| YouTube Channel

रुक्मिणीव्रत (rukmiNIvrata)

 
Monier Williams Cologne
English
रुक्मिणी—व्रत
n.
a partic. observance and
N.
of a ch. of the
KalkiP.
,
Cat.
शब्दकल्पद्रुमः
Sanskrit
रुक्मिणीव्रतं,
क्ली,
(रुक्मिण्या व्रतम् ।) व्रत-विशेषः यथा, --सूत उवाच ।“जामदग्न्यः समाकर्ण्य रमां तां पुत्त्रगर्द्धिनीम्कल्केरभिमतं बुद्ध्वा कारयद्रुक्मिणीव्रतम्
व्रतेन तेन रमा पुत्त्राढ्या सुभगा सती ।सर्व्वभोगेन संयुक्ता बभूव स्थिरयौवना
शौनक उवाच ।विधानं ब्रूहि मे सूत व्रतस्यास्य यत् फलम् ।पुरा केन कृतं धर्म्म्यं रुक्मिणीव्रतमुत्तमम्
सूत उवाच ।शृणु ब्ह्मन् ! राजपुत्त्री शर्म्मिष्ठा वार्षपर्व्वणी ।अवगाह्य सरोनीरं सोमं हरमपश्यत
सा सखीभिः परिवृता देवयान्या संगता ।शम्भुभीत्या समुत्थाय पर्य्यधुर्व्वसनं द्रुतम्
तत्र शुक्रस्य कन्या या वस्त्रव्यत्यासमात्मनः ।संलक्ष्य कुपिता प्राह वसनं त्यज भिक्षुकि !
इति दानवकन्या सा दासीभिः परिवारिता ।तां तस्या वाससा वद्ध्वा कूपे क्षिप्त्वा गतागृहम्
तां कूपमग्नां रुदतीं जलाथी नहुषात्मजः ।करे स्पृश्य समुद्धृत्य प्राह का त्वं वरानने
सा शुक्रपुत्त्री वसनं परिधाय ह्निया भिया ।शर्म्मिष्ठया कृतं सर्व्वं प्राह राजानमीक्षती
ययातिस्तदभिप्रायं ज्ञात्वानुव्रज्य शोभनाम् ।आश्वास्य तां ययौ गेहं तस्याः परिणयादृतः
सा गत्वा भवनं शुक्रं प्राह शर्म्मिष्ठया कृतम् ।तच्छ्रुत्वा कुपितं विप्रं वृषपर्व्वाह सान्त्वयन्
दण्ड्यं मां दण्डय विभो रोषो यद्यस्ति ते मयि ।शर्म्मिष्ठां वाप्यपकृतां कुरु यन्मनसेप्सितम्
राजानं प्रणतं पादे पितुर्दृष्ट्वा रुषाब्रवीत् ।देवयानी त्वियं कन्या मम दासी भवत्विति
समानीय तदा राजा दास्ये तां विनियुज्य सः ।ययौ निजगृहं ज्ञानी दैवं परमकं स्मरन्
ततः शुक्रस्तमानीय ययातिं प्रतिलोमकम् ।तस्मै ददौ तां विधिवत् देवयानीं तया सह
दत्त्वा प्राह नृपं विप्रोऽप्येनां राजसुतां यदि ।शयने नयसे सद्यो जरा त्वामुपभोक्ष्यति
शुक्रस्यैतद्वचः श्रुत्वा राजा तां वरवर्णिनीम् ।अदृश्यां स्थापयामास देवयान्यनुगां भिया
सा शर्म्मिष्ठा राजपुत्त्री दुःखशोकभयाकुला ।नित्यं दासीशताकीर्णा देवयानीन्तु सेवते
एकदा सा वनगता रुदती जाह्नवीतटे ।विश्वामित्रं मुनिं सा तं ददृशे स्त्रीभिरावृतम्
व्रजिनं पुण्यगन्धाभिः सुरूपाभिः सुवासितम् ।कारयन्तं व्रतं भाल्यधूपदीपोपहारकैः
निर्म्मायाष्टदलं पद्मं वेदिकायां सुचिह्नितम् ।रम्भापोतैश्चतुर्भिस्तु चतुष्कोणं विराजितम्
वाससा निर्म्मितगृहे स्वर्णपट्टैर्विचित्रिते ।निर्म्मितश्रीवासुदेवं नानारत्नविघट्टितम्
पौरुषेण सूक्तेन नानागन्धोदकैः शुभैः ।पञ्चामृतैः पञ्चगव्यैर्यथामन्त्रैर्द्विजेरितैः
स्नापयित्वा भद्रपीठे कर्णिकायां प्रपूजयन् ।पञ्चभिर्दशभिर्व्वापि षोडशैरुपचारकैः
पाद्यमध्वश्रमहरं शीतलं सुमनोहरम् ।परमानन्दजनकं गृहाण परमेश्वर
दूर्व्वाचन्दनगन्धाढ्यमर्घ्ययुक्तं प्रयत्नतः ।गृहाण रुक्मिणीकान्त प्रपन्नस्य मम प्रभो
नानातीर्थोद्भवं वारि सुगन्धि सुमनोहरम् ।गृहाणाचमनीयं त्वं श्रीनिवास श्रिया सह
नानाकुसुमगन्धाढ्यं सूत्रग्रथितमुत्तमम् ।वक्षःशोभाकरं चारु माल्य नय सुरेश्वर
तन्तुसन्तानसन्धानरचितं वन्दनं हरे ।गृहाणावरणं शुद्धं निरावरण सप्रिय
यज्ञसूत्रमिदं देव प्रजापतिविनिर्म्मितम् ।गृहाण वामुदेव त्वं रुक्मिण्या रमया सह
नानारत्नसमायुक्तं स्वर्णमुक्तादिषट्टितम् ।प्रियया सह देवेश गृहाणाभरणं मम
दधिक्षीरगुडाम्नादिपूपलड्डुकखण्डकान् ।गृहाण रुक्मिणीनाथ सनाथं कुरु मां प्रभो
कर्पूरागुरुगन्धाढ्यं परमानन्ददायकम् ।धूपं गृहाण वरद वैदर्भ्या प्रियया सह
भक्तानां गेहसक्तानां संसारध्वान्तनाशनम् ।दीपमालोकय विभो जगदालोकनादर
श्यामसुन्दर पद्माक्ष पीताम्बर चतुर्भुज ।प्रपन्नं पाहि देवेश रुक्मिण्या सहिताच्युत
इति तासां व्रतं दृष्ट्वा मुनिं नत्वा सुदुःखिता ।शर्म्मिष्ठा मिष्टवचना कृताञ्जलिरुवाच ताः
शर्म्मिष्ठोवाच ।राजपुत्त्रीं दुर्भगां मां स्वामिना परिवर्ज्जिताम् ।त्रातुमर्हथ हे देव्यो व्रतेनानेन कर्म्मणा
श्रुत्वा तु ता चस्तस्याः कारुण्याच्च कियत्कियत् ।पूजोपकरणं दत्त्वा कारयामासुरादरात्
व्रतं कृत्वा तु शर्म्मिष्ठा लब्ध्वा स्वामिनमीश्वरम् ।सूत्वा पुत्त्रान् सुसन्तुष्टा समभूत् स्थिरयौवना
सीता चाशोकवनिकामध्ये सरमया सह ।व्रतं कृत्वा पतिं लेभे रामं राक्षसनाशनम्
बृहदश्वप्रसादेन कृत्वेदं द्रौपदी व्रतम् ।पतियुक्ता दुःखमुक्ता बभूव स्थिरयौवना
तथा रमा सिते पक्षे वैशाखे द्वादशीदिने ।जामदग्न्याद्व्रतं चक्रे पूर्णं वर्षचतुष्टयम्
पट्टसूत्रं करे बद्ध्वा भोजयित्वा द्बिजान् बहून् ।भुक्त्वा हविष्यं क्षीराक्तं सुमिष्टं स्वामिना सह
बुभुजे पृथिवीं सर्व्वामपूर्व्वां स्वजनैर्वृता ।सा पुत्त्रौ सुषुवे साध्वी मेघमालवलाहकौ
देवानामुपकर्त्तारौ यज्ञदानतपोव्रतौ ।महोत्साहौ महावीर्य्यौ सुभगौ कल्किसम्मतौ
व्रतवरमिति कृत्वा सर्व्वसम्पत्समृद्धाभवति विदिततत्त्वा पूजिता पूर्णकामा ।हरिचरणसरोजद्बन्द्वभक्तैकतानाव्रजति गतिमपूर्व्वां ब्रह्मविज्ञैरगम्याम्
”इति कल्किपुराणे रुक्मिणीव्रतम् ३१ अध्यायः