| YouTube Channel

रिक्ता (riktA)

 
Apte
English
रिक्ता [riktā],
N.
of the fourth, ninth, and fourteenth days of a lunar fortnight.
Apte 1890
English
रिक्ता N. of the fourth, ninth, and fourteenth days of a lunar fortnight.
Monier Williams Cologne
English
रिक्ता (आ),
f.
(scil. तिथि)
N.
of the 4th, 9th, or 14th day of the lunar fortnight,
VarBṛS.
(cf. रिक्तार्क)
Apte Hindi
Hindi
रिक्ता
स्त्री*
- रिक्त + टाप्
"चान्द्रमास के पक्ष की चतुर्थी, नवमी या चतुर्दशी का दिन"
Shabdartha Kaustubha
Kannada
रिक्ता
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ರಿಕ್ತ ತಿಥಿ /ಶುಕ್ಲ ಮತ್ತು ಕೃಷ್ಣಪಕ್ಷಗಳ ಚತುರ್ಥಿ, ನಮಮಿ, ಮತ್ತು ಚತುರ್ದಶಿ ತಿಥಿಗಳು
विस्तारः - > "नन्दा भद्रा जया रिक्ता पूर्णा तिथयः क्रमात्" - तिथितत्त्वम्
L R Vaidya
English
rikta {% (I) a. (f. क्ता) %} 1. Divided
2. abandoned
3. joined
4. emptied, evacuated, (pp. of रिच् q.v.).
riktA {% f. %} A name of the fourth, ninth and fourteenth days of a lunar fortnight.
Kridanta Forms
Sanskrit
रिच् (रि॒चिँ॑र् विरेचने - रुधादिः - अनिट्)
ल्युट् = रेचनम्
अनीयर् = रेचनीयः - रेचनीया
ण्वुल् = रेचकः - रेचिका
तुमुँन् = रेक्तुम्
तव्य = रेक्तव्यः - रेक्तव्या
तृच् = रेक्ता - रेक्त्री
क्त्वा = रिक्त्वा
ल्यप् = प्ररिच्य
क्तवतुँ = रिक्तवान् - रिक्तवती
क्त = रिक्तः - रिक्ता
शतृँ = रिञ्चन् - रिञ्चती
शानच् = रिञ्चानः - रिञ्चाना
शब्दकल्पद्रुमः
Sanskrit
रिक्ता,
स्त्री,
(रिच् + क्तः टाप् ।) तिथिभेदः ।सा तु चतुर्थी नवमी चतुर्द्दशी यथा, --“नन्दा भद्रा जया रिक्ता पूर्णा तिथयःक्रमात्
”इति तिथ्यादितत्त्वम्
कर्म्मसु तस्या निषेधविधी यथा, --“नन्दा भद्रा जया रिक्ता पूर्णा नामसदृक्-फलाः ।”न रिक्ता सर्व्वकर्म्मसु इति ज्योतिःसारः
“चन्द्रे चार्ककुजार्किशुक्रवियुते मध्येऽथवा पापयोःत्यक्त्वा व्यतिपातवैधृतिदिनं विष्टिञ्च रिक्तांतिथिम् ।क्रूराहायनचैत्रपौषरहिते लग्नांशके मानुषे
रिक्तासु विधवा कन्या दर्शेऽपि स्याद्विवाहिता ।शनैश्चरदिने चैव यदि रिक्ता तिथिर्भवेत् ।तस्मिन् विवाहिता कन्या पतिसन्तानवर्द्धिनी
”इति दीपिका
“षष्ठे मासि निशाकरे शुभकरे रिक्तेतरे वा तिथौसौम्यादित्यसितेन्दुजीवदिवसे पक्षे कृष्णेतरे
”इति भुजबलभीमः
“द्वादशी सप्तमी नन्दा रिक्तासु पञ्चपर्व्वसु ।बलमायुर्यशो हन्यात् शिशूनामन्नभक्षणम्
”इति कृत्यचिन्तामणिः
“पूर्व्वेशान्तकसर्पमूलरहितेष्वृक्षेष्वरिक्ते तिथौषष्ठे मासि सितेन्दुजीवदिवसे गोज्ञर्क्ष मीनोदये ।संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्द्दने ।षष्ठीं प्रतिपदञ्चैव वर्जयित्वा तथाष्टमीम्
रिक्तां पञ्चदशीञ्चैव सौरिभौमदिने तथा ।एवं सुनिश्चिते काले विद्यारम्भन्तु कारयेत्
”इति विष्णुधर्म्मोत्तरः
“पूर्व्वाग्नियाम्यफणिचित्रशिवान्यभेषुरिक्ताष्टमीं विगतचन्द्रतिथिं विहाय ।द्व्यङ्गालिगोसमुदये विकुजार्किवारेशस्तेन्दुयोगकरणेषु हलप्रवाहः
”इति दीपिका
“चन्द्रार्कयोर्भवेत् पूर्णा कुजे भद्रा जया गुरौ ।बुधमन्दौ नन्दायां शुक्रे रिक्तामृता तिथिः
”इति भीमपराक्रमः
“सर्व्वत्र कार्य्ये बुधजीवशुक्राःकेन्द्रत्रिकोणोपगताः प्रशस्ताः ।तृतीयलाभारिगताश्च पापा-स्तिथिर्विरिक्ता शुभदस्य चाहः
”इति दीपिका
“चतुर्थी नवमी चैव रिक्ता चैव चतुर्द्दशी ।शुक्रे नन्दा बुधे भद्रा शनौ रिक्ता कुजे जया ।गुरौ पूर्णा संयुक्ता सिद्धियोगाः प्रकीर्त्तिताः
बुधमन्दगता नन्दा कुजे भद्रा जया गुरौ ।भृगुरिक्तामृतं प्रोक्तं पूर्णा रविचन्द्रयोः
”इति ज्योतिःसागरसारः
“षष्ठ्यष्टमीद्बादशीषु गच्छेत्त्रिदिनस्पशि ।पूर्णिमाप्रतिपद्दर्शरिक्तावमदिनेषु ।तथा यमद्बितीयायां यात्रायां मरणं भवेत्
”इति सत्कृत्यमुक्तावली
वाचस्पत्यम्
Sanskrit
रिक्ता स्त्री रिच--क्त उभयपक्षयोश्चतुर्थीनवमीचतुर्दशीतिथिषु ज्यो० त०