रुचिः (ruciH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishरुचिः [ruciḥ], (-ची ) [रुच्-कि वा ङीप्]
Light, lustre, splendour, brightness
वियद्व्यापी तारागणगुणित फेनोद्गमरुचिः Śi.vamahimna 17
रुचिमिन्दुदले करोत्यजः परिपूर्णेन्दुरुचिर्महीपतिः 16.71
5.67
15.
A ray of light
as in रुचिभर्तृ q. v.
Appearance, colour, beauty (usually at the end of )
पटलं बहिर्बहलपङ्करुचि 9.19
सिन्दूरैः कृतरुचयः सहेमकक्ष्याः 7.8.
Taste, relish
as in रुचिकर.
Zest, hunger, appetite.
Wish, desire, pleasure
स्वरुच्या 'at will or pleasure.'
Liking, taste
विमार्गगायाश्च रुचिः स्वकान्ते 1.125 'liking or love'
न स क्षितीशो रुचये बभूव
6.44
भिन्नरुचिर्हि लोकः 3
नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम् 1.4
. in in the sense of 'indulging in', 'devoted or addicted to'
हिंसारुचेः 5.29
अर्थरुचेः 1.
Passion, close application to any object.
A kind of yellow pigment (गोरोचना).
A kind of coitus. of a प्रजापति
जातो रुचेरजनयतसुयमान् सुयज्ञः 2.7.2. -करa.
tasteful, savoury, palatable.
exciting desire
रुचिकरमपि नार्थवद् बभूव 1.62.
stomachic, tonic.-धामन् the sun. -प्रद appetizing. -फलम् a pear.-भर्तृ
the sun
रुचिभर्तुरस्य विरहाधिगमात् 9.17.
a husband.
Apte 1890
Englishरुचिः(ची) f. [रुच्-कि वा ङीप्] 1 Light, lustre, splendour, brightness
रुचिमिंदुदले करोत्यजः परिपूर्णंदुरुचिर्महीपतिः Śi. 16. 71
R. 5. 67
Me. 15.
2 A ray of light
as in रुचिभर्तृ q. v.
3 Appearance, colour, beauty (usually at the end of comp.)
पटलं बहिर्बहलपंकरुचि Śi. 9. 19.
4 Taste, relish
as in रुचिकर.
5 Zest, hunger, appetite.
6 Wish, desire, pleasure
स्वरुच्या ‘at will or pleasure.
7 Liking, taste
विमार्गगायाश्च रुचिः स्वकांते Bv. 1. 125 ‘liking or love’
न स क्षितीशो रुचये बभूव
भिन्नरुचिर्हि लोकः R. 6. 30
नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनं M. 1. 4
oft. in comp. in the sense of ‘indulging in’, ‘devoted or addicted to’
हिंसारुचेः Māl. 5. 29.
8 Passion, close application to any object
9 A kind of yellow pigment ( गोरोचना).
Comp.
कर a. {1} tasteful, savoury, palatable. {2} exciting desire. {3} stomachic, tonic.
धामन् m. the sun.
भर्तृ m. {1} the sun
Śi. 9. 17. {2} a husband.
Hindi
Hindiस्वाद, स्वाद
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiरुचिः
- रुच् + कि
"प्रकाश, कान्ति, आभा, उज्ज्वलता"
रुचिः
- -
प्रकाश किरण
रुचिः
- - "छबि, रङ्ग, सौन्दर्य बहुधा समास के अन्त में"
"आज्ञालंङ्घनं, नियमलङ्घनम् आदि"
रुचिः
- - "स्वाद, मज़ा"
"प्रणिपातलङ्घनम् प्रमार्ष्टुकामा @ वि*३, @ मालवि*३/२२"
रुचिः
- -
"सुस्वाद, भूख, क्षुधा"
रुचिः
- - "कामना, इच्छा, खुशी"
जैसा कि आतपलङ्घनम् में
रुचिः
- -
"अभिरुचि, स्वाद"
रुचिः
- -
"प्रणयोन्माद, किसी की बात में लवलीनता"
Wordnet
Sanskrit रुचिः
एकः प्रजापतिः।
"रुचिः रौच्यस्य मनोः पिता आसीत्।"
रुचिः
एका अप्सरा
"रुचेः वर्णनम् पुराणे अस्ति"
रश्मिः, मरीचिः, करः, अभीशुः, अभीषुः, मयूखः, गभस्तिः, दीधितिः, अर्कत्विट्, पादः, उस्रः, रुचिः, त्विषिः, विभा, अर्चिस्, भानुः, शिपिः, धृष्णिः, पृष्टिः, वीचिः, घृणिः, उपधृतिः, पृश्निः, स्योनः, स्यूमः, किरणः, अंशुः, किरणः
प्रकाशस्य अतिसूक्ष्माः रेखाः याः सूर्यचन्द्रादिभ्यः ज्योतिष्मद्भ्यः पदार्थेभ्यः निष्कस्य विकीर्यमाणाः दृश्यन्ते।
"सूर्यस्य रश्मिभिः दिनस्य प्रारम्भः भवति।"
अभिरुचिः, रुचिः
अभीष्टस्य भावः।
"सः अभिरुच्याः अनुसरेण कार्यं करोति।"
इच्छा, आकाङ्क्षा, वाञ्छा, दोहदः, स्पृहा, ईहा, तृट्, लिप्सा, मनोरथः, कामः, अभिलाषः, तर्षः, रुक्, इषा, श्रद्धा, तृष्णा, रुचिः, मतिः, दोहलम्, छन्दः, इट्
मनोधर्मविशेषः।
"निर्दुःखत्वे सुखे चेच्छा तज्ज्ञानादेव जायते। इच्छा तु तदुपाये स्यादिष्टोपायत्वधीर्यदि।।"
प्रकाशः, द्युतिः, दीप्तिः, तेजः, प्रदीपः, ज्योतिः, ज्योतिः, प्रभा, आभा, छविः, आलोकः, रुचिः, रुच्, कान्तिः, छटा, निभा, भा, भाः, छाया, त्विषा, त्विष्, शोचिः, शोभा, वर्चः, महः, द्योतः, दूशानम्, मरीचिः, झल्लिका
सा शक्तिः तत्त्वं वा यया अन्यानि वस्तूनि दृग्गोचराणि भवन्ति।
"सूर्यस्य आगमनेन दिशः प्रकाशेण कास्यन्ति।"
स्नेहः, प्रीतिः, प्रेम, अनुरागः, अनुरक्तिः, रुचिः, अभिरुचिः, हार्द्दम्, प्रश्रयः, स्नेहभावः, प्रीतिभावः, प्रेमभावः
कञ्चित् प्रति सौहार्दं कमपि अतिप्रियं मत्वा सर्वदा तत्सविधे वासार्थं प्रेरिका काचन मनोवृत्तिः वा।
"स्नेहः न स्वार्थास्पदम्। / पुत्रे मम महान् स्नेहः।"
Tamil
Tamilருசி: : சுவை, ருசி, பிரகாசம், காந்தி, கிரணம், பசி, ஊக்கம், விருப்பம், தோற்றம், மகிழ்வு, இன்பம்.
शब्दकल्पद्रुमः
Sanskritरुचिः, (रुच्यते इति । रुच् + “इगुपधात्कित् ।” उणा० ४ । ११९ । इति इन् । सचकित् ।) अभिष्वङ्गः । अनुरागः । आशक्तिर्वा ।स्पृहा । (यथा, किराते । १० । ६२ ।“रुचिकरमपि नार्थवद्बभूवस्तिमितसमाधिशुचौ पृथातनूजे ॥
”“अम्लो रुचिकरो हृद्यः प्रीणनो वह्निदीपनः ॥
”इति वैद्यकराजवल्लभे द्रव्यगुणव्याख्यायाम् ॥
)अभिलाषः । गभस्तिः । किरणः । इत्यमर-भरतौ ॥
शोभा । इति मेदिनी ॥
(यथा, रघुः । ५ । ६७ ।“लक्ष्मीर्विनोदयति येन दिगन्तलम्बीसोऽयि त्वदाननरुचिं विजहाति चन्द्रः ॥
”)बुभुक्षा । इति हेमचन्द्रः ॥
गोरोचना । इतिराजनिर्घण्टः ॥
आलिङ्गनविशेषः । तल्लक्षणंयथा । नायिकाया नायकस्य संमुखे जान्वो-रुपर्य्युपविश्य वक्षसि वक्षो दत्त्वा यदवस्थानम् ।इति कामशास्त्रम् ॥
रुचिः, (रोचते शोभते इति । रुच् + इन् ।सच कित् ।) प्रजापतिविशेषः । स च रौच्य-मनुपिता । यथा, --मार्कण्डेय उवाच ।“रुचिः प्रजापतिः पूर्व्वं निर्म्ममो निरहङ्कृतिः ।यत्रास्तमितशायी च चचार पृथिवीमिमाम् ॥
अनग्निमनिकेतन्तमेकाहावसथाश्रयम् ।विमुक्तसङ्गं तं दृष्ट्वा प्रोचुः स्वपितरो मुनिम् ॥
पितर ऊचुः ।वत्स कस्मात् त्वया पुण्यो न कृतो दारसंग्रहः ।स्वर्गापवर्गहेतुत्वाद्बन्धस्तेनानिशं विना ॥
गृही समस्तदेवानां पितॄणाञ्च तथार्हणाम् ।ऋषीणामतिथीनाञ्च कुर्ब्बन् लोकानुपाश्नुते ॥
स्वाहोच्चारणतो देवान् स्वधोच्चारणतः पितॄन् ।विभजन्नन्नदानेन भूताद्यानतिथीनपि ॥
स त्वं दैवादृणाद्बन्धं बन्धमस्मदृणादपि ।आवाप्नोषि मनुष्यर्षिभूतेभ्यश्च दिने दिने ॥
अनुत्पाद्य सुतान् देवानसन्तर्प्य पितॄंस्तथा ।भूतादींश्च कथं मौढ्यात् सुगतिं गन्तुमिच्छसि ॥
रुचिरुवाच ।परिग्रहोऽतिदुःखाय पापायाधोगतेस्तथा ।भवत्यतो मया पूर्व्वं न कृतो दारसंग्रहः ॥
प्रक्षाल्यतेऽनुदिवसं यदात्मा निष्परिग्रहैः ।ममत्वपङ्कदिग्धोऽपि चिन्ताम्भोभिर्व्वरं हि तत् ॥
”इत्यादि ॥
पितर ऊचुः ।“युक्तं प्रक्षालनं कर्त्तुमात्मनो नियतेन्द्रियैः ।किन्तु लेपाय मार्गोऽयं यत्र त्वं पुत्त्र वर्त्तसे ॥
”इत्यादि ॥
* ॥
मार्कण्डेय उवाच ।“स तेन पितृवाक्येन भृशमुद्बिग्नमानसः ।कन्याभिलाषी विप्रर्षिः परिबभ्राम मेदिनीम् ॥
कन्यामलभमानोऽसौ पितृवाक्याग्निदीपितः ।चिन्तामवाप महतीमतीवोद्विग्नमानसः ॥
किं करोमि क्व गच्छामि कथं मे दारसंग्रहः ।क्षिप्रं भवेत् पितॄणां यो ममाभ्युदयकारकः ॥
इति चिन्तयतस्तस्य मतिर्जाता महात्मनः ।तपसाराधयाम्येनं ब्रह्माणं कमलोद्भवम् ॥
ततो वर्षशतं दिव्यं तपस्तेपे स वैधसम् ।दिदृक्षुः सुचिरं कालं रुचिर्नियममास्थितः ॥
ततः स्वन्दर्शयामास ब्रह्मा लोकपितामहः ।उवाच च प्रसन्नोऽस्मीत्युच्यतामभिवाञ्छितम् ॥
ततोऽसौ प्रणिपत्याह ब्रह्माणं जगतः पतिम् ।पितॄणां वचनात्तेन यत् कर्त्तुमभिवाञ्छितम् ॥
ब्रह्मा चाह रुचिं विप्रं श्रुत्वा तस्याभिवाञ्छि-तम् ।प्रजापतिस्त्वं भविता सष्टव्या भवता प्रजाः ॥
सृष्ट्वा प्रजाः सुतान् विप्र समुत्पाद्य क्रियास्तथा ।कृत्वा हृताधिकारस्त्वं ततः सिद्धिमवाप्स्यसि ॥
स त्वं यथोक्तं पितृभिः कुरु दारपरिग्रहम् ।कामञ्चेममभिध्याय क्रियतां पितृपूजनम् ॥
त एव तुष्टाः पितरः प्रदास्यन्ति तवेप्सितम् ।पत्नीं सुतांश्च सन्तुष्टाः किं न दद्युः पितामहाः ॥
मार्कण्डेय उवाच ।इत्यृषिर्व्वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः ।नद्या विविक्ते पुलिने चकार पितृतर्पणम् ॥
तुष्टाव च पितॄन् विप्रः स्तवैरेभिरथादृतः ।एकाग्रः प्रयतो भूत्वा भक्तिनम्रात्मको रुचिः ॥
”रुचिकृतपितृस्तोत्रं यथा, --रुचिरुवाच ।“नमस्येऽहं पितॄन् भक्त्या ये वसन्त्यधिदेवतम् ।देवैरपि हि तर्प्यन्ते ये श्राद्धेषु स्वधोत्तरैः ॥
नमस्येऽहं पितॄन् स्वर्गे ये तर्प्यन्ते महर्षिभिः ।श्राद्धैर्मनोमयैर्भक्त्या भुक्तिमुक्तिमभीप्सुभिः ।नमस्येऽहं पितॄन् स्वर्गे सिद्धाः सन्तर्पयन्ति यान् ।श्राद्धेषु दिव्यैः सकलैरुपहारैरनुत्तमैः ॥
नमस्येऽहं पितॄन् भक्त्या येऽर्च्यन्ते गुह्यकैर्दिवि ।तन्मयत्वेन वाञ्छद्भिरृद्धिमात्यन्तिकीं पराम् ॥
नमस्येऽहं पितॄन् मर्त्यैरर्च्यन्ते भुवि ये सदा ।श्राद्धेषु श्रद्धयाभीष्टलोकपुष्टिप्रदायिनः ॥
नमस्येऽहं पितॄन् विप्रैरर्च्यन्ते भुवि ये सदा ।वाञ्छिताभीष्टलाभाय प्राजापत्यप्रदायिनः ॥
नमस्येऽहं पितॄन् विप्रैरर्च्यन्तऽरण्यवासिभिः ।वन्यैः श्राद्धैयताहारैस्तपोनिर्द्धूतकल्मषैः ॥
नमस्येऽहं पितॄन् विप्रैर्नैष्ठिकव्रतधारिभिः ।ये संयतात्सभिर्नित्यं सन्तर्प्यन्ते समाधिभिः ।नमस्येऽहं पितॄन् श्राद्धेराजन्यास्तर्पयन्ति यान् ।कव्यैरशेषैर्विधिवल्लोकद्वयफलप्रदान् ॥
नमस्येऽहं पितॄन् वैश्यैरर्च्यन्ते भुवि ये सदा ।स्वकर्म्माभिरतैर्नित्यं पुष्पधूपान्नवारिभिः ॥
नमस्येऽहं पितॄन् श्राद्धे ये शूद्रैरपि भक्तितः ।सन्तर्प्यन्ते जगत्यस्मिन् नाम्ना ख्याताः सुका-लिनः ॥
नमस्येऽहं पितॄन् श्राद्धे पाताले ये महासुरैः ।सन्तर्प्यन्ते स्वधाहारास्त्यक्तदम्भमदैः सदा ॥
नमस्येऽहं पितॄन् श्राद्धैरर्च्यन्ते ये रसातले ।भोगैरशेषैर्विवि धैर्नागैः कामानभीप्सुभिः ॥
नमस्येऽहं पितॄन् श्राद्धे सर्पैः सन्तर्पितान् सदातत्रैव विविधैर्म्मन्त्रैर्भोगसम्पत्समन्वितैः ॥
पितॄन्नमस्ये निवसन्ति साक्षाद्ये देवलोकेऽथ महीतले वा ।तथान्तरीक्षे च सुरादिपूज्या-स्ते संप्रतीच्छन्तु मयोपनीतम् ॥
पितॄन्नमस्ये परमाणुभूताये वै विमाने निवसन्त्यमूर्त्ताः ।यजन्ति यानस्तमला मनोभि-र्योगीश्वराः क्लेशविमुक्तिहेतून् ॥
पितॄन्नमस्ये दिवि ये च मूर्त्ताःस्वधामुजः काभ्यफलाभिसन्धौ ।प्रदानशक्ताः सकलेप्सितानांविमुक्तिदा येऽनभिसंहितेषु ॥
तृप्यन्तु तेऽस्मिन् पितरः समस्ताइच्छावतां ये प्रदिशन्ति कामान् ।सुरत्वमिन्द्रत्वमतोऽधिकं वावस्वात्मजान् क्ष्मामवलां गृहाणि ॥
सूर्य्यस्य ये रश्मिषु चन्द्रविम्बेशुक्ले विमाने च सदा वसन्ति ।तृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयै-र्गन्धादिना पुष्टिमतो व्रजन्तु ॥
येषां हुतेऽग्नौ हविषा च तृप्ति-र्ये भुञ्जते विप्र शरीरसंस्थाः ।ये पिण्डदानेन मुदं प्रयान्तितृप्यन्तु तेऽस्मिन् पितरोऽन्नतोयैः ॥
ये खड्गमांसेन सुरैरभीष्टैःकृष्णैस्तिलैर्दैत्यमहोरगैश्च ।कालेन शाकेब महर्षिवर्य्यैःसंप्रीणितास्ते मुदमत्र यान्तु ॥
कव्यान्यशेषाणि च यान्यभीष्टा-न्यतीव येषाममरार्च्चितानाम् ।तेषान्तु सान्निध्यमिहास्तु पुष्प-गन्धादिभोज्येषु मयाहृतेषु ॥
दिने दिने ये प्रतिगृह्णतेऽर्च्चांमासान्तपूज्या भुवि येऽष्टकासु ।ये वत्सरान्तेऽभ्युदये च पूज्याःप्रयान्तु ते मे पितरोऽत्र तुष्टिम् ॥
पूज्या द्बिजानां कुमुदेन्दुभासोये क्षत्त्रियाणाञ्च नवार्कवर्णाः ।तथा विशां ये कनकावदातानीलीनिभाः शूद्रजनस्य ये च ॥
तेऽस्मिन् समस्ता मम पुष्पगन्ध-धूपान्नतोयादिनिवेदनेन ।तथाग्निहोमेन च यान्तु तृप्तिंसदा पितृभ्यः प्रणतोऽस्मि तेभ्यः ॥
ये देवपूर्व्वाण्यतितृप्तिहेतो-रश्नन्ति कव्यानि शुभाहृतानि ।तृप्ताश्च ये भूतिसृजो भवन्तितृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः ॥
रक्षांसि भूतान्यसुरांस्तथोग्रान्विनाशयन्तस्त्वशिवं प्रजानाम् ।आद्याः सुराणाममरेशपूज्या-स्तृप्यन्तु तेऽस्मिन् प्रणतोऽस्मि तेभ्यः ॥
अग्निष्वात्ता बर्हिषद आज्यपाः सोमपास्तथा ।व्रजन्तु तृप्तिं श्राद्धेऽस्मिन् पितरस्तर्पिता मया ॥
अग्निष्वात्ताः पितृगणाः प्राचीं रक्षन्तु मेदिशम् ।तथा बहिषदः पान्तु याम्यां ये पितरःस्थिताः ॥
प्रतीचीमाज्यपास्तद्बदुदीचीमपि सोमपाः ।ऊर्द्ध्वतस्त्वर्य्यमा रक्षेत् कव्यवालोऽनलोऽप्यधः ॥
रक्षोभूतपिशाचेभ्यस्तथैवासुरदोषतः ।सर्व्वतश्चाधिपस्तेषां यमो रक्षां करोतु मे ॥
विश्वो विश्वभुगाराध्यो धन्यो धर्म्मः सनातनः ।भूतिदो भूतिकृद्भूतिः पितॄणां ये गणा नव ॥
कल्याणः कल्यदः कर्त्ता कल्यः कल्यतराश्रयः ।कल्यताहेतुरनघः षडित्येते गणाः स्मृताः ॥
वरो वरेण्यो वरदस्तुष्टिदः पुष्टिदस्तथा ।विश्वपाता तथा धाता सप्त चैते गणाः स्मृताः ॥
महान्महात्मा महितो महिमावान्महाबलः ।गणाः पञ्च तथैवैते पितॄणां पापनाशनाः ॥
सुखदो धनदश्चान्यो धर्म्मदोऽन्यो विभूतिदः ।पितॄणां कथ्यते चैतत्तथा गणचतुष्टयम् ॥
एकत्रिंशत् पितृगणा यैर्व्याप्तमखिलं जगत् ।ते मेऽत्र तृप्तास्तुष्यन्तु यच्छन्तु च समीहितम् ॥
”इति मार्कण्डेयपुराणे रौच्ये मन्वन्तरे पितृस्तवः ॥
मार्कण्डेय उवाच ।“एवन्तु स्तुवतस्तस्य तेजसो राशिरुच्छिखः ।प्रादुर्बभूव सहसा गगनव्याप्तिकारकः ॥
तद्दृष्ट्वा सुमहत्तेजः समाच्छाद्य स्थितं जगत् ।जानुभ्यामवनिं गत्वा रुचिः स्तोत्रमिदं जगौ ॥
अमूर्त्तानाञ्च मूर्त्तानां पितॄणां दीप्ततेजसाम् ।नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥
इन्द्रादीनाञ्च नेतारो दक्षमारीचयोस्तथा ।सप्तर्षीणान्तथान्येषां तान् नमस्यामि काम-दान् ॥
मन्वादीनाच्च नेतारः सूर्य्याचन्द्रमसोस्तथा ।तान्नमस्याम्यहं सर्व्वान् पितॄनप्स्वर्णबेषु च ॥
नक्षत्राणां ग्रहाणाञ्च वाय्वग्निनभसां तथा ।द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥
प्रजापतेः कश्यपाय सोमाय वरुणाय च ।योगेश्वरेभ्यश्च तथा नमस्यामि कृताञ्जलिः ॥
नमो गणेभ्यः सप्तभ्यस्तथा लोकेषु सप्तसु ।स्वयम्भुवे नमस्यामि ब्रह्मणे योगचक्षुषे ॥
सोमाधाराः पितृगणा योगमूर्त्तिधारा हि ते ।नमस्यामि ततः सोमं पितरं जगतामहम् ॥
अग्निरूपांस्तथैवान्यान्नमस्यामि पितॄनहम् ।अग्नीषोममयं विश्वं यत एतदशेषतः ॥
ये तु तेजसि ये वायौ सोमसूर्य्याग्निमूर्त्तयः ।जगत्स्वरूपिणश्चैव तथा ब्रह्मस्वरूपिणः ॥
तेभ्योऽखिलेभ्यो योगिभ्यः पितृभ्यो यतमानसः ।नमो नमो नमस्ते मे प्रसीदन्तु स्वधाभुजः ॥
श्रीमार्कण्डेय उवाच ।एवं स्तुतास्ततस्तेन तेजसो मुनिसत्तमाः ।निश्चक्रमुस्ते पितरो भासयन्तो दिशो दश ॥
निवेदितन्तु यत्तेन पुष्पगन्धानुलेपनम् ।तद्भूषितानथ स तान् ददृशे पुरतः स्थितान् ॥
प्रणिषत्य रुचिर्भक्त्या पुनरेव कृताञ्जलिः ।नमस्तुभ्यं नमस्तुभ्यमित्याह पृथगादृतः ॥
ततः प्रसन्नाः पितरस्तमूचुर्मुनिसत्तमम् ।वरं वृणीष्वेति स तानुवाचानतकन्धरः ॥
साम्प्रतं सर्गकर्त्तृत्वमादिष्टं ब्रह्मणा मम ।सोऽहं पत्नीमभीप्सामि धन्यां दिव्यां प्रजाव-तीम् ॥
पितर ऊचुः ।अद्यैव सद्यः पत्नी ते भविष्यति मनोरमा ।तस्याञ्च पुत्त्रो भविता भवतो मुनिसत्तम ! ॥
मन्वन्तराधिपो धीमान् त्वन्नाम्नैवोपलक्षितः ।रुचे रौच्य इति ख्यातिं प्रयास्यति जगत्त्रये ॥
तस्यापि बहवः पुत्त्रा महाबलप्रराक्रमाः ।भविष्यन्ति महात्मानः पृथिवीपरिपालकाः ॥
त्वञ्च प्रजापतिर्भूत्वा प्रजाः सृष्ट्वा चतुर्विधाः ।क्षीणाधिकारो धर्म्मज्ञस्ततः सिद्धिमवाप्स्यसि ॥
स्तोत्रेणानेन च नरो योऽस्मांस्तोष्यति भक्तितः ।तस्य तुष्टा वयं भोगान् दास्यामो ज्ञानमुत्तमम् ॥
शरीरारोग्यमैश्वर्य्यं पुत्त्रपौत्त्रादिसन्ततिम् ।प्रदास्यामो न सन्देहो यच्चान्यदभिवाञ्छितम् ॥
तस्मात् पुण्यफलं लोके वाञ्छद्भिः सततं नरैः ।पितॄणाञ्चाक्षयां तृप्तिं स्तव्याः स्तोत्रेण मानवैः ॥
श्राद्धे च य इमं भक्त्या अस्मत्प्रीतिकरं स्तवम् ।पठिष्यन्ति द्बिजाग्र्याणां भुञ्जतां पुरतः स्थिताः ॥
स्तोत्रश्रवणसंप्रीत्या सन्निधाने परे कृते ।अस्माभिरक्षयं श्राद्धं तद्भविष्यत्यसंशयम् ॥
यद्यप्यश्रोत्रियं श्रार्द्धं यद्यप्युपहतं भवेत् ।अन्यायोपात्तवित्तेन यदि वा कृतमन्यथा ॥
अश्राद्धार्हैरुपहतैरुपहारैस्तथा कृतम् ।अकालेऽप्यथवा देशे विधिहीनमथापि वा ॥
अश्रद्धया वा पुरुषैर्द्दम्भमाश्रित्य वा कृतम् ।अस्माकं प्रीतये श्राद्धं तथाप्य तदुदीरणात् ॥
यत्रैतत् पठ्यते श्राद्धे स्तोत्रमस्मत्सुखावहम् ।अस्माकं जायते तृप्तिस्तत्र द्वादशवार्षिकी ॥
हेमन्ते द्बादशाब्दानि तृप्तिमेतत् प्रयच्छति ।शिशिरे द्बिगुणाब्दानि तृप्तिं स्तीत्रमिदं श्रुतम् ॥
वसन्ते षोडशसमास्तृप्तये श्राद्धकर्म्मणि ।ग्रीष्मे च षोडशैवैतत् पठितं तृप्तिकारकम् ॥
विकाले च कृते श्राद्धे स्तोत्रेणानेन साधिते ।वर्षासु तृप्तिरस्माकमक्षया जायते रुचे ॥
शरत्कालेऽपि पठितं श्राद्धकाले प्रयच्छति ।अस्माकमेतत् पुरुषैस्तृप्तिं पञ्चदशाब्दिकीम् ॥
यस्मिन् गृहेऽपि लिखितमेतत्तिष्ठति नित्यदा ।सन्निधातं कृते श्राद्धे तत्रास्माकं भविष्यति ॥
तस्मादेतत्त्वया श्राद्धे विप्राणां भुञ्जतां पुरः ।श्रावणीयं महाभाग अस्माकं तुष्टिकारकम् ॥
”इति मार्कण्डेयपुराणे रौच्ये मन्वन्तरे पितृस्तवे ॥
*मार्कण्डेय उवाच ।“ततस्तस्मान्नदीमध्यात् समुत्तस्थौ मनोरमा ।प्रम्लोचा नाम तन्वङ्गी तत्समीपे वराप्सराः ॥
सा चोवाच महात्मानं रुचिं सुमधुराक्षरम् ॥
प्रश्रयावनता सुभ्रूः प्रम्लोचा वै वराप्सराः ॥
अतीवरूपिणी कन्या मत्सुता तपतांवर ।जाता वरुणपुत्त्रेण पुष्करेण महात्मना ॥
तां गृहाण मया दत्तां भार्य्यार्थे वरवर्णिनीम् ।मनुर्म्महामतिस्तस्यां समुत्पस्यति ते सुतः ॥
मार्कण्डेय उवाच ।तथति तेन चाप्युक्ता तस्मात्तोयाद्वपुष्मतीम् ।उज्जहार ततः कभ्यां मालिनीं नाम नामतः ॥
नद्याश्च पुलिने तस्मिन् स मुनिर्मुनिसत्तम ! ।जग्राह पाणिं विधिवत् समानाय्य महामुनीन् ॥
तस्यां तस्य सुतो जज्ञे महावीर्य्यो महामतिः ।रौच्योऽभवत् पितुर्नाम्ना ख्यातोऽत्र वसुधातले ॥
तस्य मन्वन्तरे देवास्तथा सप्तर्षयश्च ये ।तनयाश्च नृपाश्चैव ते सम्यक् कथितास्तव ॥
धर्म्मवृद्धिस्तथारोग्यं धनधान्यसुतोद्भवः ।नृणां भवत्यसन्दिग्धमस्मिन् मन्वन्तरे श्रुते ॥
पितृस्तवं तथा श्रुत्वा पितॄणाञ्च तथा गणान् ।सर्व्वान् कामानवाप्नोति तत्प्रसादान्नरो मुने ॥
”इति मार्कण्डेयपुराणे रौच्येमन्वन्तरं समाप्तम् ॥
गारुडे ८९ । ९० अध्यायेऽप्येवमस्ति ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
