| YouTube Channel

रुद्रवीणा (rudravINA)

 
Monier Williams Cologne
English
रुद्र—वीणा
f.
a kind of lute,
Saṃgīt.
Apte Hindi
Hindi
रुद्रवीणा
स्त्री*
रुद्र-वीणा -
एक प्रकार की वीणा
शब्दकल्पद्रुमः
Sanskrit
रुद्रवीणा,
स्त्री,
(रुद्रस्य वीणा ।) वीणाभेदः ।यथा, --“दण्डः स्याद्रुद्रवीणाया मुष्ट्येकादशसम्मितः ।भ्रमदङ्गुष्ठाग्रमितं शुषिरं तस्य कीर्त्तितम्
दण्डस्योभयतो ज्ञेयं कांस्यसंवरकद्वयम् ।पश्चात् संवरकञ्चात्र छत्रीकृतशिरो भवेत्
दण्डस्य वेष्टनं सार्द्धं पञ्चाङ्गुलमिवोदितम् ।तन्मिता लखरी तस्याः कर्त्तव्या सुन्दराकृतिः
ककुभो रुद्रवीणायास्त्रिशिराः परिकीर्त्तितः ।ऊर्द्ध्वे शिरसि दातव्या लोहपत्री समन्विता
मूलतन्त्री तदुपरि तस्या लौही ततः परम् ।दक्षिणे शिरसि न्यस्येत् श्रुतितन्त्रीद्बयं क्रमात्
एवन्तु ककुभं तत्र वीणादण्डे निवेशयेत् ।द्ब्यङ्गुलोच्चमूर्द्ध्वशिरोऽङ्गुष्ठमात्रन्तु पार्श्वकम्
सप्ताङ्गुलान्तरं तस्मात्तन्मूलञ्च निवेशयेत् ।अन्यं ततश्चतुस्त्रिंशदङ्गुलान्तरमाक्षिपेत्
अष्टादशाङ्गुलमुखं चक्र वै चारुगर्भकम् ।दण्डं समुन्नतं कान्तं वर्त्तुलं तुम्बयुग्मकम्
औन्नत्ये किञ्चिदाधिक्यमलयश्च प्रशस्यते ।अर्द्धाङ्गुलान्तरं पश्चात्तुम्बरं स्थापयेद्बुधः
दण्डपृष्ठ रन्ध्रमेकं स्थापयेच्च समन्ततः ।लोहाङ्कुशन्तु कर्त्तव्यं वर्त्तुलं पङ्कजाकृति
तद्बन्धनं गुणं तस्मिन् वेष्टबन्धे निवेशयेत् ।एतत्परायां मोटिन्यां वेष्टरन्ध्राङ्कुशं क्षिपेत्
तन्मोटनीवृत्तरन्ध्रसदृशं दण्डरन्ध्रकम् ।सुयन्त्रिते तु तत्रैव बध्नीयान्मुख्यतन्त्रिकाम्
तावच्च भ्रामयेत् पूर्व्वां मोटनीञ्च शनैः शनैः ।न यावदेति स्वस्थानं तन्त्री यन्त्रविशारदः
अस्यास्त्वष्टादश प्रोक्ताः शारिकाः पूर्व्वसूरिभिः ।तासां बृहत्तरा अष्टौ दश क्षुद्राः प्रकीर्त्तिताः
एतास्तु तारवादिन्यस्तिष्ठन्ति पदिकोपरि ।वितस्तिमात्रपदिकाङ्गुष्ठोच्चाप्यस्य गर्भकः
तावत् शून्यस्तु कर्त्तव्यो यथा दण्डे स्थिरो भवेत् ।मदनस्य सिक्थस्य योगेन सुदृढीकृता
बृहतीनाञ्च शारीणां स्वननोऽयं तलक्रमात् ।एतास्तु सर्व्वावयवैः कथितास्त्र्यङ्गुला बुधैः
स्थाप्य दण्डस्य ताः पृष्ठे यथारागस्वरं पुनः ।मदनस्य सिक्थस्य योगेन सुदृढीकृताः
सर्व्वासां लोहकलिका मस्तके स्युः सुयन्त्रिताः ।एकाङ्गुलोच्चाः क्षुद्राः स्युरिति शारीविनिर्णयः
एवं विनिर्म्मिता रुद्रवीणा जनमनोहरा ।अस्यां शिक्षा तु कर्त्तव्या दाक्षिणात्योपदेशतः
”इति सङ्गीतनारायणः