| YouTube Channel

रिप्रवाहः (ripravAhaH)

 
शब्दकल्पद्रुमः
Sanskrit
रिप्रवाहः, त्रि, पापवाहकः यथा, --“क्रव्यादमग्निं प्रहिणोमि दूरम् ।यमराज्यं गच्छतु रिप्रवाहः
”इति भवदेवभट्टोक्तकुशण्डिकापद्धतिः
“रिप्रं पापं वहतीति रिप्रवाहः ।” इति तट्टी-कायां गुणविष्णुः
“स प्रहितः क्रव्यादग्निःयमराज्यं गच्छतु यमस्य राज्यं प्रति व्रजतु ।किम्भूतः रिप्रवाहः रिप्रमिति पापनाम रिप्रंपापं वहति नाशयति रिप्रवाहः ।” इति वाज-मनेयसंहिताभाष्ये महोधरः ३५ १९
“रिप्रवाहः रिप्रं पापं तस्य वोढा सोऽग्निःयमराज्ञः यमो राजा येषां तान् यमराजकान्अन्यप्रदेशान् गच्छतु प्राप्नोतु ।” इति ऋक्भाष्येसापणः १० १६
)