| YouTube Channel

रुच (ruca)

 
Capeller Eng
English
रुच॑
a.
bright,
f.
रुचा pleasure, liking.
Spoken Sanskrit
English
रुच - ruca -
adj.
- radiant
रुच - ruca -
adj.
- brilliant
रुच - ruca -
adj.
- bright
Wilson
English
रुच r. 1st cl. (रोचति)
1 To shine.
2 To please, to be pleased.
Monier Williams Cologne
English
रुच॑
mfn.
bright, radiant, brilliant,
VS.
Monier Williams 1872
English
रुच, अस्, आ, अम्, Ved. bright, radiant, brilliant
(आ), f. light, lustre, beauty
pleasure, delight, desire,
liking
the note of the parrot or Maina.
Apte Hindi
Hindi
रुच
स्त्री*
- रुच् +क्विप्
"प्रकाश, कान्ति, उज्ज्वलता"
रुच
स्त्री*
- -
"रङ्ग, छबि (समास के अन्त में) "
रुच
स्त्री*
- -
"अभिरुचि, इच्छा"
Shabdartha Kaustubha
Kannada
रुच - दीप्तावभिप्रेतौ (भ्वा० आत्म० अक० से) रोचते रोचिता अरोचत
कन्नडार्थः - > ಪ್ರಕಾಶಿಸು /ಹೊಳೆ
प्रयोगाः - > "विकचबाणदलावलयोऽधिकं रुरुचिरे रुचिरेक्षणविभ्रमाः"
उल्लेखाः - > माघ० ६-४७
रुच - दीप्तावभिप्रेतौ (भ्वा० आत्म० अक० से) रोचते रोचिता अरोचत
कन्नडार्थः - > ಇಷ್ಟಪಡು /ಒಪ್ಪು /ಸಂಮತಿಸು
प्रयोगाः - > १) "यदेव रोचते यस्मै भवेत्तत्तस्य सुन्दरम्" २) "न स्रजो रुरुचिरे रमणीभ्यः" ३) "इयमिष्टगुणाय रोचतां रुचिरार्था भवतेऽपि भारती"
उल्लेखाः - > हितो० २-५३, किरा० ९-३५, किरा० २-५
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रुच्
मूलधातुः:
रुच
धात्वर्थः:
दीप्तौ-अभिप्रीतौ
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
रोचते
अनुबन्धादिविशेषः:
द्युतादिः
धातुप्रदीपः
Sanskrit
रुचँ रुच दीप्तौ
- अभिप्रीत्याञ्च रोचते रुरुचे अरुचत् अरोचिष्ट रोचनः इसुन्-रोचिः। रुचिः घञ्-रोकः अरोकः अरोकदन् अरोकदन्तः। विभाषा श्यावारोक (5/4/144) इति दत्रादेशः ।। 748 ।।
अभिधानचिन्तामणिपरिशिष्टम्
Sanskrit
--source--
रजते त्रापुषं वङ्गं जीवनं वसु भीरुकम्
स्वभ्रं सौम्यं शोध्यं रूप्रं भीरु जवीयसम् १५९
-wordlist-
त्रापुष (क्ली), वङ्गं (क्ली), जीवन (क्ली), वसु (क्ली), भीरुक (क्ली), स्वभ्र (क्ली), सौम्य (क्ली), शोध्य (क्ली), रुच (क्ली), भीरु (क्ली), जवीयस (क्ली)
शब्दकल्पद्रुमः
Sanskrit
रुच, प्रीतिप्रकाशयोः इति कविकल्पद्रुमः
(भ्वा०-आत्म०-अक०-सेट् ।) प्रीतिरिह अनु-रागविशेषः तत्र यस्यानुरागस्तस्य सम्प्रदान-त्वम् ङ, रोचते अन्नं बुभुक्षवे ऌ, अरुचत् ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
रुच प्रीतौ प्रकाशे
भ्वा०
आ० अक० सेट् रोचते लुङिउ० अरुचत् अरोष्टिष्ट एतद्योगे प्रीयमाणस्य सम्प्र-दानता “नारदाय रोचते कलहः” सि० कौ०
क्षीरतरङ्गिणी
Sanskrit
रुचँ रुच दीप्ति, अभिप्रीतौ
- (अर्थविवरणम्) अभिप्रीतिरभिलाषः
रुच्यर्यानां प्रीयमाणः (1433) सम्प्रदानम्-चैत्राय रोचते रोचनः अरुचत अरोचिष्ट पादमि (1389) इति तङ्-परिरोचयते राजसूयसूर्य (31114) इति कर्तरि रुच्यः साधुः भावे ण्यत्-रोच्यम्, यजयाचरुच (7366) इति कुत्वं नास्ति घञ्-रोकः ल्युट् रोचनी दृषत् ण्यन्ताल्ल्युः (द्र0 31134) रोचना अलंकृञ्निराकृञ् (32536) इतीष्णुच्-रोचिष्णुः युजिरुचितिजां कुश्च (उ0 1146) इति रुक्यम् इसिः-रोचिः इक कृष्यादिभ्यः (33188 वा0) रुचिः अस्त्यर्थे रुचिरम् 724
धातुवृत्तिः
Sanskrit
रुचँ रुच (अर्थः) दीप्तौ, अभिप्रीतौ
(रोचते देवदत्ताय मोदकः) "रुच्यर्थानां प्रीयमाणः'' इति प्रीयमाणस्य संप्रदानत्वाच्चतुर्थी (रुरुचे रोचिता अरुचत् अरोचिष्ट रुरुचिषते रुरोचिषते रुचित्वा रोचित्वा ) भृशं रोचतइत्यर्थे यङ्लुगिष्यत इतिवृत्तिन्यासादौ (रोचयति रोचयते)"अणावकर्मकात्''इति कर्त्रभिप्राये प्राप्तेपरस्मैपदे"न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः'' इति निषिध्यते ( रोचयति रोचनः रोचनम् ) नन्दिवासिदमिरुच्यसीधिवर्द्धिरोचिभ्यो ण्यन्तेभ्यः संज्ञज्ञयामिति नद्यादिपाठे ल्लुयः ( रोचिष्णुः ) "अलंकत्'' इत्यादिनेष्णुच् ( रुच्यः ) "राजसूय'' इत्यादीना कर्त्तरि क्यप् निपात्यते (रोकः) घञ् "चजोः कुधिण्ण्यतोः'' इति निष्ठायामनिटः कुत्वं वदतो वार्त्तिककारस्य "विभाषा श्यावारोकाभ्याम्'' इति निपातनात् कुत्त्वम् (रोचिः) "शुचिरुच्योः संज्ञाम्'' इति सिः ( रुक्मम् ) "युजिरुचिनितां कश्च'' इति मन्प्रत्ययः तकारस्य ककारः ( रोचकः ) "क्कुन् शिल्पिसंज्ञयोः'' इति क्कु् 732
कृदन्तरूपमाला
Sanskrit
1 {@“रुच दीप्तौ अभिप्रीतौ च”@} 2 न्यासपदमञ्जर्यादिषु ‘अभिप्रीतौ’ इति पठ्यते।
‘अभिप्रीतिः = प्रीतिविषयीभवनम्।’ इति बालमनोरमा।
रोचकः-चिका, रोचकः-चिका, रुरोचिषकः-रुरुचिषकः-षिका, 3 रोरुचकः- चिका
रोचिता-त्री, रोचयिता-त्री, रुरोचिषिता-रुरुचिषिता-त्री, रोरुचिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककोचतिवत् 4 ज्ञेयानि।
देवदत्ताय 5 रोचमानो मोदकः, 6 रोचयन्-न्ती, रोचयमानः, 7 रोचनः 8 रोचना, विरोचनः, 9 10 रोचनी, 11 रुच्यः 12, 13 रोच्यम्, 14 रोचिष्णुः 15, 16 रुचिः-रुचिरम्, 17 नीरुक्--अभीरुक्, 18 रोकः 19, 20 अरोचकः, 21 रुचकः, 22 रुक्मम्, 23 रुचिष्यम्, 24 वसुरोचिः-रोचिः, 25 इतीमानि रूपाण्यस्माद् भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१४१४)
02
=>
(१-भ्वादिः-७४५। अक। सेट्। आत्म।)
03
=>
[[२। “तच्च अवश्यम् अनभिधानमाश्रयितव्यम्। क्रियमाणेऽपि हि एकाज्झलादिग्रहणे यत्रैकाचो हलादेश्चोत्पद्यमानेन यङाऽर्थस्याभिधानं भवति, भवति तत्रोत्पत्तिः। तद् यथा भृशं शोभते, भृशं रोचते।” इति भाष्यात् (३-१-२२) अस्य धातोः भृशार्थे यङ् न। पौनःपुन्यार्थे तु यङ् भवति। एवञ्चात्र, ‘पौनःपुन्यं मृशार्थो वा क्रियासमभिहारः।’ इति शाब्दिकमर्यादया भृशार्थरूपक्रियासमभिहारार्थे यङ्, पौनःपुन्यरूपक्रियासमभिहारार्थे तु यङ् भवतीति बोध्यम्।]]
04
=>
(२००)
05
=>
[[३। ‘रुच्यर्थानां प्रीयमाणः’ (१-४-३३) इति प्रीयमाणस्य संप्रदानसंज्ञायाम्, ‘चतुर्थी सम्प्रदाने’ (२-३-१३) इति चतुर्थी।]]
06
=>
[[४। धातोरस्याकर्मकत्वात् अभिप्रीतिरूपार्थे चित्तवत्कर्तृकत्वादपि, ‘अणावकर्मकात्--’ (१-३-८८) इति कर्त्रभिप्राये प्राप्तस्य परस्मैपदस्य, ‘न पादम्याङ्यमाङ्यसपरिमुह- रुचिनृतिवदवसः’ (१-३-८९) इति निषेधात्, ‘णिचश्च’ (१-३-७४) इति यथा- संम्भवमुभयपदित्वमिति बोध्यम्। तेन शतृशानजन्तावुभावपि साधू इति बोध्यम्।]]
07
=>
[[५। नन्द्यादिषु (३-१-१३४) ‘नन्दिवासिदमिदूषिमाधिवर्द्धिशोभिरोचिभ्यो ण्यन्तेभ्यः संज्ञायाम्’ (ग। सू।) इति वचनात् कर्तरि ल्युः। गुणः। रोचनः = कूटशाल्मलिः। स्त्रियामजादिषु (४-१-४) पाठात् टाप्।]]
08
=>
[[B। ‘रोचनैर्भूषितां पम्पामस्माकं हृदयाविधम्।।’ भ। का। ६। ७४।]]
09
=>
[पृष्ठम्११२६+ ३४]
10
=>
[[१। रोचनी इत्यत्र ल्युटि, टित्त्वेन स्त्रियां ङीपि रूपम्।]]
11
=>
[[२। ‘राजसूयसूर्यमृषोद्यरुच्य--’ (३-१-११४) इत्यादिना निपातनात् क्यप्। ‘सूर्य- रुच्याव्यथ्याः कर्तरि’ (वा। ३-१-११४) इति वचनात् कर्तरि निष्पन्नोऽयम्। रोचतेऽसौ रुच्यः।]]
12
=>
[[आ। ‘अमृषोद्यं वदन् रुव्यो जगाहे द्यां निशाचरः।।’ भ। का। ६। ५८।]]
13
=>
[[३। भावे ण्यति, ‘यजयाचरुच--’ (७-३-६६) इति निषेधात् कुत्वं न। ‘क्वाद्यजिव्रजि- याचिरुचीनामप्रतिषेधो निष्ठायामनिटः कुत्ववचनात्’ (वा। ७-३-५९) इति वार्तिकपक्षे तु रोक्यम् इति कुत्वेनैव भाव्यम्, ‘यथोत्तरं मुनीनां प्रामाण्यम्’ इति शाब्दिकसंकेतात्। यदि तु रोच्यम् इति प्रयोगो दृश्यते, तदानीं पृषोदरादित्वात् (६-३-१०९) कुत्वाभाव इति बोध्यम्।]]
14
=>
[[४। ‘अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुचि--’ (३-२-१३६) इत्यादिना तच्छी- लादिषु कर्तृषु इष्णुच्प्रत्ययः।]]
15
=>
[[B। ‘रोचिष्णुकाञ्चनचयाशुपिशङ्गिताशा…।’ शि। व। ५। २०।]]
16
=>
[[५। स्त्रियाम्, ‘इक् कृष्यादिभ्यः’ (वा। ३-३-१०८) इति भावे इक्प्रत्ययः। रुचिशब्दात् मत्वर्थीयो रप्रत्ययो बाहुलकात् प्रयोगदर्शनाद् द्रष्टव्यः। रुचिरः = रुचिमान् इति यावत्।]]
17
=>
[[६। क्विपि, ‘चोः कुः’ (८-२-३०) इति कुत्वे, ‘नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ’ (६-३-११६) इति पूर्वपदस्य दीर्घः। ‘निरोचनम् = नीरुक्’ इति न्यासे विवरणात् बाहुलकात् करणे भावार्थे वा क्विबत्रेति ज्ञायते।]]
18
=>
[[७। घञि, ‘चजोः कु घिण्ण्यतोः’ (७-३-५२) इति कुत्वम्, इति न्यासः (५-४-१४४)। परंतु निष्ठायामनिटो धातोरेव ‘चजोः--’ (७-३-५२) इति कुत्वमित्याश्रयितॄणां वार्तिककारभाष्यकारादीनां मते तु ‘विभाषा श्यावारोकाभ्याम्’ (५-४-१४४) इत्यत्र अरोक इति निपातनादेवात्र कुत्वमिति ज्ञेयम्।]]
19
=>
[[C। ‘नासाविरोकपवनोल्लसितं तनीमो रोमाञ्चतामिव जगाम रजः पृथिव्याः।।’ शि। व। ५। ५४।]]
20
=>
[[८। ‘अरोचकः’ इत्यत्र, ‘रोगाख्यायां ण्वुल् बहुलम्’ (३-३-१०८) इति ण्वुल्। अरोचकः = अरुचिव्याधिः। अत्र बहुलग्रहणात् स्त्र्यधिकारविहितत्वेऽपि स्त्रीत्वं नेति प्रक्रियासर्वस्वम्। अयं भावः-- ‘प्रत्ययस्थात्--’ (७-३-४४) इति इत्वं, टाबादिकं चास्य नेत्यर्थः।]]
21
=>
[[९। ‘क्वुन् शिल्पिसंज्ञयोः--’ (द। उ। ३-५) इति क्वुन्। कित्त्वान्न गुणः। रुचकः। स्वर्णमयो भूषणविशेषः।]]
22
=>
[[१०। ‘युजिरुचितिजां कुश्च’ (द। उ। ७-३३) इति मक्प्रत्ययः, कवर्गश्चान्तादेशः। प्रत्ययस्य कित्त्वान्न गुणः। रोचतेऽतिशयेन तदिति रुक्मम् = सुवर्णम्।]]
23
=>
[[११। ‘रुचिभुजिभ्यां किष्यन्’ (द। उ। ८। १५) इति किष्यन्प्रत्ययः। रुचिष्यम् = भोज्यम्।]]
24
=>
[[१२। ‘वसौ रुचेः संज्ञायाम्’ (द। उ। ९। ३३) इति इसिन्प्रत्ययः। वसुभ्यो रोचते, वसव अस्मिन् रोचन्ते इति वा वसुरोचिः = क्रतुः। बाहुलकात् ‘वसु’ इत्युपप- दाभावेऽपि केवलाद्धातोः इसिन्प्रत्यये रोचिः = ज्वाला।]]
25
=>
[पृष्ठम्११२७+ ३२]