| YouTube Channel

रुधिँर् (rudhi~r)

 
धातुप्रदीपः
Sanskrit
रुधिर् आवरणे
- रुणद्धि नित्यत्वाद् विकरणेन गुणो बाध्यते रुन्धे रुरोध रुरुधे रोत्स्यति रोत्स्यते अरुधत् अरौत्सीत् अरुद्ध समरुद्ध विक्रमः स्वयमेव 1
क्षीरतरङ्गिणी
Sanskrit
रुधिर् आवरणे
- (अर्थविवरणम्) आवरणं व्याप्तिः
इतः सप्तानिट उभयपदिनश्च रुधादिभ्यः श्नम् (3178)-रुणद्धि अनुस्वारीभूतो णत्वमतिक्रामति-रुन्द्धे, श्नसोरल्लोपः (64111) इरितो वा (3157)-अरुधत् अरौत्सीत्, अरुद्ध सिपि धातो रुर्वा (8274)-अरुणत् त्वम्, अरुणः रुधः(3164) इति कर्मकर्तरि चिण नास्ति- अरुद्ध गौः स्वयमेव रोद्धा संपृचादौ (द्र032142) अनुरोधी सप्तम्यां चोपपीडरुधकर्षः (3449)-व्रज उपरुध्य, व्रजपरोधं गाः पाययति इषितिमिमदि (द0 उ0 826 कपाठः) किरच्-रुधिरम् 1
धातुवृत्तिः
Sanskrit
रुधिर् (अर्थः) आवरणे
अयं द्विकर्मकः ( व्रजं गां रुणद्धि रुन्द्धः रुन्धन्ति रुणत्सि रुन्धः रुन्ध रुणध्मि रुन्ध्वः रुन्ध्मः ) "रुधादिभ्यः श्नम्'' इति शपोऽपवादः श्नम् नित्यत्वादयं गुणात्पूर्वम्भवति मित्त्वादचोन्त्यात्परः, शकारः श्नान्नलोप इति विशेषणार्थः "झषस्तथोः'' इति झषोऽनन्तरयोस्तथोर्धत्त्वे "झलां जश् झशि'' इति धातोर्दत्वं, रुन्ध इत्यादौ क्ङिति सार्वधातुके "श्नसोरल्लोप'' इत्यकारस्य लोपः "नश्चापदान्त'' इत्युनस्वारः परसवर्णः अल्लोपस्यानयोर्नस्थानिवत्त्वं, "नपदान्त'' इत्यादिना निषेधात् णत्वे तु कर्तव्ये परसवर्णस्य पूर्वत्रासिद्धत्वान्न तद्भवति चानुस्वारात्पूर्वं णत्वप्रसङ्गः तस्यासिद्धत्वात् ( रुणत्सि ) इत्यत्र "खरि च'' इति चर्त्वं, ( रुरोध रुरुधतुः रुरुधुः रुरोधिथ रुरुधिव ) क्रादिनियमादिट् ( रोद्धा रोत्स्यति रुणद्ध रुन्धात् रुन्धाम् रन्धन्तु रुणद्धि ) हेर्धित्वे जश्त्वम् ( रुन्धम् रुन्ध रुणधानि रुणधाव रुणधाम् अरुणत् अरुणद् अरुन्धाम् अरुन्धन् अरुणत् अरुणद् अरुणः अरुन्धम् अरुणधम् अरुन्ध्व अरुन्ध्म ) "हल्ङ्या'' दिना तिस्योर्लोपः जश्त्वे वा चर्त्वञ्च सिपि "दश्च'' इति वा रुत्वमपि (रुन्ध्यात् रुन्ध्याताम् रुन्ध्युः रुन्ध्याः रुन्ध्याम् रुन्ध्याव ) आशिषि (रुध्यात् रुध्यास्ताम्, ) लुङि "इरितो वा'' इति अङ्पक्षे ( अरुधत् अरुधताम् ) अन्यदा ( अरौत्सीत् अरौद्धाम् अरौत्सुः अरौत्सीः अरौद्धम् अरौद्ध अरौत्सम् अरौत्स्व अरौत्स्म रुन्धे रुन्धाते रुन्धते ) "आत्मनेपदेषु'' इत्यद्भावः ( रुन्त्से रुन्धाथे रुन्ध्वे रुन्ध्वहे रुरुधे रुरुधाते रुरुधिरे रुरुधिषे रुरुधिवहे रोद्धा रोत्स्यते रुन्धाम् रुन्धाताम् रुन्धताम् रुन्त्स्व रुणधै रुणधावहै अरुन्ध अरुन्धाताम् अरुन्धत अरुन्धाः अरुन्धि अरुन्ध्वहि रुन्धीत रुन्धीयाताम् रुन्धीथाः रुन्धीय रुन्धीवहि ) आशिषि ( रुत्सीष्ट रुत्सीयास्ताम् ) "लिङ्सिचौ'' इति कित्त्वम् ( अरुद्ध अरुत्साताम् अरुत्सत अरुद्धाः अरुत्सि अरुत्स्वहि ) कर्मकर्तरि ( रुद्ध्यते गौः स्वयमेव अरुद्ध गौः स्वयमेव ) इत्यत्र "न रुध'' इति चिणो निषेधः शुद्धे तु कर्मण्यरोधीति भवति ( रुरुत्सते रुरुत्सति "हलन्ताच्च'' इति सनः कित्त्वम् ( रोरुध्यते रोरोद्धि रोधयति अरूरुधत् ) अस्याप्रधाने कर्मणि लादयः ( अङ्गरोधी ) ग्रहादित्वाण्णिनिः, ( अनुरोधी ) "सम्पृचादिना" घिनुण्, ( प्रतिरोधी ) "भविष्यति गम्यादयः'' इति इन्नन्ता भविष्यदथ, ( व्रजउपरोधं, व्रजेन उपरोधं, ) "सप्तम्यां चोपपीडरुध'' इति सप्तम्यन्तं तृतीयान्ते चोपपदे णमुल्, "तृतीयाप्रभृतीनि'' इति समासविकल्पः केचिदुपशब्दस्य पीडयतिनैव सम्बन्धमाहुः भट्टिकारस्य तूपोपसर्गग्रहणमतन्त्रमिति प्रागेवोक्तम् ( रोधः ) असुन् ( रुधिरम् ) "इषिमदि'' इत्यादिना किरच् अनुरुध्यत इति श्यनि गतम् 1