| YouTube Channel

रुद्रचण्डी (rudracaNDI)

 
Monier Williams Cologne
English
रुद्र—चण्डी
f.
a form of Durgā,
Cat.
N.
of a section in the Rudra-yāmala and of a Stotra.
Aufrecht Catalogus Catalogorum
English
रुद्रचण्डी stotra. Rādh 28. 45. Proceed. ASB 1869, 223.
शब्दकल्पद्रुमः
Sanskrit
रुद्रचण्डी,
स्त्री,
(रुद्रा चण्डी ।) रुद्रयामलोक्त-देवीमाहात्म्यम् यथा “अस्य चण्डिका-महामन्त्रस्य महारुद्र ऋषिरनुष्टुप् छन्द-श्चण्डिका देवता रुद्रचण्डीजपे विनियोगः ओँनमश्चण्डिकायै ।श्रीशङ्कर उवाच ।चण्डिकां हृदंये न्यस्य स्मरणं यः करोत्यपि ।अनन्तफलमाप्नोति देवि चण्डीप्रसादतः
रविवारे यदा चण्डीं पठेदागमसम्मताम् ।नवावृत्तिफलं तस्य जायते नात्र संशयः
सोमवारे यदा चण्डीं पठेद्यस्तु समाहितः ।सहस्रावृत्तिपाटस्य फलं जानीहि सुव्रते
कुजवारे जगद्धात्रि पठेद्यामलसम्मताम् ।शतावृत्तिफलं तस्य बुधे लक्षफलं भवेत्
गुरौ यदि महामाये लक्षयुग्मफलं ध्रुवम् ।शुक्रे देवि जगद्धात्रि चण्डीपाठेन शङ्करि
ज्ञेयं तुल्यफलं दुर्गे यदि चण्डीं समाहितः ।शनिवारे जगद्धात्रि कोट्यावृत्तिफलं ध्रुवम्
अतएव जगद्धात्रीं यश्च चण्डीं समभ्यसेत् ।स धन्यश्च कृतार्थश्च राजराजाधिपो भवेत्
आरोग्यं विजयं सौख्यं वस्त्ररत्नप्रवालकम् ।पठनाच्छ्रवणाच्चैव जायते नात्र संशयः
धनं धान्यं प्रवालञ्च वस्त्ररत्नविभूषितम् ।चण्डीस्मरणमात्रेण कुर्य्यात् सर्व्वं महेश्वरि
ओँ घोरचण्डी महाचण्डी चण्डमुण्डविखण्डिनी ।चण्डवक्त्रा महामाया महादेवविभूषिता
चतुर्वक्त्रा इत्यपि पाठः ।रक्तदन्ता वरारोहा महासुरविमर्द्दिनी ।तारिणी जननी दुर्गा चण्डिका चण्डविक्रमा
गुह्यकाली जगद्धात्री चण्डी यामलोद्भवा ।श्मशानवासिनी देवी घोरचण्डी भयानका
शिवा घोरा रुद्रचण्डी महेशगणभूषिता ।जाह्नवी परमा कृष्णा महात्रिपुरसुन्दरी
विद्या श्रीपरमा विद्या चण्डी वैरमर्द्दिनी ।दुर्गे दुर्गा शिवा घोरा चण्डहन्त्री प्रचण्डिका
महेशी वगला देवी भैरवी चण्डविक्रमा ।प्रमथैर्भूषिता कृष्णा चामुण्डा मुण्डमर्द्दिनी
रणघण्टा चण्डघण्टा रणरामवरप्रदा ।तारिणी भद्रकाली शिवा घोरा भयानका
विष्णुप्रिया महामाया नन्दगोपगृहोद्भवा ।मङ्गला जननी चण्डी महाक्रुद्धा भयङ्करी
विमला भैरवी निद्रा जातिरूपा मनोहरा ।तृष्णा निद्रा क्षुधा माया शक्तिरूपा मनोहरा
तस्यै देव्यै नमस्तस्यै सर्व्वरूपेण संस्थिता ।प्राणप्रिया जातिमाया निद्रारूपा महेश्वरी
या देवी सर्व्वभूतेषु सर्व्वरूपेण संस्थिता ।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः
एतां चण्डीं जगद्धात्रीं ब्राह्मणस्तु सदा पठेत् ।नान्यस्तु पाठको देवी पठने ब्रह्महा भवेत्
नारदः पाठकश्चैव कैलासे रत्नभूषिते ।वैकुण्ठे ब्रह्मलोके देवराजपुरे शिवे
यः शृणोति धरायाञ्च मुच्यते सर्व्वपातकैः ।ब्रह्महत्या गोहत्या स्त्रीवधोद्भवपातकम्
तत् सर्व्वं पातकं दुर्गे मातुर्गमनपातकम् ।श्वश्रूगमनपापञ्च यत् कन्यागमपातकम्
सुतस्त्रीगमनञ्चैव यत् यत् पापं प्रजायते ।परदारकृतं पापं तत्क्षणादेव नश्यति
जन्मजन्मान्तरात् पापात् गुरुहत्यादिपातकात् ।मुच्यते मुच्यते देवि गुरुपत्नीषु सङ्गमात्
मनसा वचसा पापं यत् पापं ब्रह्महिंसने ।मिथ्यायाञ्चैव यत् पापं तत् पापं नश्यति क्षणात्
श्रवणं पठनञ्चैव यः करोति धरातले ।स धन्यश्च कृतार्थश्च राजराजाधिपो भवेत्
यः करिष्यत्यवज्ञां वै रुद्रयामलचण्डिकाम् ।पापैरेतैः समायुक्तो रौरवं नरकं व्रजेत्
अश्रद्धां ये प्रकुर्व्वन्ति ते पातकिनो नराः ।रौरवं रक्तकुण्डञ्च कृमिकुण्डं मलस्य वै
शुक्रस्य कुण्डं स्त्रीरक्तं यान्ति तेऽप्यचिरेण वै ।ततः पितृगणैः सार्द्धं बिष्ठायां जायते कृमिः
शृणु देवि महामाये पठेत् चण्डीं शृणोत्यपि ।गयायाञ्चैव यत् पुण्यं काश्यां विश्वेश्वराग्रतः
प्रयागे मुण्डनञ्चैव हरिद्वारे हरेर्गृहे ।तुल्यं पुण्यं भवेद्देवि सत्यं दुर्गे शिवे रमे
त्रिगयायां त्रिकाश्यां वै यच्च पुण्यं शृणु प्रिये ।तच्च पुण्यं तच्च पुण्यं तच्च पुण्यं संशयः
भवानी भवानी भवानीत्युच्यते बुधैः ।भकारस्तु भकारस्तु भकारः केवलः शिवः
वानी चैव जगद्धात्री वरारोहे भकारकः ।प्रेतवद्देवि विश्वेशि भकारः प्रेतवत् सदा
आरोग्यञ्च जयं दुःखनाशनं सुखवर्द्धनम् ।धनं पुत्त्रं जयारोग्यं कुष्ठं गलितनाशकम्
अर्द्धाङ्गरोगान्मुच्येत दद्रुरोगाद्धि पार्व्वति ।सत्यं सत्यं जगद्धात्रि महामाये शिवे रमे
चण्डे चण्डे महाघोरे चण्डिके व्याधिनाशिनि ।मन्दे दिने महेशानि विशेषफलदांयिनी
सर्व्वदुःखात् प्रमुच्येत भक्त्या चण्डीं शृणोति यः ।ब्राह्मणो हितकारी पठेन्नियतमानसः
मङ्गलं मङ्गलं ज्ञेयं मङ्गलं जयमङ्गलम् ।भवेद्धि पुत्त्रपौत्त्रादिकन्यादासादिभिर्युतः
तत्त्वज्ञानञ्च निधने काले निर्व्वाणमाप्नुयात् ।महादानोद्भवं पुण्यं तुलाहिरण्यके यथा
चण्डीश्रवणमात्रेण पठनाद्ब्राह्मणोऽपि सः ।निर्व्वाणमेति देवेशि महास्वस्त्ययनं हि तत्
सर्व्वत्र विजयं याति श्रवणाद्ग्रहदोषतः ।मुच्यते सर्व्वपापेभ्यो राजराजाधिपो भवेत्
महाचण्डी शिवा घोरा भयानकवरप्रदा ।काली कमला विद्या महोरगविमर्द्दिनी
गुह्यचण्डी घोरचण्डी चण्डी त्रैलोक्यदुर्लभा ।देवानां दुर्लभा चण्डी रुद्रयामलसम्भवा
अप्रकाश्या महादेवप्रिया रावणमर्दिनी ।मत्स्यप्रिया मांसरता मत्स्यमांसबलिप्रिया
मदमत्ता सदा नित्या भूतप्रमथसङ्गता ।मध्यभागा महारामा धान्यदा धनरत्नदा
वस्त्रदा मणिदा राज्यप्रदा विषयवर्द्धिका ।मुक्तिदा सर्व्वदा चण्डी महाविपदनाशिनी
इमाञ्च चण्डीं पठते मनुष्यःशृणोति भक्त्या परमां शिवस्य ।चण्डीं धरण्यामतिपुण्ययुक्तःपटेच्च गच्छेद्धरमन्दिरं शुभम्
यद्यन्मनोरथान् दुर्गे करोति धरणीतले ।रुद्रचण्डीप्रसादेन किं सिध्यति भूतले
रुद्रध्येया रुद्ररूपा रुद्राणी रुद्रवल्लभा ।रुद्रभक्ता रुद्ररूपा रुद्रभूषासमन्विता
शिवचण्डी महारक्ता शिवप्रीतिगणान्विता ।भैरवी परमा विद्या महाविद्या षोडशी
सुन्दरी परमा विद्या महात्रिपुरसुन्दरी ।गुह्यकाली भद्रकाली महाकालविमर्द्दिनी
कृष्णा कृष्णस्वरूपा सा जननी मोहकारिणी ।अतितन्द्रा महालज्जा सर्व्वमङ्गलदायिनी
घोरचण्डी भीमरूपा भीमा देवी मनोहरा ।वगला वगला सिद्धिदायिका सर्व्वदा शिवा
स्मृतिरूपा कीर्त्तिरूपा बुद्धिरूपा मनोहरा ।विष्णुप्रिया शक्रपूज्या योगेन्द्रैरपि सेविता
भयानका महासूक्ष्मा देवी भयविनाशिनी ।चण्डिका शक्तिहस्ता कौमारी सर्व्वकामदा
वाराही वराहस्य इन्द्राणी शक्रपूजिता ।माहेश्वरी महेशस्य महेशगणभूषिता
चामुण्डा नारसिंही नृसिंहशत्रुनाशिनी ।सर्व्वशत्रुप्रशमनी सर्व्वारोग्यप्रदायिनी
नैव दुःखं भयं किञ्चित् पठनात् श्रवणाज्जनः ।इति सत्यं महेशानि सत्यं सत्यं वदाम्यहम्
नेव शोकं नैव रोगं नैव दुःखं भयन्तथा ।आरोग्यं मङ्गलं नित्यं करोति शुभमङ्गलम्
महेशानि वरारोहे ब्रवीमि सत्यमुत्तमम् ।अभक्ताय दातव्यं मम प्राणाधिकं शुभम्
मम भक्ताय शान्ताय शिवविष्णुप्रियाय ।दद्यात् कदाचिद्देवेशि सत्यं सत्यं संशयः
अनन्तफलमाप्नोति शिवचण्डीप्रसादतः ।अश्वमेधवाजपेयराजसूयशतेन वै ।तृप्ताः स्युः पितरो देवास्तथा सर्व्वदेवताः
दुर्गे त्वां मृण्मयीज्ञानं रुद्रयामलपुस्तकम् ।मन्त्रमक्षरसंज्ञानं यः करोति नराधमः
अतएव महेशानि किं वक्ष्ये तव सन्निधौ
लम्बोदराधिकश्चण्डीपठनाच्छ्रवणात् जनः ।तत्त्वमसीति वाक्येन मुक्तिमाप्नोति दुर्लभाम्
”इति श्रीरुद्रयामले हरगौरीसंवादे रुद्रयामल-चण्डी समाप्ता
वाचस्पत्यम्
Sanskrit
रुद्रचण्डी स्त्री रुद्रयामलोक्ते देवीमाहात्मप्रतिपापकग्रन्थे