| YouTube Channel

रुद्राक्षः (rudrAkSaH)

 
Apte Hindi
Hindi
रुद्राक्षः
पुं*
रुद्रः-अक्षः - एक प्रकार का वृक्ष
दे० लटक
Wordnet
Sanskrit
Synonyms:
रुद्राक्षः, तृणमेरुः, अमरः, पुष्पचामरः
noun
वृक्षविशेषः, स्वनामख्यातवृक्षः आयुर्वेदे अस्य वातकृमिशिरोर्तिभूतग्रहविषनाशित्वादि गुणाः प्रोक्ताः।
"यः नरः रुद्राक्षस्य बीजं भक्त्या धारयेत् सः शिवलोकम् अवाप्नुयात्"।
वैजयन्तीकोषः
Sanskrit
Word: रुद्राक्षः
Root: रुद्राक्ष
Gender: पुं
Number: all
अर्थः
Meaning(s):
Elaeocarpus ganitrus
Shloka(s):
3|3|79|1 पुत्रजीवे त्वक्षफलो रुद्राक्षे तु महामुनिः। (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|79|1 रुद्राक्षः (रुद्राक्ष) (पुं) Elaeocarpus ganitrus
3|3|79|1 महामुनिः (महामुनि) (पुं) Elaeocarpus ganitrus
Tamil Rudrākṣam
Related word(s):
शब्दकल्पद्रुमः
Sanskrit
रुद्राक्षः,
पुं,
स्वनामख्यातवृक्षः तत्पर्य्यायः तृण-मेरुः अमरः पुष्पचामरः इति शब्द-रत्नावली
तस्य फलपर्य्यायः शिवाक्षम् १सर्पाक्षम् भूतनाशनम् पावनम् नील-कण्ठाक्षम् हराक्षम् शिवप्रियम् ।अस्य गुणाः अम्लत्वम् उष्णत्वम् वात-कृमिशिरोऽर्त्तिभूतग्रहविषनाशित्वम् रुच्य-त्वञ्च इति राजनिर्घण्टः
शिवपूजायां अस्यमालाधारणमावश्यकम् यथा, लिङ्गपुराणे ।“विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।पूजितोऽपि महादेवो स्यात्तस्य फलप्रदः
”तस्योत्पत्तिर्यथा संवत्सरप्रदीपे ।“त्रिपुरस्य वधे काले रुद्रस्याक्ष्णोऽपतंस्तु ये ।अश्रुणो बिन्दवस्ते तु रुद्राक्षा अभवन् भुवि
”यद्यप्येकादिचतुर्द्दशमुखरुद्राक्षेषु मन्त्रफल-विशेषाः सन्ति तथापि सुलभत्वात् पञ्च-वक्त्रस्य फलमन्त्रावभिधीयेते यथा, स्कान्दे ।“पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।अगम्यागमनाच्चैव अभक्षस्य भक्षणात् ।मुच्यते सर्व्वपापेभ्यः पञ्चवक्त्रस्य धारणात्
हूं नमः इति प्रत्येकमष्टोत्तरशतं जप्ता शिवा-म्भसा प्रक्षाल्य धारणीयम् ।“विणा मन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवाः ।स याति नरकं घोरं यावदिन्द्राश्चतुर्द्दश
”इति तिथ्यादितत्त्वम्
*
तस्य धारणे आवश्यकत्वं यथा, संवत्सर-प्रदीपे ।“अरुद्राक्षधरो भूत्वा यद्यत् कर्म्म वैदिकम् ।करोति जपहोमादि तत् सर्व्वं निष्फलं भवेत्
”स्कान्दे ।“ध्यानधारणहीनोऽपि रुद्राक्षं धारयेद्बुधः ।सर्व्वपापविनिर्मुक्तः याति परमां गतिम्
”इत्येकादशीतत्त्वम्
अथ रुद्राक्षमाहात्म्यम् ।श्रीमहादेव उवाच ।“इदानीं देवदेवेशि ! मालानां धारणं शुभम् ।रुद्राक्षस्य माहात्म्यं वद मे परमेश्वरि !
श्रीदेव्युवाच ।“शिखायां हस्तयोः कण्ठे कर्णयोश्चापि योनरः ।रुद्राक्षं धारयेद्भक्त्या शिवलोकमवाप्तुयात्
नववक्त्रन्तु रुद्राक्षं धारयेद्वामबाहुना ।दक्षबाहौ तथा वत्स ! धारयेद्यतमानसः
शिखायां दशनं धार्य्यं कण्ठे पञ्चविंशतिम् ।कर्णयोः पञ्च संधृत्या हृदि चाष्टोत्तरं शतम्
नाभौ सप्त रुद्राक्षं धारणान्मोक्षभाग्भवेत् ।रुद्राक्षधारणादेव नरो देवत्वमाप्नुयात्
”शिखायां दशनं द्बात्रिंशत्परिमितम्
तथा ।“रुद्राक्षं धारयेन्नित्यं भद्राक्षञ्च सुरेश्वर ! ।रुद्राक्षस्य महाबाहो माहात्म्यं शृणु यत्नम्ः
एकवक्त्रः शिवः साक्षात् ब्रह्महत्यां व्यपोहति ।अवध्यत्वं प्रतिश्रोतो बह्निस्तम्भं करोति
द्विवक्त्रे हरगौरी स्यात् गोवधाद्यघनाशकृत् ।त्रिवक्त्रोऽग्निस्त्रिजन्मोत्थपापराशिं प्रणाशयेत्
तुलाराशिं यथा वह्निर्भस्मसात् कुरुते हर ! ।त्रिवक्त्रोऽपि चरुद्राक्षस्तथा दहति किल्विषम्
चतुर्व्वक्त्रस्तु धाता स्यात् नरहत्यां व्यपोहति ।पञ्चवक्त्रस्तु कालाग्निरगम्याभक्ष्यपापनुत्
षड्वक्त्रो यो गुहः साक्षात् गर्भहत्यां शमेदयम् ।सप्तवक्त्रो ह्यनन्तश्च स्वर्णस्तेयाघनुत् सदा
विनायकोऽष्टवक्त्रः स्यात् सर्व्वानृतविनाशकृत् ।भैरवो नववक्त्रः स्यात् शिवसायुज्यदायकः
दशवक्त्रः स्वयं विष्णुर्भूतप्रेतपिशाचहा ।एकादशमुखो रुद्रो नानायज्ञफलप्रदः
द्वादशास्यो भवेदर्कः सर्व्वतीर्थफलप्रदः ।त्रयोदशमुखः कामः सर्व्वकामफलप्रदः
चतुर्द्दशास्यः श्रीकण्ठो वंशोद्धारकरः स्मृतः ।यथोक्तन्तेऽपि रुद्राक्षे तथेन्द्राक्षे प्रकीर्त्तितम्
भद्राक्षेऽपि सुरश्रेष्ठ तद्गुणं प्ररिकीर्त्तितम्
”इति योगसारे परिच्छेदः
अपि ।“निश्छिद्राश्च सुपक्वाश्च रुद्राक्षा धारणे स्मृताः ।पञ्चामृतं पञ्चगव्यं स्नानकाले प्रयोजयेत्
रुद्राक्षस्य प्रतिष्ठायां मन्त्रं पञ्चाक्षरं तथा ।त्र्यम्बकादिकमन्त्रञ्च तथा तत्र प्रयोजयेत्
ओँ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।उर्व्वारुकमिव वन्धनान्मृत्योर्मुक्षीयमामृतात्
तथा ओँ हौं अघोरे हौं घोरे हूं घोरघोरतरेओँ ह्नैं ह्नीं श्रीं ऐं सर्व्वतः सर्व्वसर्व्वेभ्यो नमस्ते-ऽस्तु रुद्ररूपिणे हूं हूं ।अनेनापि मन्त्रेण रुद्राक्षस्य द्विजोत्तमः ।प्रतिष्ठां विधिवत् कुर्य्यात् ततोऽधिकफलं लभेत्
ततो यथा स्वमन्त्रेण धारयेद्भक्तिसंयुतः
एकादिचतुर्द्दशवक्त्राणां संस्कारे प्रत्येकं क्रमेणमन्त्रा यथा ओँ ओँ भृशं नमः ओँ ओँनमः ओँ ओँ नमः ओँ ओँ ह्नीं नमः ।४ ओँ हूं नमः ओँ हूं नमः ओँओँ हूं हूं नमः ओँ नमः हूं नमः ।९ ओँ हं नमः १० ओँ ह्नीं नमः ११ ओँह्नीं नमः १२ ओँ क्षां क्षौं नमः १३ ओँनमो नमः १४ ।“रुद्राक्षे देहसंस्थे तु कुक्कुरो म्रियते यदि ।सोऽपि रुद्रपदं याति किं पुनर्मानवा गुह
सप्तविंशतिरुद्राक्षमालया देहसंस्थया ।यः करोति नरः पुण्यं सर्व्वं कोटिगुणं भवेत्
यो ददाति द्बिजातिभ्यो रुद्राक्षं भुवि षण्मुख ।तस्य प्रीतो भवेद्रुद्रः स्वपदञ्च प्रयच्छति
विना मन्त्रेण यो धत्ते रुद्राक्षं भुवि मानवः ।स याति नरकान् घोरान् यावदिन्द्राश्चतुर्द्दश
”इति पद्मपुराणे रुद्राक्षमाहात्म्यम् इतितन्त्रसारः