रुजो (rujo)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit रुज्
रुजो
भङ्गे
तुदादिः
सकर्मकः
अनिट्
परस्मैपदी
रुजति
धातुप्रदीपः
Sanskritरुजोँ रुजो भङ्गे
- रुजति रोक्ता रुग्णः रुक् रुजा रोगः रुत्र्त्वा कूलमुद्रुजः 142
क्षीरतरङ्गिणी
Sanskritरुजोँ रुजो भङ्गे
- रुजति रुग्णः पदरुज (3316) इति कर्तरि घञ्-भिदादौ (गण0 33104) रुजा रुक् उदिकूले रुजिवहोः (3231) खश्-कूलमुद्रुजः नहिवृति (63116) इति दीर्घः-वीरुक् रुक्मं रुचेः (द्र0 1494) 135
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritरुजोँ रुजो (अर्थः) भङ्गे
( चोरस्य रुजति रोगः ) "रुजार्थानां भाववचनानामज्वरेः'' इति धात्वर्थस्य भावकर्तृकत्वे कर्मणि शेषे षष्ठी अत्र भावो धात्वर्थः वचनशब्दश्च कर्तृवचनः अत्र के चिद्रुजाशब्दस्य व्याधौ रूढत्वाद्भाववचनानामित्यस्य प्रत्युदाहरणं श्लेष्मा पुरुषं रुजीतीति रुजेर्व्याध्यर्थत्वमेवाहुः श्लेष्मा पुरुषं रुजति व्याधिना योजयतीति ह्यत्रार्थः वृत्तिभाष्ययोस्तु रुजां भङ्गमाश्रित्य नदी कुलानि रुजतीति प्रत्युदाहृतम् अशेषविवक्षायामपि कर्मणि नित्यं द्वितीया ( 1 ) ( 1 ) द्वितीयैवेति पुस्तकान्तरे पाठः भवति ( चोरं रुजति ) इति (रुरोज रुरुजतुः रुरोजिथ रुरुजिव रोक्ता रोक्ष्यति रुजतु अरुजत् रुजेत् रुज्यात् अरौक्षीत् अरौक्ताम् अरौक्षुः ) झलि सिचो लोपः "चोः कुः'' ( रुरुक्षति रोरुज्यते रोरोक्ति रोजयति अरूरुजत् ) निष्पूर्वोऽयं व्याधिप्रशमने नीरुजति मिताशीति ( कूलमुद्रुजः ) "उदि कृले रुजिवहोः'' इति खश् ( रोगः ) "पदरुज'' इति कर्तरि घञ् ( हृद्रोगः हृदयरोगः ) "वा शोकष्यञ्रोगेषु'' इति हृद्भावविकल्पः ( रुक्त्वा रुग्णः रुग्णवान् ) ओदित्त्वान्नत्वम् ( लुग्नं जीर्णवस्त्रं, ) "कपिलकादीनां संज्ञाछन्दसोः'' इति लत्वम् ( रुजा ) भिदादेराकृतिगणत्वादङ् हिंसार्थोऽयं चुरादौ 132
कृदन्तरूपमाला
Sanskrit1 {@“रुजो भङ्गे”@} 2 ‘भङ्गे रुजति, हिंसायां रोजयेदिति णौ रुजेः।।’ 3 इति देवः।
रोजकः-जिका, रोजकः-जिका, रुरुक्षकः-क्षिका, रोरुजकः-जिका
रोक्ता-रोक्त्री, रोजयिता-त्री, रुरुक्षिता-त्री, रोरुजिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि रौधादिकभुनक्तिवत् 4 बोध्यानि।
चोरस्य 5 रुजन् रोगः, नदी कूलानि रुजती गच्छति, चोरं रुजन्, नीरुजन् मिताशी स्यात्, 6 कूलमुद्रुजः 7, 8 रोगः, 9 हृद्रोगः-हृदयरोगः, 10 रुजा, 11 रुक्, 12 13 रुग्णवान्, 14 लुग्नम्, 15 वीरुक्, इत्यादीनि रूपाण्यस्माद्भवन्तीति विशेषः।
01 (१४१६)
02 (६-तुदादिः-१४१६। सक। अनि। पर।)
03 (श्लो। ६९)
04 (११६२)
05 [[१। अत्र ‘रुजार्थानां भाववचनानामज्वरेः’ (२-३-५४) इति धात्वर्थस्य भावकर्तृकत्वे कर्मणि शेषत्वेन विवक्षिते षष्ठी। तुदादित्वात् शतरि शप्रत्ययः। तस्य ङिद्वद्भावे- नाङ्गस्य गुणो न। सूत्रे रुजाशब्देन व्याधिरुच्यते। तेन रुजेः व्याध्यर्थत्वे ‘भाववचनानाम्’ इत्यस्य ‘श्लेष्मा पुरुषं रुजन्’ इति प्रत्युदाहरणमिति केचित्। भाष्ये तु रुजधातोर्भङ्गार्थत्वमेवाश्रित्य, ‘नदी कूलानि रुजति।’ इति प्रत्युदाहृतम्। कर्मणोऽशेषत्वविवक्षायां द्वितीयाऽपि। तेन ‘चोरं रुजन्’ इति सिद्ध्यति। निपूर्वकोऽयं धातुर्व्याधिप्रतीकारे वर्तते। तेन नीरुजन् = (व्याध्यनभिभूतः) इति, प्रतीकारोऽत्रार्थः।]]
06 [[२। ‘उदि कूले रुजिवहोः’ (३-१-३१) इति कूलशब्दे कर्मण्युपपदे उत्पूर्बकस्यास्य खश्प्रत्ययः। ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। शित्त्वात् सार्वधातुक- त्वम्। तस्य च ङिद्वद्भावाद् गुणो न। कूलानि उद्रुजतीति कूलमुद्रुजः रथः। उक्षा इति केचित्।]]
07 [[आ। ‘मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः।’ रघु। ४। २२।]]
08 [[३। ‘पदरुजविशस्पृशो घञ्’ (३-३-१६) इति कर्तरि घञ्। रुजतीति रोगः। ‘चजोः--’ (७-३-५२) इति कुत्वम्।]]
09 [[४। ‘वा शोकष्यञ्रोगेषु’ (६-३-५१) इति हृदयशब्दस्य रोगशब्दे परे हृद्भावविकल्पः।]]
10 [[५। भिदादेः (३-३-१०४) आकृतिगणत्वेन तत्र पाठादङ्। प्रत्ययस्य ङित्त्वान्न गुणः।]]
11 [[६। ‘रोगाख्यायां ण्वुल् बहुलम्’ (३-३-१०८) इत्यत्र बहुलग्रहणात् रोगवाचकत्वेऽपि स्त्रियां सम्पदादि (वा। ३-३-१०८) पाठात् क्विप्।]]
12 [पृष्ठम्११२८+ २९]
13 [[१। ‘ओदितश्च’ (८-२-४४) इति निष्ठानत्वम्। निष्ठानत्वस्य परशास्त्रत्वात्, ‘चोः कुः’ (८-२-३०) इति कुत्वस्य पूर्वशास्त्रत्वाच्च, ‘त्रिपाद्यामपि पूर्वं प्रति परं शास्त्रमसिद्धम्’ इति न्यायेन निष्ठानत्वासिद्ध्या कुत्वमत्रेति बोध्यम्। ‘अट्कुप्वाङ्- नुम्व्यवायेऽपि’ (८-४-२) इति णत्वम्।]]
14 [[२। ‘क्तिच्क्तौ च--’ (३-३-१७४) इति संज्ञायां क्तः। ‘कपिलकादीनां संज्ञाच्छन्दसोः’ (वा। ८-२-१८) इत्यत्र कपिलकादिगणे पाठादत्र धातुरेफस्य लत्वम्। लुग्नम् = जीर्णवस्त्रम्।]]
15 [[३। क्विबन्ते बाहुलकात् ‘अन्येषामपि दृश्यते’ (६-३-१३७) इति पूर्वपदस्य दीर्घः। अत्र क्षीरतरङ्गिण्याम्-- “… ‘नहिवृति--’ (६-३-११६) इति दीर्घः। वीरुक्।” इत्युक्तम्। ‘नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ’ (६-३-११६) इत्यत्र रुचि इति रुचधातोरेव सर्वैः ग्रहणात् चिन्त्यमिदम्।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
