| YouTube Channel

रुठ (ruTha)

 
Wilson
English
रुठ r. 1st cl. (रोठति) To strike, to fell, to knock down, to
overturn. (रोठते) To resist, to oppose. (इ) रुठि r. 1st cl.
(रुण्ठति)
1 To go, to move.
2 To steal.
3 To be idle.
4 To be lame.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रुठ्
मूलधातुः:
रुठ
धात्वर्थः:
उपघाते
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
रोठति
धातुः:
रुठ्
मूलधातुः:
रुठ
धात्वर्थः:
रोषे
गणः:
चुरादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
रोठयति-ते
धातुप्रदीपः
Sanskrit
रुठँ रुठ
मानकरूपान्तरम् - लुठँ
लुठ उपघाते
- रोठति लोठति लोठः निर्लोठति निर्लोठनम् ।। 338, 339 ।।
शब्दकल्पद्रुमः
Sanskrit
रुठ, उपघाते इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) रोठति लोकं शोकः ।इति दुर्गादासः
रुठ, गत्यालस्यस्तेयखोटे इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-अक० सेट् ।) पञ्चमस्वरी ।इ, रुण्ठ्यते आलस्यं मन्दीभावः स्तेयंचौर्य्यम् खोटः खोडनम् इति दुर्गादासः
रुठ, प्रतीघाते इति कविकल्पद्रुमः
(भ्वा०-आत्म०-सक०-सेट् ।) ऌ, अरुठत् ।ङ, रोठते प्रतीघातः शोकादिना पतनंपुनर्हननं वा इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
रुठ उपवाते
भ्वा०
पर०
सक०
सेट् रोठति अरोठीत्
रुठ प्रतीधाते
भ्वा०
आ०
सक०
सेट् रोठते ऌदित् लुङिउभ० अरुठत् अरोठिष्ट रुरुठे
रुठ गतौ चौर्य्ये
सक०
मन्दीभावे खञ्जीभावे अक०
भ्वा०
पर०
सेट् इदित् रुण्ठति अरुण्ठीत्
क्षीरतरङ्गिणी
Sanskrit
रुठँ रुठ
मानकरूपान्तरम् - लुठँ
लुठ प्रतीघाते
- [ रोठते, ] लोठते अलुठत्, अलोठिष्ट लुठतीति लक्ष्यदर्शनात् तुदादौ पाठ्यः रुट लुट इत्येके, बाधृ रोटने (16) इति लिङ्गात् 727, 728
धातुवृत्तिः
Sanskrit
रुठँ रुठ
मानकरूपान्तरम् - लुठँ
लुठ
मानकरूपान्तरम् - उठँ
उठ (अर्थः) उपघाते
( रोठति लोठतीत्यादि ) अत्र मैत्रेयः उठेत्यप्येकइति धनपालशाकटायनौ तु रुठलुठेत्येव पेठतुः क्षीरस्वामी तु उठिं पठित्वा रुठ लुठ इत्यपि दौर्गा इत्याह ( उठति उवोठ ऊठतुः ) ओठितेत्यादि पठतिवत्प्रक्रिया लुठः काण्यादित्वात् आलूलुठत् अलुलोठदिति भवति अयं श्लेषणे तुदादिः लुठि आलोख्ये प्रतिघाते रुठि लुठि गतावित्यग्रे इदितौ लुठ श्लेषणइति तुदादौ असौ डान्त इत्येकइति मैत्रेयः तथा स्वामी लुठतीति लक्ष्यदर्शनात् तुदादौ पाठ इति लुठ प्रतिघात इति द्युतादौ 334
रुठँ रुठ
मानकरूपान्तरम् - लजिँ
लजि
मानकरूपान्तरम् - अजिँ
अजि
मानकरूपान्तरम् - दसिँ
दसि
मानकरूपान्तरम् - भृशिँ
भृशि
मानकरूपान्तरम् - कशिँ
कशि
मानकरूपान्तरम् - रुसिँ
रुसि
मानकरूपान्तरम् - शीकँ
शीक
मानकरूपान्तरम् - नटँ
नट
मानकरूपान्तरम् - पुटिँ
पुटि
मानकरूपान्तरम् - जुचिँ
जुचि
मानकरूपान्तरम् - रघिँ
रघि
मानकरूपान्तरम् - अहिँ
अहि
मानकरूपान्तरम् - रहिँ
रहि
मानकरूपान्तरम् - महिँ
महि (अर्थः) भाषार्थाः
इत्येते पञ्चदश स्वामिकाश्यपानुसारेण लिख्यन्ते ( रोठयति, ) स्तेये शपि रुण्ठति प्रतिघाते द्युतादौ रोठते (लञ्जयति लञ्जति लजति लञ्जति भर्जने शपि, लाजति लाञ्जति भर्त्संने शपि, लजते इति व्रीडे तुदादौ, प्राकाशे लञ्जयतीति कथादौ (अञ्जयति अञ्जति) अनक्तीति श्नमि व्यक्त्यादौ (दंसयति दंसति भृंशयति भृंशति, ) भर्शति भृश्यतीति शप्श्यनोरधः पतने ( रुंशयति रुंशति रुंसयति रुंसति, शीकयाति शीकति) शीकत इति सेचने शपि, ( नाटयति ) अयमवस्यन्दने गतः नटीतीति नृत्तौ घटादिः ( पुण्टयति ) परिवर्तने शपि पोटते ( जुञ्चयति जुञ्चति रंघयति) गतौ शपि रङ्घति (अंहयति अंहति) अंहतइति गतौ शपि ( रंहयति रंहति ) रहयतीति त्यागे कथादौ भविष्यति मित्प्रकरणे गतः, रंहति रहतीति गतिर्त्यागयोः शपि, ( मंहयति मंहति ) मंहयतीति कथादौ पूजायाम्, महतीति शपि मंहत इति वृद्धौ महीयत इति कण्ड्वादौ भसिपिसिलडिवृहितुडिनडीत्यन्ये पठन्तीति स्वामी तत्राद्यौ वृहिश्च मैत्रेयानुरोधेनास्माभिर्द्दण्डके पठिताः ( लण्डयति लण्डति ) लाडयतीत्युपसेवायां गतम् विलासे लडतीति शपि ( तोडयति ) तोडति तुण्डत इति शपि तोडने तुडतीति शे ( नाडयति ) नडतीति गतौशपि 262
कृदन्तरूपमाला
Sanskrit
1 {@“रुठ उपघाते”@} 2 ‘रुण्ठतीति गतौ, रोठेदुपघाते--।’ 3 इति देवः।
‘अश्मा लुलुठिषते’ इति भाष्यं व्याचक्षाणः कैयटस्तु 4 ‘रुठ लुठ प्रतीघाते’ इति पाठमादृतवान्।
रोठकः-ठिका, रोठकः-ठिका, रुरोठिषकः-रुरुठिषकः-षिका, रोरुठकः-ठिका
रोठिता-त्री, रोठयिता-त्री, रुरोठिषिता-रुरुठिषिता-त्री, रोरुठिता-त्री
इतीमानि रूपाणि सर्वाण्यपि दैवादिककुप्यतिवत् 5 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१४२०)
02
=>
(१-भ्वादिः-३३६। सक। सेट्। पर।)
03
=>
(श्लो। ७९)
04
=>
(३-१-७)
05
=>
(२२४)