| YouTube Channel

रिरेफिषिता-रिरिफिषिता-त्री (rirephiSitA-ririphiSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रिफ कत्थनयुद्धनिन्दाहिंसादानेषु”@} 2 ‘ऋफ--’ इति क्षीरस्वामी।
“… ‘रिह इति द्रमिडाः--इति स्वामी।
अनिट्कारिकासु 3 वामनश्च-- ‘रिहिलुही धातुषु पठ्येते।
कैश्चिदभ्युपगम्येते’ इति।
अत्र न्यासे-- ‘कैश्चिदिति।
आपिशलिप्रभृतिभिः।’ इति।
तस्मात् तावपि स्त एव।
प्रयुज्यते -- ‘शिशुं विप्रा मतिभी रिहन्ति।’ इति।” इति माधवधातुवृत्तिः।
अत्रोपात्तः स्वामी क्षीरस्वामी, अपितु अन्य इति ज्ञेयम्।
4 रेफकः-फिका, रेफकः-फिका, रिरेफिषकः-रिरिफिषकः-षिका, रेरिफकः-फिका
रेफिता-त्री, रेफयिता-त्री, रिरेफिषिता-रिरिफिषिता-त्री, रेरिफिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककिलतिवत् 5 बोद्ध्यानि।
6 रेफित्वा।
7 रेफः।
प्रासङ्गिक्यः
01
=>
(१४०५)
02
=>
(६-तुदादिः-१३०६। सक। सेट्। पर।)
03
=>
(काशिका ७-२-१०)
04
=>
[पृष्ठम्१११९+ २६]
05
=>
(१९३)
06
=>
[[१। अत्र, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् रूपमेकमेवेति माधवधातु- वृत्तिः। ‘रलो व्युपधात् हलादेः संश्च’ (१-२-२६) इति कित्त्वविकल्पे तु रिफित्वा रेफित्वा इति रूपद्वयं भवेत्, तत्तु ‘नोपधात् थफान्ताद् वा’ (१-२-२३) इत्यत्र नोपधादेवेति नियमाश्रयणात् नेति माधवाशयः। वस्तुतस्तु ‘प्रकल्प्य चापवाद- विषयं तत उत्सर्गोऽभिनिविशते’ (परि। ६४) इति न्यायेन इकारोकारोपधधातुषु विषये परत्वात् अपवादत्वाच्च ‘रलो व्युपधात्--’ (१-२-२६) इत्यस्य प्रवृत्तेरनिवार्य- तया, रिफित्वा इति पाक्षिकरूपस्य सिद्ध्यर्थं सन्नन्ते इव कित्त्वविकल्प एव न्याय्यः। नियमाश्रयणे किञ्चिद् बीजं दृश्यते। विस्तरस्त्वन्यश्रेत्यत्रालम्।]]
07
=>
[[२। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। रेफः = अधमः। धात्वर्थोऽत्र निन्दा।]]