| YouTube Channel

रुदिँर् (rudi~r)

 
धातुप्रदीपः
Sanskrit
रुदिर् अश्रुविमोचने
- रोदिति रुदितः रुदन्ति रुरोद रुरुदतुः रुरुदुः रोदिता अरोदीत् ।अरोदत् अरुदत् अरोदीत् रुदित्वा रुरुदिषति रुद्रः रुद्राणी ।। 58 ।।
क्षीरतरङ्गिणी
Sanskrit
रुदिर् अश्रुविमोचने
- रुदादिभ्यः सार्वधातुके (7376) इतीट्-रोदिति लङि-रुदश्च पञ्चभ्यः (7398) इतीट्-अरोदीत्, अड् गार्ग्यगालवयोः (7399)-अरोदत् रुद्याद्-इतीडटौ पूर्वविप्रतिषेधेन बाधित्वा यासुट् (द्र0 34103) इरितो वा (3157) इत्यङ्-अरुदत् अरोदीत् रलो व्युपधाद् (1226) इति निषेधे प्राप्ते रुदविदमुष (128) इति संश्च क्त्वा कितौ वा-रुरुदिषति, रुरोदिषति, रुदित्वा रोदित्वा रोदेर्णिलुक् (उ0 222) इति रक्-रुद्रः 55
धातुवृत्तिः
Sanskrit
रुदिर् (अर्थः) अश्रुविमोचने
( रोदिति, रुदितः, रुदन्ति, रोदिषि, रुदिथः, रोदिमि, रुदिवः, ) "रुदादिभ्यस्यार्वधातुके'' इति वलादाविट् एतदादयः पञ्च रुदायः (रुरोद, रुरुदतुः, रुरोदिथ, रुरुद, रुरोद, रुरुदिव रोदिता रोदिष्यति रोदितु रुदितात्, रुदितां, रुदन्तु, रुदिहि, रोदानि, हौ परत्वादिटि सकृद्गपरिभाषया धिभावो भवति यद्वा तत्र हल्ग्रहणानुवृत्तेरिटि कृते नैव धिभावप्रसङ्गः ( अरोदीत्, अरोदत्, अरुदिताम्, अरुदन्, अरोदीः, अरोदः अरोदम्, अरुदिव, ) "रुदश्च पञ्चभ्यः ( सूत्रम्) "अङ्गार्ग्यगालवयोः'' (इति सूत्रम्) इति हलादेः पितस्सार्वधातुकस्य अपृक्तस्य पर्यायेणेडडागमौ (रुद्यात्, रुद्यातां, रुद्युः रुद्याः, रुद्याम्, ) अत्र रुदादिं प्रकृतिं प्रत्ययविशेषं चापेक्षमाणाभ्यामिड्भ्यां लिङमात्रापेक्षत्वेनान्तरङ्गत्वात्पूर्वमेव यासुटि अपृक्तस्याभावान्न तौ स्वामी तु "ईडटौ पूर्वविप्रतिषेधेन बाधित्वा यासुट्' इति आशिषि ( रुद्यात्, रुद्यास्ताम् अरुदत् अरुदताम्, अरुदन्, अरुदः अरुदम्, अरुदाव, ) "इरितो वा'' इत्यङ् तदभावे सिच्, ( अरोदीत्, अरोदिष्टाम् ) इत्यादि ( रुरुदिषति रुदित्वा ) "रुदविद'' इति क्त्वासनोः कित्वम् ( रोरुद्यते रोरुदीति, रोरोत्ति, रोरुत्तः ) "रुदादिभ्यस्सार्वधातुके'' इतीडागमो गणनिर्देशान्न भवतः तथा लङि ( अरोरोत्, अरोरोः ) इति इडडागमावपि गणनिर्देशान्न भवतः ( अरोरुदीत्, अरोरुदीः ) इति "यङो वा'' इति पाक्षिके ईटि द्रष्टव्यौ "रुदविद'' इति कित्वं यङ्लुगन्तादपि भवतीति ( रोरुदिषति, रोरुदित्वा ) इति भवति (रोदयति अरूरुदत् रोदसी) "असुन्'' इत्यसुन्प्रत्ययः पुष्पवदादिवत् नित्यं द्विवचनान्तः रोदयतीति ( रुद्रः ) "रोदेर्णिलुक्च'' इति रकि णिलुक् ( रुद्राणी ) "इन्द्रवरुण'' इति पुंयोगे ङीषानुकौ शतं रुद्रो, देवता अस्य ( शतरुद्रियं, शतरुद्रीयम्) "शतरुद्राद्धश्च'' इति घच्छौ विधानसामर्थ्यादनयोः "द्विगोर्लुक्'' इति लुङ्न भवति यदि हि स्यादण एवास्तु लुक् विदादय उदात्ता उदात्तेतः 50