| YouTube Channel

रुद्रः (rudraH)

 
Hindi
Hindi
नष्ट भगवान
Apte Hindi
Hindi
रुद्रः
पुं*
- -
"देवसमूह विशेष, (गिनति में ग्यरह), ऐसा माना जाता है कि शंकर या शिव के ही यह अपकृष्ट रूप हैं, शिव स्वयं इस समूह के मुखिया हैं"
रुद्रः
पुं*
- - शिव का नाम
यहाँ भाष्यकार 'लटभ' का अर्थ 'सलावण्य' करते हैं
रुद्रः
पुं*
- रुद्+रक्
"ग्यारह देवगण, जो शिव का ही अपकृष्ट रुप है, शिव उनमें मुख्य है"
रुद्रः
पुं*
- रुद्+रक्
अग्नि
रुद्रः
पुं*
- रुद्+रक्
ग्यारह की संख्या
रुद्रः
पुं*
- रुद्+रक्
यजुर्वेद का सूक्त जिसमें रुद्र को संबोधित किया गया है
Wordnet
Sanskrit
Synonyms:
रुद्रः
noun
प्राचीनं वाद्यम्।
"अधुना रुद्रः लुप्तप्रायः एव।"
Synonyms:
रुद्रः
noun
विश्वकर्मणः पुत्रः।
"रुद्रस्य वर्णनं प्राचीनग्रन्थेषु वर्तते।"
Synonyms:
एकादशम्, रुद्रः, दुर्योधनसेनापतिः, कालः
noun
एकाधिका दश सङ्ख्या।
"सप्ताधिकं चत्वारि एकादशं भवति।"
Synonyms:
शिवः, शम्भुः, ईशः, पशुपतिः, पिनाकपाणिः, शूली, महेश्वरः, ईश्वरः, सर्वः, ईशानः, शङ्करः, चन्द्रशेखरः, फणधरधरः, कैलासनिकेतनः, हिमाद्रितनयापतिः, भूतेशः, खण्डपरशुः, गिरीशः, गिरिशः, मृडः, मृत्यञ्जयः, कृत्तिवासाः, पिनाकी, प्रथमाधिपः, उग्रः, कपर्दी, श्रीकण्ठः, शितिकण्ठः, कपालभृत्, वामदेवः, महादेवः, विरूपाक्षः, त्रिलोचनः, कृशानुरेताः, सर्वज्ञः, धूर्जटिः, नीललोहितः, हरः, स्मरहरः, भर्गः, त्र्यम्बकः, त्रिपुरान्तकः, गङ्गाधरः, अन्धकरिपुः, क्रतुध्वंसी, वृषध्वजः, व्योमकेशः, भवः, भौमः, स्थाणुः, रुद्रः, उमापतिः, वृषपर्वा, रेरिहाणः, भगाली, पाशुचन्दनः, दिगम्बरः, अट्टहासः, कालञ्जरः, पुरहिट्, वृषाकपिः, महाकालः, वराकः, नन्दिवर्धनः, हीरः, वीरः, खरुः, भूरिः, कटप्रूः, भैरवः, ध्रुवः, शिविपिष्टः, गुडाकेशः, देवदेवः, महानटः, तीव्रः, खण्डपर्शुः, पञ्चाननः, कण्ठेकालः, भरुः, भीरुः, भीषणः, कङ्कालमाली, जटाधरः, व्योमदेवः, सिद्धदेवः, धरणीश्वरः, विश्वेशः, जयन्तः, हररूपः, सन्ध्यानाटी, सुप्रसादः, चन्द्रापीडः, शूलधरः, वृषाङ्गः, वृषभध्वजः, भूतनाथः, शिपिविष्टः, वरेश्वरः, विश्वेश्वरः, विश्वनाथः, काशीनाथः, कुलेश्वरः, अस्थिमाली, विशालाक्षः, हिण्डी, प्रियतमः, विषमाक्षः, भद्रः, ऊर्द्धरेता, यमान्तकः, नन्दीश्वरः, अष्टमूर्तिः, अर्घीशः, खेचरः, भृङ्गीशः, अर्धनारीशः, रसनायकः, उः, हरिः, अभीरुः, अमृतः, अशनिः, आनन्दभैरवः, कलिः, पृषदश्वः, कालः, कालञ्जरः, कुशलः, कोलः, कौशिकः, क्षान्तः, गणेशः, गोपालः, घोषः, चण्डः, जगदीशः, जटाधरः, जटिलः, जयन्तः, रक्तः, वारः, विलोहितः, सुदर्शनः, वृषाणकः, शर्वः, सतीर्थः, सुब्रह्मण्यः
noun
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
"शिवस्य अर्चना लिङ्गरूपेण प्रचलिता अस्ति।"
Tamil
Tamil
ருத்3ர: : ருத்திரன், சிவன், நெருப்பு, என் 11
शब्दकल्पद्रुमः
Sanskrit
रुद्रः,
पुं,
(रोदयतीति रुद् + णिच् + “रोदेर्णिलुक् ।” उणा० २२ इति रक् णेश्चलुक् ।) आदित्यपत्रवृक्षः इति राजनिर्घण्टः
शिवः (यथा, महाभारते १३ १७ ४६ ।“त्रिजटश्चीरवासाश्च रुद्रः सेनापतिर्व्विभुः
”)गणदेवताविशेषः इत्यमरः
अयं अग्नि-मूर्त्तिः यथा रुद्राय अग्निमूर्त्तये नमः इतितिथ्यादितत्त्वे शिवपूजापद्धतिः
ब्रह्मणःक्रोधरूपः सृष्टिकाले भ्रूमध्याज्जातः तत्-सृष्टः भूतप्रेतपिशाचादिः अयमेवान्ते संहार-कर्त्ता इति भागवतम्
*
अथैकादश-रुद्रनामानि यथा अजः एकपात् अहि-ब्रघ्नः पिणाकी अपराजितः त्र्यस्वकः ६महेश्वरः वृषाकपिः शम्भुः हरणः १०ईश्वरः ११ इति महाभारते दानधर्म्मः
*
अपि ।“अजैकपादहिब्रघ्नो विरूपाक्षः सुरेश्वरः ।जयन्तो बहुरूपश्च त्र्यम्बकोऽप्यपराजितः ।वैवस्वतश्च सावित्रो हरो रुद्रा इमे स्मृताः
”इति जटाधरः
*
अन्यच्च ।“अजैकपादहिब्रध्नस्त्वष्टा रुद्रश्च वीर्य्यवान् ।त्वष्टुश्चाप्यात्मजः पुत्त्रो विश्वरूपो महातपाः
हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।वृषाकपिश्च शम्भुश्च कपर्द्दो रैवतस्तथा
एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः
”इति गारुडे अध्यायः
अग्निपुराणे त्वष्टृस्थाने कृत्तिवासाः
*
अप-रञ्च ।“अजैकपदाहिब्रध्नो विरूपाक्षोऽथ रैवतः ।हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः
सावित्र्यश्च जयन्तश्च पिणाकी चापराजितः ।एते रुद्राः समाख्याता एकादश गणेश्वराः
एतेषां मानसानान्तु त्रिशूलवरधारिणाम् ।कोटयश्चतुरशीतिस्तत् पुत्त्राश्चाक्षमा मताः
दिक्षु सर्व्वासु ये रक्षां प्रकुर्व्वन्ति गणेश्वराः ।पुत्त्रपौत्त्रसुतास्त्वेते सुरभीगर्भसम्भवाः
”इति मात्स्ये अध्यायः
*
तस्य उत्पत्तिर्यथा, --“प्रजाः स्रष्टुमनास्तेपे तपः परमदुश्चरम् ।तस्यैवं तप्यमानस्य किञ्चित् समवर्त्तत
ततो दीर्घेण कालेन दुःखात् क्रोधो व्यजायत ।क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः
ततस्तेभ्योऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ।सर्व्वांस्तानग्रजान् दृष्ट्वा ब्रह्मात्मानमविन्दत
तदा प्राणमयो रुद्रः प्रादुरासीत् प्रभोर्मुखात् ।सहस्रादित्यसङ्काशो युगान्तदहनोपमः
रुरोद सस्वरं घोरं देवदेवः स्वयं शिवः ।रोदमानं तदा ब्रह्मा मारोदीरित्यभाषत ।रोदनाद्रुद्र इत्येवं लोके ख्यातिं गमिष्यसि
अन्यानि सप्तनामाति पत्नीः पुत्त्रांश्च शाश्वतान् ।स्थानानि चैषामष्टानां ददौ लोकपितामहः
भवः शर्व्वस्तथेशानः पशूनाम्पतिरेव ।भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै
सूर्य्यो जलं मही वह्निर्व्वायुराकाशमेव ।दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्त्तयः
स्थानेषु तेषु ये रुद्रं ध्यायन्ति मनुजाधिप ।तेषामष्टतनुर्द्देवो ददाति परमं पदम्
सुवर्च्चला तथैवोमा विकेशा शिवा तथा ।स्वाहा दिशा दीक्षा रोहिणीति चपत्नयः
शनैश्चरस्तथा शुक्रो लोहिताक्षी मनोजवः ।सन्दः सर्गोऽथ सन्तानो बुधश्चैषां सुताःस्मृताः
”इति कौर्म्मे १० अध्यायः
*
विष्णुरुद्रयोरभेदो यथा, --“सदैव देवो भगवात् महादेवो संशयः ।मन्यन्ते ये जग्द्योनिं विभिन्नं विष्णुमीश्वरात् ।मोहादवेदनिष्ठाद्वा ते यान्ति नरकं नराः
वेदानुवर्त्तिनं रुद्रं देवं नारायणन्तथा ।एकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते
”इति तत्रैव १३ अध्यायः
*
कल्पभेदे तस्योत्पत्तिनामस्थानभार्य्यादीनि यथा, “चुकोप ततो ब्रह्मा ज्वलन्निव हुताशनः ।ततः कोपं स्वपुत्त्रेभ्यः कृतमन्याय्यमित्यपि
विचार्य्य परिवर्द्धन्तं नियन्तुमुपचक्रमे ।यत्नान्नियम्यमानोऽपि कोपः परमेष्ठिनः
भ्रुवोर्म्मध्यादथोद्भूतः कुमारो नीललोहितः ।जातमात्रः कुमारोऽसौ रुरोद भगवान् भवः
ब्रह्मोवाच कथं पुत्त्ररोदिषि त्वं महाबल ।तन्मे कथत कामन्ते सद्यः सम्पादयाम्यहम्
रुद्र उवाच ।नामानि कुरु मे ब्रह्मन् ! स्थानानि जगद्-गुरो ।पत्नीश्च देहि भगवन् ततः शान्तिर्भविष्यति
ब्रह्मोवाच ।जानामि त्वां देवदेवं पूर्व्वं दत्तं वरं मम ।सत्यं कर्त्तुं भबान् जातस्त्वं हि सर्व्वेश्वरेंश्वरः
जातमात्रो रोदिषि त्वं ततो रुद्र इति स्मृतः ।नामान्यन्यानि ते देव विधास्ये शृणु पुत्त्रक
ऋतध्वजो मनुर्मन्युरुग्ररेता महान् शिवः ।भवः कालो महिनसो वामदेवो धृतव्रतः
एतानि तव नामानि ये स्मरन्ति नरा भुवि ।तेषां सदैव कल्याणं करिष्यसि महामते
स्थानानि प्रवक्ष्यामि तेषु वासो विधीयताम्
इन्द्रियाण्यसुहृद्ब्योम वायुरग्निर्जलं मही ।तपश्चन्द्रश्च सूर्य्यश्च स्थानान्येतानि ते भव
धृतिर्धीरसिलोमा नियुत् सर्पिर्विलम्बिका ।इरावती स्वधा दीक्षा योषितस्तव सुन्दरी
प्रजाः सृज महाभाग जगदेतत् प्रपूरय
इत्यादिष्टः भगवान् ब्रह्मणा नीललोहितः ।सृष्टवान् प्रजा बह्वीर्भूतप्रेतपिशाचकान् ।कुष्माण्डान् विकृताकारान् भैरवान् भीम-नादिनः
तान दृष्ट्वा तु तदा ब्रह्मा जगद्विद्रावकान्बहून् ।वारयामास पुत्त्र त्वं मा स्राक्षीरीदृशीः प्रजाः
तपसा विष्णुमाराध्य विहरस्व यथासुखम् ।इति ते कथितो राजन् ! रुद्रसर्गः प्रजापतेः
यं श्रुत्वापि नरः सद्यो जह्याद्भूतकृतं भयम्
”इति पाद्मे स्वर्गखण्डे रुद्रसर्गः अध्यायः
*
प्रकारान्तरं यथा, --“कथितस्तमसः सर्गो ब्रह्मंस्तेऽयं महामुने ।रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु
कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः ।प्रादुरासीत् प्रभोरङ्के कुमारो नीललोहितः
रुदन् वै सस्वरं सोऽथ द्रवंश्च द्बिजसत्तम ! ।किं करोषीति तं ब्रह्मा रुदन्तं प्रत्युवाच वै
नाम धेहीति तं सोऽथ प्रत्युवाच प्रजापतिम् ।रुद्रस्त्वं देव नामासि मारोदीर्घैर्य्यमाप्नुहि
एवमुक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ।ततोऽन्यानि ददौ तस्मै सप्त नामानि प्रभुः
स्थानानि चैषामष्टानां पत्नीः पुत्त्रांश्च वै प्रभुः
भवं शर्व्वमथेशानं तथा पशुपतिं द्विज ।भीममुग्रं महादेवमुवाच पितामहः
चक्रे नामान्यथैतानिं स्थानान्येषां चकार सः
मूर्य्यो जलं मही वह्निर्व्वायुराकाशमेव ।दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात्
सुवर्च्चला तथैवोषा सुकेशी चापरा शिवा ।स्वाहा दिशस्तथा दीक्षा रोहिणी यथा-क्रमम्
सूर्य्यादीनां नरश्रेष्ठ रुद्राद्यैर्नामभिः सह ।पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु
येषां सूतिप्रसूतेश्च इदमापूरितं जगत् ।शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः
स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात् सुताः ।एवंप्रकाररुद्रोऽसौ सतीं भार्य्यामविन्दत
दक्षकोपाच्च तत्याज सा सती स्वं कलेवरम् ।हिमवद्दुहिता साभून्मेनायां द्विजसत्तम !
उपयेमे पुनश्चोमामनन्यां भगवान् भवः
देवौ धाता विधातारौ भृगोः ख्यातिरसूयत ।श्रियञ्च देवदेवस्य पत्नी नारायणस्य या
”इति विष्णुपुराणे अंशे अध्यायः
*
(“द्बितीये हि युगे सर्व्वमक्रोधव्रतमास्थितम् ।दिव्यं सहस्रवर्षाणामसुरा अभिदुद्रुवुः
तपोविघ्नं शमीकर्त्तुन्तपोविघ्नं महात्मनाम् ।पश्यन् समर्थश्चोपेक्षाश्चक्रे दक्षः प्रजापतिः
पुनर्माहेश्वरं भागं ध्रुवं दक्षः प्रजापतिः ।प्रायो कल्पयामास प्रोच्यमानः सुरैरपि
पाशुपत्य ऋचो याश्च शैव्यश्चाहुतयश्च याः ।यज्ञसिद्धिकृतस्ताभिर्हीनञ्चैव इष्टवान्
अथोत्तीर्णव्रतो देवो बुद्धा दक्षव्यतिक्रमम् ।रुद्रो रौद्रं पुरस्कृत्य भावमात्मविदात्मनः
सृष्ट्वा ललाटे चक्षुर्वै दग्ध्वा तानसुरान् प्रभुः ।बाणं क्रोधाग्निसन्तप्तमसृजत् शत्रुनाशनम्
ततो यज्ञः विध्वस्तो व्यथिताश्च दिवौकसः ।दाहव्यथा परीताश्च भ्रान्ता भूतगणा दिशः
”इति चरके चिकित्सास्थाने तृतीयेऽध्याये
)रुद्रगीता वराहपुराणे द्रष्टव्या
*
(विश्व-कर्म्मपुत्त्रविशेषः यथा, विष्णुपुराणे ।१५ १२२ ।“तस्य पुत्त्रास्तु चत्वारस्तषां नामानि मे शृणु ।अजैकपादहिब्रध्नस्त्वष्टा रुद्रश्च बुद्धिमान्
”)स्वनामख्यातः कविविशेषः विद्याविलास-पुत्त्रः भावविलासप्रणेता कविरयं मानसिंह-पुत्त्रस्य भावसिंहमहीपतेः समये बभूव ।स भावसिंहमहीपतिर्व्वर्त्तमानजयपुरमहा-राजस्य षोडशः पूर्व्वपुरुषः तथा भाव-विलासे १३४ -- १३६ ।“अन्यापदेशविनिवेशविदग्धबुद्धि-श्रीभावसिंहनरसिंहनियोगयोगात् ।सम्पादितो विविधभावविकासभाजांप्रीत्यै भृशं भवतु भावविलास एषः
”सद्गुणानां समुद्रेण रुद्रेण ग्रथिता गुणैः ।कण्ठस्था श्लोकमालेयं केषां कुरुते श्रियम्
विद्याविलासपुत्रस्य न्यायवाचस्पतेरियम् ।काव्यालापविदग्धानां मुदं निर्म्मातु निर्म्मितिः
”)