| YouTube Channel

रुद्रविंशति (rudraviMzati)

 
Monier Williams Cologne
English
रुद्र—विंशति
f.
N.
of the last 20 years in the Jupiter cycle of 60 y°,
L.
Shabdartha Kaustubha
Kannada
रुद्रविंशति
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪ್ರಭವ ವಿಭವ ಮೊದಲಾದ ಅರವತ್ತು ಸಂವತ್ಸರಗಳಲ್ಲಿ ಮೂರನೆಯ ಇಪ್ಪತ್ತು ಸಂವತ್ಸರಗಳು
विस्तारः - > ಮೊದಲನೆಯ ಇಪ್ಪತ್ತು ಸಂವತ್ಸರಗಳು ಬ್ರಹ್ಮದೇವತಾಕವಾದುವು. ಎರಡನೆಯ ಇಪ್ಪತ್ತು ಸಂವತ್ಸರಗಳು ವಿಷ್ಣುದೇವತಾಕವಾದುವು. ಮೂರನೆಯ ಇಪ್ಪತ್ತು ಸಂವತ್ಸರಗಳು ರುದ್ರದೇವತಾಕವಾದುವು. "आद्या तु विंशतिर्ब्राह्मी द्वितीया वैष्णवी स्मृता तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत् ॥"
शब्दकल्पद्रुमः
Sanskrit
रुद्रविंशतिः,
स्त्री,
(रुद्रदेवताका विंशतिः ।) प्रभ-वादिषष्टिवर्षान्तर्गतशेषविंशतिवर्षाणि तेषांनामानि फलानि यथा, --“आद्या तु विंशतिर्ब्राह्मी द्बितीया वैष्णवीस्मृता ।तृतीया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत्
तृणधान्यानि पीड्यन्ते ग्रीष्मे वर्षति वासवः ।प्लवङ्गे पीडिताः सर्व्वाः प्रजाश्च सुरवन्दिते
जायन्ते सर्व्वशस्यानि सुभिक्षं निरुपद्रवम् ।सौम्यदृष्टिर्भवेद्राजा कालिके शुभं वदेत्
सुभिक्षं क्षेममारोग्यं सुखञ्च निरुपद्रवम् ।सौम्यदृष्टिर्भवेद्राजा सौम्ये सौख्यं प्रकीर्त्तितम्
तोयपूर्णो भवेन्मेघो वर्षते दिने दिने ।निरुपद्रवाश्च राजानः सर्व्वसाधारणे प्रिये
वासवो वर्षते देवि देशे चाखण्डमण्डले ।अहिच्छत्रे कान्यकुब्जे विरोधी कृषिनाशकृत्
अभिभूतं जगत् सर्व्वं क्लेशैर्ब्बहुविधैः प्रिये ।मारुतैः फलदाहैश्च परिवारिणि शोभने
निष्पत्तिः सर्व्वशस्यानां सुभिक्षं भवति प्रिये ।प्रमाथिनि जलोद्गारी जलदो मोदते प्रजा
निष्पत्तिः सर्व्वशस्यानां सर्व्वशस्यमहार्घता ।घृतं तैलसमं याति आनन्दे नन्दिनी प्रजा
कोद्रवाः शालिमुद्गाश्च पीड्यन्ते वरवर्णिनि ।सर्व्वौषधानि धान्यानि राक्षसे निष्ठुरा प्रजा
दुर्भिक्षं जायते घोरं धान्यौषधिप्रपीडनम् ।अनले समाख्यातं नात्र कार्य्या विचारणा
१०
देशभङ्गोऽथ दुर्भिक्षं समासात् कथयाम्यहम् ।पिङ्गले चारुपद्माक्षि दुर्भिक्षं नर्म्मदातटे
११
गोमहिष्यो विनश्यन्ति ये चान्ये नटनर्त्तकाः ।वासवो वर्षते देवि शस्यञ्च नहि जायते
तिलसर्षपमाषादिकार्पासानां महार्घता ।गोमहिष्यः सुवर्णानि कांस्यताम्राद्यशेषतः
तत् सर्व्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः ।तेन धान्येन लोकोऽयं निस्तरिष्यति दुर्द्दिनम् ।पार्थिवा मोषका दीनाः कामयुक्ते प्रपी-डिताः
१२
तोयपूर्णाः स्मृता मेघा बहुशस्या मेदिनी ।निष्ठुराः पार्थिवा देवि सिद्धार्थे वरानने
१३
अल्पतोया घनाश्चैव कीटकाः प्रबलाः स्मृताः ।विरुद्धाः पार्थिवा देवि रौद्रे वर्षे वरानने
१४
दुर्भिक्षं मध्यमं प्रोक्तं व्यवहारो वर्त्तते ।भवेद्वै मध्यमा वृष्टिर्दुर्म्मतौ समुपस्थिते
१५
सुभिक्षं जायते लोकः सर्व्वोपद्रववर्जितः ।प्राणिनां जायते हर्षो दुन्दुभौ वरवर्णिनि
१६
महिषीगोहिरण्यादिताम्रकांस्याद्यशेषतः ।तत् सर्व्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः
रक्ते संवत्सरे देवि क्रूरबुद्धिर्नराधिपः ।मानवाः क्रूरचेष्टाश्च संग्रामे जयो भवेत्
१७
दुर्भिक्षं मरणं रोगो धान्यौषधिनिपीडनम् ।पापरोगो भवेद्देवि रक्ताख्येऽमरवन्दिते
१८
रोगो मरणदुर्भिक्षं विविधोपद्रवाकुलम् ।क्रोधे तु विषमं सर्व्वं समाख्यातं हरप्रिये
१९
मेदिनी चलते देवि सर्व्वभूतं चराचरम् ।देशभङ्गश्च दुर्भिक्षं क्षये संक्षीयते प्रजा
सौराष्ट्रे मालवे देशे दक्षिणे कोङ्कणे तथा ।दुर्भिक्षं जायते घोरं क्षये संवत्सरे प्रिये
कौमुदीचर्म्मनद्योश्च यमुनानर्म्मदातटे ।बिन्ध्यायां सैन्धवे चैव विनश्यति संशयः
सिंहलो मरुदेशश्च कालञ्जरं तथैव ।क्षये क्षयन्ति सर्व्वाणि नान्यथा वरवर्णिनि
२०इति ज्योतिस्तत्त्वम्
वाचस्पत्यम्
Sanskrit
रुद्रविंशति स्त्री रुद्रस्वामिका विंशतिः प्रभवादिष षष्टिवत्-सरेषु अन्तिमेषु विशतिवर्षेषु प्रभवादिशब्दे ४४७३ पृ०दृश्यम्