| YouTube Channel

रुचिरं (ruciraM)

 
शब्दकल्पद्रुमः
Sanskrit
रुचिरं,
क्ली,
(रोचते इति रुच् + “इषिमदि-मुदीति ।” उणा० ५२ इति किरच् ।)मूलकम् कुङ्कुमम् लवङ्गम् इति राज-निर्घण्टः
(पुं, सेनजित्पुत्त्रः यथा, हरि-वंशे २० २१ ।“पुत्त्राः सेबजितश्चासंश्चत्वारो लोकसत्तमाः ।रुचिरः श्वेतकेतुश्च महिम्नारस्तथैव
”)
रुचिरं, त्रि, (रुच् + किरच् ।) सुन्दरम् इत्य-मरः
(यथा, आर्य्यासप्तशत्याम् ११७ ।“उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचि-राङ्गि ।अचला अपि महान्तः के चञ्चलभाव-मानीताः
”)मिष्टम् इत्युणादिकोषः