| YouTube Channel

रुक्मं (rukmaM)

 
शब्दकल्पद्रुमः
Sanskrit
रुक्मं,
क्ली,
(रोचते शोभते इति रुच् + “युजि-रुचितिजां कुश्च उणा० १४५ इतिमक् कवर्गश्चान्तादेशः ।) काञ्चनम् (यथा, रामायणे ७० २१ ।“रुक्मनिष्कसहस्रे द्धे षोडशाश्वशतानि ।सत्कृत्य केकयीपुत्त्रं कैकेयो धनमादिशत्
”)धुस्तूरम् इत्यमरः
लोहम् इति मेदिनी ।मे, २८
(अस्य पर्य्यायो यथा, --“कृष्णायसं काललोहं रुक्मं तत्तीक्ष्णमप्यथ
”इति वैद्यकरत्नमालायाम्
)नागकेशरम् इति राजनिर्घण्टः
(वर्णे, पुं इति उज्ज्वलदत्तः १४५
दीप्तिशीले, त्रि वथा, ऋग्वेदे ६१ १२ ।“दिवि रुक्म इवोपरि
”“दिवि द्युलोके रुक्मो रोचमान आदित्य इव ।”इति तद्भाष्ये सायणः
)