| YouTube Channel

रुद्रसर्ग (rudrasarga)

 
Monier Williams Cologne
English
रुद्र—सर्ग
m.
R°'s creation,
VarP.
the cr° of the 11 R°,
Cat.
शब्दकल्पद्रुमः
Sanskrit
रुद्रसर्गः,
पुं,
(रुद्रकृतः सर्गः ।) रुद्रकर्त्तृकसृष्टिः ।यथा, --“इदानीं रुद्रसर्गं त्वं शृणु पार्थिवसत्तम ! ।दशवर्षसहस्राणि तपश्चीर्त्वा महाजले
प्रतिबुद्धो यदा रुद्रस्तदा चोर्वीं सकाननाम् ।दृष्ट्वा शस्यवतीं रम्यां मनुष्यपशुसंकुलाम्
शुश्राव तदा शब्दानृत्विजां दक्षसद्मनि ।आश्रमे यज्विनाञ्चोच्चैर्योगस्थैरिति कीर्त्तितान्
ततः श्रुत्वा महातेजाः सर्व्वज्ञः परमेश्वरः ।चुकोप सुभृशं देवो वाक्यञ्चेदमुवाच
अहं पूर्व्वन्तु कविना सृष्टः सर्व्वात्मना विभुः ।प्रजाः सृजस्वेति तदा वाक्यमेतत्तथोक्तवान्
इदानीं केन तत् कर्म्म कृतं सृष्ट्यादिवर्णनम् ।एवमुक्त्वा भृशं कोपान्ननाद परमेश्वरः
तस्य ता नदतो ज्वालाः श्रोत्रेभ्यो निर्ययुस्तदा ।तत्र भूतानि वेताला उच्छ्रुष्माः प्रेतपूतनाः
कुष्माण्डा यातुधानाश्च सर्व्वे प्रज्वलिताननाः ।उत्तस्थुः कोटिशस्तत्र नानाप्रहरणावृताः
”इति वराहपुराणम्