| YouTube Channel

रिवि (rivi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रिण्व्
मूलधातुः:
रिवि
धात्वर्थः:
गतौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
रिण्वति
धातुप्रदीपः
Sanskrit
रिविँ रिवि
मानकरूपान्तरम् - रविँ
रवि
मानकरूपान्तरम् - धविँ
धवि गत्यर्थाः
- रिण्वति। रण्वति। रण्वा धन्वति दधन्व कनिन्-धन्वा मरुदेशः ।। 595-597 ।।
क्षीरतरङ्गिणी
Sanskrit
रिविँ रिवि
मानकरूपान्तरम् - रविँ
रवि
मानकरूपान्तरम् - दविँ
दवि
मानकरूपान्तरम् - धविँ
धवि गत्यर्थाः
- रिण्वति रण्वति अबि रबि इत्योष्ठ्यान्तौ रम्बते करम्बः, करम्बितम् धन्वति धन्वा 579-582
धातुवृत्तिः
Sanskrit
रिविँ रिवि
मानकरूपान्तरम् - रविँ
रवि
मानकरूपान्तरम् - धविँ
धवि (अर्थः) गत्यर्थाः
(रिण्वति धन्वतीत्यादि धान्वा ) "कनिन्युवृषिक्षिराजिधन्विद्यप्रतिदिवः'' इति कनिन् उणादिवृत्तौ धन्विः सौत्रो धातुरुच्यते नान्तत्वादसंबुद्धौ सर्वनामस्थाने दीर्घः भसंज्ञायां "न संयोगाद्वमन्तात्'' इति अल्लोपनिषेधात् (धन्वन) इति स्त्रियाम् "अनो बहुव्रीहेः'' इति ङीपो निषेधात् सुधन्वा सुधन्वानौ इत्यादि यदा "डाबुभाभ्याम्''इति बहुव्रीहेः'' इति ङीपो निषेधात् सुधन्वे इत्यादि अत्रान्यतश्रस्यां ग्रहणात् यत् डापोभ्यनुज्ञानमुक्तं तदुपधालोपिन एवेति जेमतावुक्तम् 586
कृदन्तरूपमाला
Sanskrit
1 {@“रिवि गत्यर्थः”@} 2 रिण्वकः-रिण्विका, रिण्वकः-ण्विका, रिरिण्विषकः-षिका, रेरिण्वकः-ण्विका
रिण्विता-त्री, रिण्वयिता-त्री, रिरिण्विषिता-त्री, रेरिण्विता-त्री
इत्यादीनि तर्वाण्यपि रूपाणि भौवादिकजिन्वतिवत् 3 बोध्यानि।
ल्युटि 4 रिण्वनम्।
प्रासङ्गिक्यः
01
=>
(१४०६)
02
=>
(१-भ्वादिः-५९५। सक। सेट्। पर।)
03
=>
(६०४)
04
=>
[[आ। ‘जिन्वन्तमुर्वीं निजरिण्वनैः सतां रण्वन्तमन्तर्भवधन्वपादपम्।’ धा। का। १। ७६।]]