| YouTube Channel

रिफ (ripha)

 
Wilson
English
रिफ r. 6th cl. (रिफति)
1 To speak, to say or tell.
2 To fight.
3 To blame, to censure.
4 To hurt or injure.
5 To give.
6 To praise, to flatter.
Apte
English
रिफ [ripha], 6
P.
(रिफति, रिफित)
To utter a rough grating sound.
To revile, blame.
To speak, say.
To boast.
To give.
To fight.
To hurt, kill.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रिफ्
मूलधातुः:
रिफ
धात्वर्थः:
कत्थन-युद्ध-निन्दा-हिंसादानेषु
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
रिफति
धातुप्रदीपः
Sanskrit
रिफँ रिफ कत्थन, युद्ध, हिंसा, दानेषु
- रिफति रिरेफ नोपधात् थफान्ताद्वा (1223) इति नोपधग्रहणसामर्थ्यान्नित्यमकित्त्वमिच्छन्ति रेफित्वा रेफः 26
शब्दकल्पद्रुमः
Sanskrit
रिफ, कुत्सने इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् ।) सौत्रधातुरयम् रिप्फः रेफः ।इति दुर्गादासः
रिफ, अर्फे इति कविकल्पद्रुमः
(तुदा०-पर०-सक०-सेट् ।) श, रिफति अर्फोदानश्लाघाहिंसानिन्दायुद्धानि इति दुर्गा-दासः
वाचस्पत्यम्
Sanskrit
रिफ कुत्सने सौ०
पर०
सक०
सेट् रेफति अरेफीत्
रिफ सिंसायां निन्दायां बोधने
सक०
श्लाचायाम् अक०तु०
पर०
सेट् रिफति अरेफीत्
धातुवृत्तिः
Sanskrit
रिफँ रिफ (अर्थः) कत्थन, युद्ध, निन्दा, हिंसा, दानेषु
( रिफति रिरेफ ) इत्यादि लुभिवत् क्त्वायां "रलो व्युपधात्'' इति कित्त्वविकल्पः "नोपधात्थफान्त'' इत्यत्र नोपधग्रहणसामर्थ्यात् यदि हि स्यात्किं नोपधग्रहणेन ऋफ तृफ हिंसायामित्यृकारोपधो व्यावर्त्यः त्रैशब्द्यं हि नः साध्यम्, (रिफित्वा रिम्फित्वा अर्फित्वा) इति एतच्च सत्यसति नोपधग्रहणे भवत्येव सति नोपधस्य "न क्त्वा सेड्'' इति प्रतिषेधे सति अर्फित्वेति भवति नोपधस्य त्वस्मिन्विकल्पे रिफित्वा रिम्फित्वेति असत्यपि नोपधस्य ग्रहणेसर्वत्रास्मिन्विकल्पे प्रवृत्तेऽपीदमेव रूपत्रयं भवति रिहीति द्रमिडा इति स्वामी अनिट्कारिकासु वामनश्च रिहिलुही धातुषु पठ्येते कैश्चिदभ्युपगम्येते इति अत्र न्यासे कैश्चिदित्यापिशलिप्रभृतिभिरिति तस्मात्तावपि स्त एव प्रयुज्यते "शिशुं विप्रा मतिभीरिहन्ति'' इति 26
कृदन्तरूपमाला
Sanskrit
1 {@“रिफ कत्थनयुद्धनिन्दाहिंसादानेषु”@} 2 ‘ऋफ--’ इति क्षीरस्वामी।
“… ‘रिह इति द्रमिडाः--इति स्वामी।
अनिट्कारिकासु 3 वामनश्च-- ‘रिहिलुही धातुषु पठ्येते।
कैश्चिदभ्युपगम्येते’ इति।
अत्र न्यासे-- ‘कैश्चिदिति।
आपिशलिप्रभृतिभिः।’ इति।
तस्मात् तावपि स्त एव।
प्रयुज्यते -- ‘शिशुं विप्रा मतिभी रिहन्ति।’ इति।” इति माधवधातुवृत्तिः।
अत्रोपात्तः स्वामी क्षीरस्वामी, अपितु अन्य इति ज्ञेयम्।
4 रेफकः-फिका, रेफकः-फिका, रिरेफिषकः-रिरिफिषकः-षिका, रेरिफकः-फिका
रेफिता-त्री, रेफयिता-त्री, रिरेफिषिता-रिरिफिषिता-त्री, रेरिफिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककिलतिवत् 5 बोद्ध्यानि।
6 रेफित्वा।
7 रेफः।
प्रासङ्गिक्यः
01
=>
(१४०५)
02
=>
(६-तुदादिः-१३०६। सक। सेट्। पर।)
03
=>
(काशिका ७-२-१०)
04
=>
[पृष्ठम्१११९+ २६]
05
=>
(१९३)
06
=>
[[१। अत्र, ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् रूपमेकमेवेति माधवधातु- वृत्तिः। ‘रलो व्युपधात् हलादेः संश्च’ (१-२-२६) इति कित्त्वविकल्पे तु रिफित्वा रेफित्वा इति रूपद्वयं भवेत्, तत्तु ‘नोपधात् थफान्ताद् वा’ (१-२-२३) इत्यत्र नोपधादेवेति नियमाश्रयणात् नेति माधवाशयः। वस्तुतस्तु ‘प्रकल्प्य चापवाद- विषयं तत उत्सर्गोऽभिनिविशते’ (परि। ६४) इति न्यायेन इकारोकारोपधधातुषु विषये परत्वात् अपवादत्वाच्च ‘रलो व्युपधात्--’ (१-२-२६) इत्यस्य प्रवृत्तेरनिवार्य- तया, रिफित्वा इति पाक्षिकरूपस्य सिद्ध्यर्थं सन्नन्ते इव कित्त्वविकल्प एव न्याय्यः। नियमाश्रयणे किञ्चिद् बीजं दृश्यते। विस्तरस्त्वन्यश्रेत्यत्रालम्।]]
07
=>
[[२। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। रेफः = अधमः। धात्वर्थोऽत्र निन्दा।]]