| YouTube Channel

रिरम्बिषकः-षिका (rirambiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“रबि शब्दे”@} 2 रम्बकः-म्बिका, रम्बकः-म्बिका, रिरम्बिषकः-षिका, रारम्बकः-म्बिका
रम्बिता-त्री, रम्बयिता-त्री, रिरम्बिषिता-त्री, रारम्बिता-त्री
इत्यादिकानि सर्वाण्यपि रूपाणि भौवादिककम्पतिवत् 3 ज्ञेयानि।
4 रम्बणः, 5 सुरम्बी, 6 हेरम्बः, 7 अस्य धातोः इमानि रूपाण्यधिकानीति विशेषः।
प्रासङ्गिक्यः
01
=>
(१३७७)
02
=>
(१-भ्वादिः-३७६। अक। सेट्। आत्म।)
03
=>
(१६६)
04
=>
[[१। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति, ‘चलनशब्दार्थादकर्मकाद्युच्’ (३-२-१४८) इति वा युच् ताच्छीलिकः।]]
05
=>
[[२। ‘सुप्यजातौ--’ (३-२-७८) इति णिनिप्रत्यये रूपमेवम्।]]
06
=>
[[३। हे इत्येवं रम्बते इति हेरम्बः = विनायकः। पचाद्यचि रूपमेवम्। ‘के रम्बते-- करम्बः। स्वर्णं रत्नकरम्बितम्, कृञश्च चित् (‘कृञश्च’ द। उ। ७-१७) इत्यम्बज् वा’ इति क्षीरतरङ्गिण्यामुक्तम्। “‘हः शङ्करे हरौ हंसे रणरोमाञ्च- वाजिषु’ इति नानार्थरत्नमाला। ‘हे उषसि रम्बते’ इति स्वामी।” इति अमरसुधा (१-३८)।]]
07
=>
[[B। ‘सकम्पहेरम्बसमानलम्बनाः…।’ धा। का। १-४९।]]