुद्ध्या रुधिरस्य वा ।रुधिरं स्रावयेज्जन्तोराशयं प्रसमीक्ष्य वा
”इति चरके सूत्रस्थाने चतुर्व्विंशेऽध्याये
“चतुर्व्विधं यदेतद्धि रुधिरस्य निवारणम् ।सन्धानं स्कन्दनञ्चैव पाचनं दहनन्तथा
वणं कषायः सन्धत्ते रक्तं स्कन्दयते हिमम् ।तथा सम्पाचयेद्भस्म दाहः सङ्कोचयेत् शिराः
अस्कन्दमाने रुधिरे सन्धानानि प्रयोजयेत् ।सन्धाने स्रस्यमाने तु पाचनैः समुपाचरेत्
कल्पैरेतैस्त्रिभिर्वैद्यः प्रयतेत यथाविधि ।असिद्धिमत्सु चैतेषु दाहः परम इष्यते
सशेयदोषे रुधिरे व्याधिरतिवर्त्तते ।सावशेवे ततः स्थेयं तु कुर्य्यादतिक्रमम्
देहस्य रुधिरं मूलं रुधिरेणैव धार्य्यते ।तस्माद्यत्नेन संरक्ष्यं रक्तं जीव इति स्थितिः
”इति सुश्रुते सूत्रस्थाने चतुर्द्दशेऽध्याये
रुधिरस्रावेऽनध्ययनमुक्तं यथा, मनौ १२२ ।“रुधिरे स्रुते गात्राच्छस्त्रेण परिक्षते ।सामध्वनावृग्यजुषी नाधीयीत कदाचन
”)कुङ्कुमम् इत्यमरः
(यथा, रघुः ११ २० ।“राममन्मथशरेण ताडितादुःसहेन हृदये निशाचरी ।गन्धवद्रुधिरचन्दनोक्षिताजीवितेशवसतिं जगाम सा
”)