| YouTube Channel

रिच (rica)

 
Wilson
English
रिच r. 1st and 10 cls. (रेचति-रेचयति) To join, to unite.
2 To divide, to scatter or separate.
3 To purge. (औइर्) रिचिर r. 7th cl. (रिणक्ति-रिंक्ते) To
purge, to evacuate fæces frequently.
With अति prefixed, To exceed, to be more than enough.
With वि, To purge.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
रिच्
मूलधातुः:
रिच
धात्वर्थः:
वियोजन-सम्पर्चनयोः
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
रेचयति-ते
अनुबन्धादिविशेषः:
आधृषीयः
धातुप्रदीपः
Sanskrit
रिचँ रिच वियोजन, संपर्चनयोः
- रेचयति रेचति अन्यत्र रिङ्क्ते रिणक्ति 260
शब्दकल्पद्रुमः
Sanskrit
रिच, कि सम्पर्कवियोगयोः इति कविकल्पद्रुमः
(चुरा०-पक्षे भ्वा०-पर०-अक०-सेट् ।) कि-रेचयति रेचति रिङ्क्ते रिपुर्यदाक्रान्तो धनैर्म-न्त्रैश्च रेचति रेचयन्ति तन्नार्य्य इतिहलायुधः इति दुर्गादासः
रिच, इर् विरेके इति कविकल्पद्रुमः
(रुधा०-उभ०-अक०-अनिट् ।) विरेकः पौनः-पुन्येन पुरीषोत्सर्गः इति चतुर्भुजः इर्, अरिचत् अरैक्षीत् घ, ञ, रिणक्ति रिङ्क्तेअतिसारकी औ, रेक्ता इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
रिच सम्पर्के वियोगे वा
चु०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् ।रेचयति ते रेचति अरोरिचत् अरेचीत्
रिच विरेके (अतिशय पुरीषोत्सर्गे) रुघा० उम०
सक०
अनिट् ।रिणक्ति रिङ्क्ते इरित् अरिचत् अरैक्षीत् अरिक्त ।अति + अतिक्रम्य स्थिते आधिक्येन स्थितौ अक० अतिरेकःवि + अति भेदे तदसत्त्वे तदसत्त्वरूपे पदार्थे व्यतिरेकः
क्षीरतरङ्गिणी
Sanskrit
रिचँ रिच वियोजन, सम्पर्चनयोः
- रेचयति, रेचति रुधादौ (74) रिणक्ति 262
धातुवृत्तिः
Sanskrit
रिचँ रिच (अर्थः) वियोजन, सम्पर्चनयोः
( रेचयति रेचति रेक्ता ) अनिट्कारिकापाठादनिट्त्त्वम् विरेचने रिङ्क्ते रिणक्तीति श्नमि 275
कृदन्तरूपमाला
Sanskrit
1 {@“रिच वियोजनसंपर्चनयोः”@} 2 आधृषीयः।
‘-- वियोजनसंयमनयोः इति मुकुटः’ इति अमरसुधा 3।
सम्पर्चनम् = मिश्रीकरणम्।
अभिधानवैचित्र्यात् धातोरस्य परस्परविरुद्धार्थकत्वम्।
‘रिचिर् विरेचने रिङ्क्ते रिणक्ति श्ने, वियोजने।
सम्पर्चने यौ वा णौ रेचयत्यपि रेचति।।’ 4 इति देवः।
रेचकः-चिका, रिरेचयिषकः-षिका, रेचकः-चिका, रिरिक्षकः-क्षिका, रेरिचकः-चिका
रेचयिता-त्री, रिरेचयिषिता-त्री, रेचिता-त्री, रिरिक्षिता-त्री, रेरिचिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचर्पयतिवत् 5 बोध्यानि।
आधृषीयत्वादस्य णिज्विकल्पः।
णिजभावपक्षे ‘पचिं वचिं विचिरिचि- रञ्जिपृच्छतीन्--’ 6 इत्यनिट्कारिकासु पाठा- दनिट्त्वं बोध्यम्।
अत्र ‘रिचि--’ इति रौधादिकस्य, चुरादिषु पठितस्य णिजभावपक्षे औत्सर्गिकशब्विकरणकस्य सामान्येन ग्रहणम्।
णिजभावपक्षे निष्ठायाम्-- 7 विरिक्तः।
प्रासङ्गिक्यः
01
=>
(१४०३)
02
=>
(१०-चुरादिः-१८१७। सक। सेट्। उभ।)
03
=>
(१-१७)
04
=>
(श्लो। ५२)
05
=>
(५५४)
06
=>
(व्याघ्रभूतिकारिका ७-२-१०)
07
=>
[[आ। ‘अजरद्वृषवद् विरिक्तपीडः पुनरभ्येत्य विशिष्टचित्तताऽपि।’ धा। का। ३-४९।]]